नारद उवाच
विश्वास-प्रस्तुतिः
क्षिप्तेभ्यस्तत्रबीजेभ्यो वनस्पत्यस्त्रयोभवन्
धात्री च मालती चैव तुलसी च नृपोत्तम ॥ १ ॥
मूलम्

धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता
गौरीभवा च तुलसी तमः सत्त्व रजोगुणाः ॥ २ ॥

स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप
उत्तस्थौ सम्भ्रमाद्वृन्दारूपातिशयमोहितः ॥ ३ ॥

ददर्श तास्तदा मोहात्कामासक्तेन चेतसा
तं चापि तुलसीधात्र्यौ रागेणैवावलोकताम् ॥ ४ ॥

यच्चलक्ष्म्यापुराबीजम्माययैवसमर्पितम्
तस्मात्तदुद्भवानारीतस्मिन्नीर्ष्यायुताभवत् ॥ ५ ॥

अतःसाबर्बरीत्याख्यामाधवस्यातिगर्हिता
धात्रीतुलस्यैतद्रा गात्तस्यप्रीतिप्रदेसदा ॥ ६ ॥

ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु
वैकुण्ठमगमद्धृष्टः सर्वदेवनमस्कृतः ॥ ७ ॥

कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते
तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता ॥ ८ ॥

तुलसीकाननं राजन्गृहे यस्यावतिष्ठते
तद्गृहं तीर्थरूपं तु नायान्ति यमकिङ्कराः ॥ ९ ॥

सर्वपापहरं पुण्यं कामदं तुलसीवनम्
रोपयन्ति नरश्रेष्ठा न तेपश्यन्ति भास्करिम् ॥ १० ॥

दर्शनं नर्मदायास्तु गङ्गास्नानं तथैव च
तुलसीवनसंसर्गः सममेतत्त्रयं स्मृतम् ॥ ११ ॥

रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम्
तुलसी दहते पापं वाङ्मनःकाय सञ्चितम् ॥ १२ ॥

तुलसीमञ्जरीभिर्यः कुर्याद्धरिहरार्चनम्
न स गर्भगृहं याति मुक्तिभागी न संशयः ॥ १३ ॥

पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा
वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले ॥ १४ ॥

तुलसीमञ्जरीयुक्तो यदि प्राणान्विमुञ्चति
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ॥ १५ ॥

तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुचन्ति
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ॥ १६ ॥

तुलसीकाष्ठजं यस्तु चन्दनं धारयेन्नरः
तद्देहं नस्पृशेत्पापं क्रियमाणमपीह यत् ॥ १७ ॥

तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप
तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां दत्तमक्षयम् ॥ १८ ॥

धात्रीछायासु यः कुर्यात्पिण्डदानं नृपोत्तम
तृप्तिं च यान्ति पितरस्तस्य ये नरके स्थिताः ॥ १९ ॥

मूर्ध्नि पाणौ मुखे चैव देहे च नृपसत्तम
धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम् ॥ २० ॥

धात्रीफलं च तुलसीमृत्तिका द्वारकोद्भवा
यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते ॥ २१ ॥

धात्रीफलविमिश्रैस्तु तुलसीदलमिश्रितैः
जलैः स्नाति नरस्तस्य गङ्गास्नानफलं स्मृतम् ॥ २२ ॥

देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि
सुवर्णपुष्पैर्विविधैरर्चनस्याप्नुयात्फलम् ॥ २३ ॥

तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके
नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलाश्रिते ॥ २४ ॥

द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥ २५ ॥

धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति ॥ २६ ॥

धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः
विष्णुक्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा ॥ २७ ॥

धात्रीतुलस्योर्माहात्म्यमपिदेवश्चतुर्मुखः
न समर्थो भवेद्वक्तुं यथा देवस्यशार्ङ्गिणः ॥ २८ ॥

धात्री तुलस्युद्भवकारणं च शृणोति यः श्रावयते च भक्त्या
विधूतपाप्मा सह पूर्वजैश्च स्वर्गं व्रजत्यग्र्यविमानसंस्थः ॥ २९ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धात्रीतुलस्योर्माहात्म्यन्नाम पञ्चाधिकशततमोऽध्यायः१०५