१०४

नारद उवाच-

विश्वास-प्रस्तुतिः

ततो जलन्धरो दृष्ट्वा रुद्रमद्भुतविक्रमम्
चकार मायया गौरीं त्र्यबकं मोहयंस्तदा ॥ १ ॥

मूलम्

रथोपरिगतां दृष्ट्वा रुदन्तीं च तदा शिवः
शुम्भनिशुम्भदैत्यैश्च वध्यमानां ददर्श सः ॥ २ ॥

गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ॥ ३ ॥

ततो जलन्धरो वेगात्त्रिभिर्विव्याध सायकैः
आपुङ्खमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ॥ ४ ॥

ततो जज्ञे स तां मायां विष्णुना सम्प्रबोधितः
रौद्ररूपधरो जातो ज्वालामालातिभीषणः ॥ ५ ॥

तस्यातीवमहारौद्रं रूपं दृष्ट्वा महासुराः
न शेकुः प्रमुखे स्थातुं भेजिरे च दिशो दश ॥ ६ ॥

ततः शापं ददौ देवस्तयोः शुम्भनिशुम्भयोः
मम युद्धादपक्रान्तौ गौर्यावध्यौ भविष्यथः ॥ ७ ॥

पुनर्जलन्धरो वेगाद्ववर्ष निशितैः शरैः
बाण्णान्धकारसञ्च्छन्नं यथा भूमितलं महत् ॥ ८ ॥

यावद्रुद्रः प्रचिच्छेद तस्यबाणांस्त्वरान्वितः
तावत्स परिघेणाशु जघान वृषभं बली ॥ ९ ॥

वृषस्तेन प्रहारेण परावृत्तो रणाङ्गणात्
रुद्रेणाकृष्यमाणोऽपि न तस्थौ रणभूमिषु ॥ १० ॥

ततः परमसङ्क्रुद्धो रुद्रो रौद्रवपुर्द्धरः
चक्रं सुदर्शनं वेगाच्चिक्षेपादित्यवर्चसम् ॥ ११ ॥

प्रदहद्रोदसी वेगात्तदासाद्य जलन्धरम्
जहार तच्छिरः कायान्महदायतलोचनम् ॥ १२ ॥

मूलम्

प्रदहद्रोदसी वेगात्तदासाद्य जलन्धरम्
जहार तच्छिरः कायान्महदायतलोचनम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

रथात्कायः पपातोर्व्यां नादयन्वसुधातलम्
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् ॥ १३ ॥

दृष्ट्वा देहोद्भवं तेजस्तद्गौरीशे लयं गतम्
अथ चेन्द्रादयो देवा हर्षादुत्फुल्ललोचनाः ॥ १४ ॥

प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम्
देवा ऊचुः
महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात् ॥ १५ ॥

किञ्चिदन्यत्समुद्भूतं तत्र किं करवामहै
वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः ॥ १६ ॥

ईश्वर उवाच
गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति ॥ १७ ॥

नारद उवाच
इत्युक्त्वान्तर्दधे देवः सहभूतगणैस्तथा
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥ १८ ॥

यदुद्भवाः सत्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारणम्
यदिच्छया विश्वमिदं भवाभवौ तनोति शुद्धां प्रकृतिं नताः स्म ताम् ॥ १९ ॥

ये हि त्रयोविंशतिभेदिसञ्ज्ञिता जगत्यशेषे समधिष्ठिता पुरा
यद्रूपकर्माणि जडास्त्रयोऽपि ते देवा विदुर्न प्रकृतिं नताः स्म ताम् ॥ २० ॥

यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यव्यामोहपराभवादिकम्
न प्राप्नुवन्त्येव हि भक्तवत्सलां सदैव विष्णोः प्रकृतिं नताः स्म ताम् ॥ २१ ॥

स्तोत्रमेतत्त्रिसन्ध्यं यः पठेदेकाग्रमानसः
दारिद्र मोहदुःखानि न कदाचित्स्पृशन्ति तम् ॥ २२ ॥

इति स्तुवन्तस्ते देवास्तेजोमण्डलमास्थिताम्
ददृशुर्गगने तत्र ज्वालाव्याप्तदिगन्तराम् ॥ २३ ॥

तन्मध्याद्भारतीं सर्वे ददृशुर्व्योमचारिणीम्
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥ २४ ॥

गौरीलक्ष्मीस्वरा चेति रजःसत्त्वतमोगुणैः
तत्र गच्छत तं कार्यं विधास्यन्ति च वः सुराः ॥ २५ ॥

शृण्वतामिति देवानामन्तर्द्धानमगान्महः
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप ॥ २६ ॥

ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः ॥ २७ ॥

ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप ॥ २८ ॥

देव्य ऊचुः
इमानि क्षेत्रबीजानि विष्णुर्यत्रावतिष्ठति
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालन्धरवधोनाम चतुरधिकशततमोऽध्यायः १०४