नारद उवाच-
विश्वास-प्रस्तुतिः
विष्णुर्जालन्धरं गत्वा तद्दैत्यपुटभेदनम्
पातिव्रत्यस्य भङ्गाय वृन्दायाश्चाकरोन्मतिम् ॥ १ ॥
मूलम्

अथ वृन्दारका देवी स्वप्नमध्ये ददर्श ह
भर्त्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरम् ॥ २ ॥

कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम्
दक्षिणाशां गतं मुण्डं तमसा व्यावृतं तदा ॥ ३ ॥

स्वपुरं सागरे मग्नं सहसैवात्मना सह
ततः प्रबुद्धा सा बाला स्वस्वप्नं प्रविचिन्वती ॥ ४ ॥

ददर्शोदितमादित्यं सच्छिद्रं निश्चलं मुहुः
तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला ॥ ५ ॥

कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु
ततः सखीद्वययुता नगरोद्यानमागमत् ॥ ६ ॥
मूलम्
कुत्रचिन्नालभच्छर्म गोपुराट्टालभूमिषु
ततः सखीद्वययुता नगरोद्यानमागमत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तत्रापि सागता बाला नालभत्कुत्रचित्सुखम्
वनाद्वनान्तरं याता नैव वेदात्मनस्तदा ॥ ७ ॥

ततो भ्रमन्ते सा बाला ददर्शातिविभीषणौ
राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ ॥ ८ ॥
मूलम्
ततो भ्रमन्ते सा बाला ददर्शातिविभीषणौ
राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ ॥ ८ ॥
विश्वास-प्रस्तुतिः
तौ दृष्ट्वा विह्वलातीव पलायनपरा तदा
ददर्श तापसंशान्तं सशिष्यं मौनमास्थितम् ॥ ९ ॥

ततस्तत्कण्ठ आसज्य निजां बाहुलतां भयात्
मुने मां रक्ष शरणमागतामित्यभाषत ॥ १० ॥
मूलम्
ततस्तत्कण्ठ आसज्य निजां बाहुलतां भयात्
मुने मां रक्ष शरणमागतामित्यभाषत ॥ १० ॥
विश्वास-प्रस्तुतिः
मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगतां तदा
हुङ्कारेणैव तौ घोरौ चकार विमुखौ रुषा ॥ ११ ॥

यद्धुङ्कारभयत्रस्तौ दृष्ट्वा तौ गगनं गतौ
प्रणम्य दण्डवद्भूमौ वृन्दा वचनमब्रवीत् ॥ १२ ॥

वृन्दोवाच
रक्षिताहं त्वया घोराद्भयात्तस्मात्कृपानिधे
किञ्चिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय ॥ १३ ॥

जलन्धरो हि मे भर्त्ता रुद्रं योद्धुं गतः प्रभो
स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत ॥ १४ ॥

मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत
तावत्कपीशावायातौ तं प्रणम्याग्रतः स्थितौ ॥ १५ ॥

ततस्तद्भ्रूलतासञ्ज्ञा नियुक्तौ गगनं गतौ
गत्वा क्षणार्द्धादागत्य वानरावग्रतः स्थितौ ॥ १६ ॥

शिरः कबन्धहस्तौ तौ दृष्ट्वाब्धितनयस्य सा
पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता ॥ १७ ॥

कमण्डलुजलैः सिक्ता मुनिनाश्वासिता तदा
स्वभर्तृभाले सा भालं कृत्वा खिन्ना रुरोद ह ॥ १८ ॥

वृन्दोवाच-
यः पुरा सुखसंवादैर्विनोदयसि मां विभो
स कथं न वदस्यद्य वल्लभां मामनागसम् ॥ १९ ॥

येन देवाः सगन्धर्वा निर्जिता हरिणा सह
स कथं तापसेन त्वं त्रैलोक्यविजयी हतः ॥ २० ॥

रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत्
वृन्दोवाच
कृपानिधे मुनिश्रेष्ठ जीवनं मेऽस्य सुप्रियम् ॥ २१ ॥

त्वमेवास्य पुनः शक्तो जीवनाय मतो मम
अथ तद्वाक्यमाकर्ण्य प्रहस्य मुनिरब्रवीत् ॥ २२ ॥

मुनिरुवाच
नायं जीवयितुं शक्यो रुद्रेण निहतो युधि
तथापि त्वत्कृपाविष्ट एवं सञ्जीवयाम्यहम् ॥ २३ ॥

नारद उवाच
इत्युक्त्वान्तर्दधे यावत्तावत्सागरनन्दनः
वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्बे प्रीतमानसः ॥ २४ ॥

अथ वृन्दापि भर्त्तारं दृष्ट्वा हर्षितमानसा
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् ॥ २५ ॥

कदाचित्सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव हि
निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत् ॥ २६ ॥

धिक्त वेदं हरे शीलं परदाराभिगामिनः
ज्ञातोऽसि त्वं मया सम्यङ्माया प्रत्यक्ष तापसः ॥ २७ ॥

यौ त्वया मायया द्वास्थौ स्वकीयौ दर्शितौ मम
तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यथ ॥ २८ ॥

त्वं चापि भार्यादुःखार्तो वने कपिसहायवान्
भ्रम सर्वेश्वरेणायं यस्ते शिष्यत्वमागतः ॥ २९ ॥

इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम्
विष्णुना वार्यमाणापि तस्मिन्नासक्तमानसा ॥ ३० ॥

ततो हरिस्तामनुसंस्मरन्मुहुर्वृन्दाचिताभस्मरजोवगुण्ठितः
तत्रैव तस्थौ मुनिसिद्धसङ्घैः प्रबोध्यमानोपि ययौ न शान्तिम्म् ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे वृन्दाचिताग्निप्रवेशोनाम त्र्यधिकशततमोऽध्यायः १०३