नारद उवाच-
विश्वास-प्रस्तुतिः
पतितं वीरभद्रं तु दृंष्ट्वा रुद्रगणा भयात्
आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥ १ ॥
मूलम्
पतितं वीरभद्रं तु दृंष्ट्वा रुद्रगणा भयात्
आगतास्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥ १ ॥
विश्वास-प्रस्तुतिः
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥ २ ॥
मूलम्
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥ २ ॥
विश्वास-प्रस्तुतिः
अभ्ययाद्वृषमारूढः सङ्ग्रामं प्रहसन्निव
रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः ॥ ३ ॥
मूलम्
अभ्ययाद्वृषमारूढः सङ्ग्रामं प्रहसन्निव
रुद्रमायां तमालोक्य सिंहनादैर्गणाः पुनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
निवृत्ताः सङ्गरे दैत्यान्निजघ्नुः शरवृष्टिभिः
दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ॥ ४ ॥
मूलम्
निवृत्ताः सङ्गरे दैत्यान्निजघ्नुः शरवृष्टिभिः
दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कार्त्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात्
अथ जालन्धरो दैत्यान्विद्रुतान्प्रेक्ष्य सङ्गरे ॥ ५ ॥
मूलम्
कार्त्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात्
अथ जालन्धरो दैत्यान्विद्रुतान्प्रेक्ष्य सङ्गरे ॥ ५ ॥
विश्वास-प्रस्तुतिः
रोषादधावच्चण्डीशं मुञ्चन्बाणान्सहस्रशः
शुम्भो निशुम्भोऽश्वमुखः कालनेमिर्बलाहकः ॥ ६ ॥
मूलम्
रोषादधावच्चण्डीशं मुञ्चन्बाणान्सहस्रशः
शुम्भो निशुम्भोऽश्वमुखः कालनेमिर्बलाहकः ॥ ६ ॥
विश्वास-प्रस्तुतिः
खड्गरोमा प्रचण्डश्च घस्मरश्च शिवं ययुः
बाणान्धकारसञ्च्छन्नं दृष्ट्वा गणबलं शिवः ॥ ७ ॥
मूलम्
खड्गरोमा प्रचण्डश्च घस्मरश्च शिवं ययुः
बाणान्धकारसञ्च्छन्नं दृष्ट्वा गणबलं शिवः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥ ८ ॥
मूलम्
तद्बाणजालं विच्छिद्य स्वबाणैरावृणोन्नभः
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्रचण्डजालबाणौघैरपातयत भूतले
खड्गरोम्णः शिरः कोपात्तथा परशुनाच्छिनत् ॥ ९ ॥
मूलम्
प्रचण्डजालबाणौघैरपातयत भूतले
खड्गरोम्णः शिरः कोपात्तथा परशुनाच्छिनत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
बलाहकस्य च शिरः खण्ट्वागेनाकरोद्द्विधा
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनाद्भुवि ॥ १० ॥
मूलम्
बलाहकस्य च शिरः खण्ट्वागेनाकरोद्द्विधा
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनाद्भुवि ॥ १० ॥
विश्वास-प्रस्तुतिः
वृषभेण हताः केचित्केचिद्बाणैर्निराकृताः
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता यथा ॥ ११ ॥
मूलम्
वृषभेण हताः केचित्केचिद्बाणैर्निराकृताः
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता यथा ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततः कोपपरीतात्मा वेगाद्रुद्रं जलन्धरः
आह्वयामास समरे तीव्राशनिसमस्वनः ॥ १२ ॥
मूलम्
ततः कोपपरीतात्मा वेगाद्रुद्रं जलन्धरः
आह्वयामास समरे तीव्राशनिसमस्वनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
जलन्धर उवाच-
युध्यस्वाद्य मया सार्द्धं किमेभिर्निहितैस्तव
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥ १३ ॥
मूलम्
जलन्धर उवाच-
युध्यस्वाद्य मया सार्द्धं किमेभिर्निहितैस्तव
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥ १३ ॥
विश्वास-प्रस्तुतिः
नारद उवाच
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम्
तानप्राप्तान्शितैर्बाणैश्चिच्छेद प्रहसन्निव ॥ १४ ॥
मूलम्
नारद उवाच
इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम्
तानप्राप्तान्शितैर्बाणैश्चिच्छेद प्रहसन्निव ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः
सच्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥ १५ ॥
मूलम्
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः
सच्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अभ्यधावच्छिवस्तावद्गदाबाणैर्द्विधाकरोत्
तथापि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया ॥ १६ ॥
मूलम्
अभ्यधावच्छिवस्तावद्गदाबाणैर्द्विधाकरोत्
तथापि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया ॥ १६ ॥
विश्वास-प्रस्तुतिः
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः
ततो जालन्धरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥ १७ ॥
मूलम्
तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः
ततो जालन्धरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम्
ततो जगुश्च ननृतुर्गन्धर्वाप्सरसाङ्गणाः ॥ १८ ॥
मूलम्
ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम्
ततो जगुश्च ननृतुर्गन्धर्वाप्सरसाङ्गणाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तालवेणुमृदङ्गांश्च वादयन्तः परस्परम्
तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥ १९ ॥
मूलम्
तालवेणुमृदङ्गांश्च वादयन्तः परस्परम्
तं दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥ १९ ॥
विश्वास-प्रस्तुतिः
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः
एकाग्रभूतमालोक्यरुद्रं दैत्यो जलन्धरः ॥ २० ॥
मूलम्
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः
एकाग्रभूतमालोक्यरुद्रं दैत्यो जलन्धरः ॥ २० ॥
विश्वास-प्रस्तुतिः
कामार्त्तः सञ्जगामाशु यत्र गौरी स्थिताभवत्
युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबलौ ॥ २१ ॥
मूलम्
कामार्त्तः सञ्जगामाशु यत्र गौरी स्थिताभवत्
युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महाबलौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जटाधरः
महावृषभमारूढः स बभूव जलन्धरः ॥ २२ ॥
मूलम्
दशदोर्दण्डपञ्चास्यस्त्रिनेत्रश्च जटाधरः
महावृषभमारूढः स बभूव जलन्धरः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अथ रुद्रं समायान्तमालोक्य भववल्लभा
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ २३ ॥
मूलम्
अथ रुद्रं समायान्तमालोक्य भववल्लभा
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥ २३ ॥
विश्वास-प्रस्तुतिः
यावद्ददर्श चार्वगीं पार्वतीं दनुजेश्वरः
तावत्स वीर्यं मुमुचे जडाङ्गश्चाभवत्तदा ॥ २४ ॥
मूलम्
यावद्ददर्श चार्वगीं पार्वतीं दनुजेश्वरः
तावत्स वीर्यं मुमुचे जडाङ्गश्चाभवत्तदा ॥ २४ ॥
विश्वास-प्रस्तुतिः
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला
जगामान्तर्हिता तावत्सा तदोत्तरमानसम् ॥ २५ ॥
मूलम्
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला
जगामान्तर्हिता तावत्सा तदोत्तरमानसम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तामदृष्ट्वा तदा दैत्यः क्षणाद्विद्युल्लतामिव
जवेनायात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥ २६ ॥
मूलम्
तामदृष्ट्वा तदा दैत्यः क्षणाद्विद्युल्लतामिव
जवेनायात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥ २६ ॥
विश्वास-प्रस्तुतिः
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा
तावद्ददर्श तं देवी सोपविष्टं समीपगम् ॥ २७ ॥
मूलम्
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा
तावद्ददर्श तं देवी सोपविष्टं समीपगम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
पार्वत्युवाच
विष्णो जलन्धरो दैत्यः कृतवान्परमाद्भुतम्
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ २८ ॥
मूलम्
पार्वत्युवाच
विष्णो जलन्धरो दैत्यः कृतवान्परमाद्भुतम्
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥ २८ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच-
तेनैव दर्शितः पन्था वयमप्यन्वयामहे
नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः ॥ २९ ॥
मूलम्
श्रीभगवानुवाच-
तेनैव दर्शितः पन्था वयमप्यन्वयामहे
नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः ॥ २९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
जगाम विष्णुरित्युक्त्वा पुनर्जालन्धरं पुरम्
अथ रुद्रश्च गन्धर्वानुगतः सङ्गरे स्थितः ॥ ३० ॥
मूलम्
नारद उवाच-
जगाम विष्णुरित्युक्त्वा पुनर्जालन्धरं पुरम्
अथ रुद्रश्च गन्धर्वानुगतः सङ्गरे स्थितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
अन्तर्द्धानगतां मायां दृष्ट्वा तु बुबुधे तदा
ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलन्धरं रुषा ॥ ३१ ॥
मूलम्
अन्तर्द्धानगतां मायां दृष्ट्वा तु बुबुधे तदा
ततः शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलन्धरं रुषा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥ ३२ ॥
मूलम्
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे ॥ ३२ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यकपटवर्णनोनाम द्व्यधिकशततमोऽध्यायः १०२