नारद उवाच-
विश्वास-प्रस्तुतिः
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १ ॥
मूलम्
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्
अमर्षादभ्यधावन्त द्वन्द्वयुद्धाय दानवाः ॥ १ ॥
विश्वास-प्रस्तुतिः
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ॥ २ ॥
मूलम्
नन्दिनं कालनेमिश्च शुम्भो लम्बोदरं तथा
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ॥ २ ॥
विश्वास-प्रस्तुतिः
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः
हृदि विव्याध वेगेन मूर्छितः स पपात च ॥ ३ ॥
मूलम्
निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः
हृदि विव्याध वेगेन मूर्छितः स पपात च ॥ ३ ॥
विश्वास-प्रस्तुतिः
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ४ ॥
मूलम्
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः
तावन्निशुम्भो वेगेन स्वशक्त्या तमपातयत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत
सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत् ॥ ५ ॥
मूलम्
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत
सप्तभिश्च हयान्केतूंस्त्रिभिः सारथिमच्छिनत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
कालनेमिस्तु सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः
तदपास्य सशूलेन तं वक्षस्य हनद्दृढम् ॥ ६ ॥
मूलम्
कालनेमिस्तु सङ्क्रुद्धो धनुश्चिच्छेद नन्दिनः
तदपास्य सशूलेन तं वक्षस्य हनद्दृढम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
सशूलभिन्नहृदयो हताश्वो हतसारथिः
अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत् ॥ ७ ॥
मूलम्
सशूलभिन्नहृदयो हताश्वो हतसारथिः
अद्रेः शिखरमामुच्य शैलाद्रिं सोऽप्यपातयत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
अथ शुम्भो गणेशश्च रथमूषकवाहनौ
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ ८ ॥
मूलम्
अथ शुम्भो गणेशश्च रथमूषकवाहनौ
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अथ शुम्भं गणाध्यक्षो हृदि विव्याध पत्रिणा
सारथिं पञ्चभिर्बाणैः पातयामास भूतले ॥ ९ ॥
मूलम्
अथ शुम्भं गणाध्यक्षो हृदि विव्याध पत्रिणा
सारथिं पञ्चभिर्बाणैः पातयामास भूतले ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततः शुम्भोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम्
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥ १० ॥
मूलम्
ततः शुम्भोऽतिक्रुद्धोऽपि बाणषष्ट्या गणाधिपम्
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥ १० ॥
विश्वास-प्रस्तुतिः
मूषकः शरभिन्नाङ्गश्चचाल कृतवेदनः
लम्बोदरः समुत्तीर्य पदातिरभवन्नृप ॥ ११ ॥
मूलम्
मूषकः शरभिन्नाङ्गश्चचाल कृतवेदनः
लम्बोदरः समुत्तीर्य पदातिरभवन्नृप ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ॥ १२ ॥
मूलम्
ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कालनेमिर्निशुम्भश्च उभौ लम्बोदरं शरैः
युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम् ॥ १३ ॥
मूलम्
कालनेमिर्निशुम्भश्च उभौ लम्बोदरं शरैः
युगपज्जघ्नतुः कोपात्तोत्रेणेव महाद्विपम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तं पीड्यमानमालोक्य वीरभद्रो महाबलः
अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥ १४ ॥
मूलम्
तं पीड्यमानमालोक्य वीरभद्रो महाबलः
अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
कूष्माण्डा भैरवाश्चापि वेताला योगिनीगणाः
पिशाचा योगिनीसङ्घा गणाश्चापि तमन्वयुः ॥ १५ ॥
मूलम्
कूष्माण्डा भैरवाश्चापि वेताला योगिनीगणाः
पिशाचा योगिनीसङ्घा गणाश्चापि तमन्वयुः ॥ १५ ॥
विश्वास-प्रस्तुतिः
ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः
विनादिता डमरुकैः पृथिवी समकम्पत ॥ १६ ॥
मूलम्
ततः किलकिलाशब्दैः सिंहनादैः सघुर्घुरैः
विनादिता डमरुकैः पृथिवी समकम्पत ॥ १६ ॥
विश्वास-प्रस्तुतिः
ततो भूतानि धावन्ति भक्षयन्ति स्म दानवान्
उत्पतन्ति पतन्ति स्म ननृतुश्चरणाङ्गणे ॥ १७ ॥
मूलम्
ततो भूतानि धावन्ति भक्षयन्ति स्म दानवान्
उत्पतन्ति पतन्ति स्म ननृतुश्चरणाङ्गणे ॥ १७ ॥
विश्वास-प्रस्तुतिः
नन्दी च कार्तिकेयश्च समायातौ त्वरान्वितौ
निजघ्नतू रणे दैत्यान्निरन्तर शरव्रजैः ॥ १८ ॥
मूलम्
नन्दी च कार्तिकेयश्च समायातौ त्वरान्वितौ
निजघ्नतू रणे दैत्यान्निरन्तर शरव्रजैः ॥ १८ ॥
विश्वास-प्रस्तुतिः
छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा
व्याकुला सा भवत्सेना विषण्णवदना तदा ॥ १९ ॥
मूलम्
छिन्नभिन्नाह तैर्दैत्यैः पातितैर्भर्त्सितैस्तथा
व्याकुला सा भवत्सेना विषण्णवदना तदा ॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनन्दनः
रथेनातिपताकेन गणानभिययौ बली ॥ २० ॥
मूलम्
प्रविध्वस्तां ततः सेनां दृष्ट्वा सागरनन्दनः
रथेनातिपताकेन गणानभिययौ बली ॥ २० ॥
विश्वास-प्रस्तुतिः
हस्त्यश्वरथसंह्रादः शङ्खभेरीरवस्तदा
अभवत्सिंहनादश्च सेनयोरुभयोस्तदा ॥ २१ ॥
मूलम्
हस्त्यश्वरथसंह्रादः शङ्खभेरीरवस्तदा
अभवत्सिंहनादश्च सेनयोरुभयोस्तदा ॥ २१ ॥
विश्वास-प्रस्तुतिः
जालन्धरशरव्रातैर्नीहारपटलैरिव
द्यावापृथिव्योराच्छन्नमन्तरं समपद्यत ॥ २२ ॥
मूलम्
जालन्धरशरव्रातैर्नीहारपटलैरिव
द्यावापृथिव्योराच्छन्नमन्तरं समपद्यत ॥ २२ ॥
विश्वास-प्रस्तुतिः
गणेशं पञ्चभिर्विध्वा शैलाद्रिमपि पञ्चभिः
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ २३ ॥
मूलम्
गणेशं पञ्चभिर्विध्वा शैलाद्रिमपि पञ्चभिः
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ २३ ॥
विश्वास-प्रस्तुतिः
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः
व्याघूर्णः शक्तिनिर्भिन्नः किञ्चिद्व्याकुलमानसः ॥ २४ ॥
मूलम्
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः
व्याघूर्णः शक्तिनिर्भिन्नः किञ्चिद्व्याकुलमानसः ॥ २४ ॥
विश्वास-प्रस्तुतिः
ततः क्रोधपरीताक्षः कार्तिकेयं जलन्धरः
गदया ताडयामास स च भूमितलेऽपतत् ॥ २५ ॥
मूलम्
ततः क्रोधपरीताक्षः कार्तिकेयं जलन्धरः
गदया ताडयामास स च भूमितलेऽपतत् ॥ २५ ॥
विश्वास-प्रस्तुतिः
तथैव नन्दिनं वेगादपातयत भूतले
ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत् ॥ २६ ॥
मूलम्
तथैव नन्दिनं वेगादपातयत भूतले
ततो गणेश्वरः क्रुद्धो गदां परशुनाच्छिनत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम्
सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे ॥ २७ ॥
मूलम्
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम्
सप्तभिश्च हयान्केतून्धनुश्छन्नं च चिच्छिदे ॥ २७ ॥
विश्वास-प्रस्तुतिः
ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम्
गणेशं पातयामास रथमन्यं समारुहत् ॥ २८ ॥
मूलम्
ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम्
गणेशं पातयामास रथमन्यं समारुहत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः
ततस्तौ सूर्यसङ्काशौ युयुधाते परस्परम् ॥ २९ ॥
मूलम्
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः
ततस्तौ सूर्यसङ्काशौ युयुधाते परस्परम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत्
धनुश्चिच्छेद दैत्येन्द्रो युयुधे परिघायुधः ॥ ३० ॥
मूलम्
वीरभद्रस्तस्य हयांस्तथा बाणैरपातयत्
धनुश्चिच्छेद दैत्येन्द्रो युयुधे परिघायुधः ॥ ३० ॥
विश्वास-प्रस्तुतिः
स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि
स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन् ॥ ३१ ॥
मूलम्
स वीरभद्रं त्वरयाभिगम्य जघान दैत्यः परिघेन मूर्ध्नि
स चापि दैत्यः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन् ॥ ३१ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनापराभवोनाम एकाधिकशततमोऽध्यायः १०१