१००

नारद उवाच-

विश्वास-प्रस्तुतिः

जालन्धरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः ॥ १ ॥

मूलम्

गतस्तस्याग्रतः शुक्रो राहुर्दृष्टिस्थितोऽभवत्
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा ॥ २ ॥

दैत्यसैन्यवृतैस्तत्र विमानानां शतैस्तदा
व्यराजत नभः पूर्णं प्रावृषीव बलाहकैः ॥ ३ ॥

तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः
अलक्षितत्वराजग्मुः शूलिनं ते व्यजिज्ञपन् ॥ ४ ॥

देवा ऊचुः
न जानासि कथं स्वामिन्देवा विज्ञापयन्ति भो
तदस्मद्रक्षणार्थाय जहि सागरनन्दनम् ॥ ५ ॥

इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः
महाविष्णुं समाहूय वचनं चेदमब्रवीत् ॥ ६ ॥

ईश्वर उवाच-
जालन्धरः कथं विष्णो न हतः सङ्गरे त्वया
तद्भयाच्चापयातोऽसि त्यक्त्वा वैकुण्ठमात्मनः ॥ ७ ॥

भगवानुवाच-
तवांशसम्भवत्वाच्च भ्रातृत्वाच्च तथा श्रियः
न मया निहतः सङ्ख्ये त्वमेनं जहि दानवम् ॥ ८ ॥

नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया
देवैः सर्वैः स्वतेजोंशः शस्त्रार्थे दीयतां मम ॥ ९ ॥

अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा
तान्येकत्वं गतानीशो दृष्ट्वा तेजो महांस्तदा ॥ १० ॥

तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम्
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ॥ ११ ॥

तेजःशेषेण च तदा वज्रं च कृतवान्हरः
तावज्जलन्धरो दृष्टः कैलासतलभूमिषु ॥ १२ ॥

हस्त्यश्वरथपत्तीनां कोटीभिः परिवारितः
तं दृष्ट्वा हर्षिताः सर्वे देवा जग्मुर्यथागतम् ॥ १३ ॥

गणाश्च समनह्यन्त युद्धायातित्वरान्विताः
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ॥ १४ ॥

अवतेरुर्गणाः सर्वे कैलासाद्युद्धदुर्मदाः
ततः समभवद्युद्धं कैलासोपत्यका भुवि ॥ १५ ॥

प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसङ्कुलम्
भेरीमृदङ्गशङ्खौघनिस्वनैर्वीरहर्षणैः ॥ १६ ॥

गजाश्वरथशब्दैश्च नादिता भूर्व्यकम्पत
शक्तितोमरबाणौघैर्मुशलप्रासपट्टिशैः ॥ १७ ॥

व्यराजत नभः पूर्णमुल्काभिरिव संवृतम्
निहतैरथ नागाश्वैः सर्वा भूमिर्व्यराजत ॥ १८ ॥

वज्राहताश्चलशिरः शकलैरिव संवृता
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥ १९ ॥

वसासृङ्मांस पङ्काद्यैर्भूरगम्याभवत्तदा
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् ॥ २० ॥

युद्धे पुनः पुनश्चैव मृतसञ्जीवनी बलात्
तं दृष्ट्वा व्याकुलीभूत्वा गणाः सर्वे भयार्दिताः ॥ २१ ॥

शशंसुर्देवदेवेशं तत्सर्वं शुक्रचेष्टितम्
अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा ॥ २२ ॥

तालजङ्घोदरी वक्रा स्तनापीडितभूरुहा
सा युद्धभूमिमासाद्य भक्षयन्ती महासुरान् ॥ २३ ॥

भार्गवं स्वकरे धृत्वा जगामान्तर्हिताभवत्
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तदा ॥ २४ ॥

प्रम्लानवदना दर्पान्निजघ्नुर्युद्धदुर्मदाः
अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥ २५ ॥

वायुवेगहता यद्वत्प्रकीर्णतृणसंहतिः
भग्नां गतभयात्सेनां दृष्ट्वा हर्षं गणा ययुः ॥ २६ ॥

निशुम्भशुम्भसेनान्यौ कालनेमिश्च वीर्यवान्
त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥ २७ ॥

मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥ २८ ॥

रुरुधुः खं दिशः सर्वा गणसेनामकम्पयन्
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥ २९ ॥

वसन्ते किंशुकाभासा न प्राज्ञायत किञ्चन
पतिताः पात्यमानाश्च छिन्नाभिन्नास्तदा गणाः ॥ ३० ॥

त्यक्त्वा सङ्ग्रामभूमिं ते सर्वेऽपि विमुखाभवन् ॥ ३१ ॥

ततः प्रभग्नं स्वबलं विलोक्य गजास्यनन्दीश्वरकार्तिकेयाः
चिरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनावधोनाम शततमोऽध्यायः १००