०९९

नारद उवाच-

विश्वास-प्रस्तुतिः

स मां सम्पूज्य विधिवद्दानवेन्द्रो ऽतिभक्तितः
सम्प्रहस्य तदा वाक्यं जगाद नृपसत्तम ॥ १ ॥

मूलम्

जलन्धर उवाच-
कुतस्त्वागम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित्
यदर्थमिह चायातस्तदा ज्ञापय मां मुने ॥ २ ॥

गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया
तत्रोमया सहासीनं दृष्टवानस्मि शङ्करम् ॥ ३ ॥

योजनायुतविस्तीर्णे कल्पद्रुम महावने
कामधेनुशताकीर्णे चिन्तामणि सुदीपिते ॥ ४ ॥

तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा
क्वापीदृशी भवेद्वृद्धिस्त्रिलोक्यां वा न वेति च ॥ ५ ॥

तावत्तवापि दैत्येन्द्र समृद्धिः सम्भृता मया
तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ॥ ६ ॥

त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां ध्रुवम्
तर्कयामि शिवादन्यत्त्रिलोक्यां न समृद्धिमान् ॥ ७ ॥

अप्सरो नागकन्याश्च यद्यपि त्वद्वशे स्थिताः
तथापि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ॥ ८ ॥

यस्या लावण्यजलधौ निमग्नश्चतुराननः
स्वधैर्यममुचत्पूर्वं तया कान्योपमीयते ॥ ९ ॥

वीतरागोऽपि हि यथा मदनारिः स्वलीलया
विश्वतन्त्रोऽपि तपसा स चात्मवशगः कृतः ॥ १० ॥

सौन्दर्यगहने भ्रामन्शबरीरूपया पुरा
यस्याः पुनः पुनः पश्यन्रूपं धाता विसर्जने ॥ ११ ॥

ससर्जाप्सरसस्तास्तास्तत्समैकापि नाभवत्
अतः स्त्रीरत्नसम्भोक्तुः समृद्धिस्तस्य सा वरा ॥ १२ ॥

तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च
एवमुक्त्वा तमामन्त्र्य गते मयि स दैत्यराट् ॥ १३ ॥

तद्रूपश्रवणादासीदनङ्गज्वरपीडितः
अथ सम्प्रेषयामास दूतं च सिंहिकासुतम् ॥ १४ ॥

त्र्यम्बकाय तदा किञ्चिद्विष्णुमायाविमोहितः
कैलासमगमद्राहुः सर्वशुक्लेन्दुवर्चसम् ॥ १५ ॥

कार्त्स्न्येन कृष्णपक्षेन्दुवर्चसं स्वाङ्गजेन तु
निवेदितस्तदादेशान्नन्दिना च प्रवेशितः
त्र्यम्बकाभ्रूलतासञ्ज्ञा प्रेरितो वाक्यमब्रवीत् ॥ १६ ॥

राहुरुवाच-
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥ १७ ॥

श्मशानवासिनो नित्यं मुण्डमालाधरस्य च
दिगम्बरस्य ते भार्या कथं हैमवती शुभा ॥ १८ ॥

अहं रत्नाधिनाथोऽस्मि सा च स्त्री रत्नसञ्ज्ञका
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥ १९ ॥

वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥ २० ॥

सिंहास्यः प्रचलज्जिह्वः सज्वलन्नयनो महान्
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः ॥ २१ ॥

स तं खादितुमारेभे दृष्ट्वा राहुर्भयातुरः
अधावदतिवेगेन बहिः स च दधार तम् ॥ २२ ॥

स च राहुर्महाबाहुर्मेघगम्भीरया गिरा
उवाच देवदेवेशं पाहि मां शरणागतम् ॥ २३ ॥

मूलम्

स च राहुर्महाबाहुर्मेघगम्भीरया गिरा
उवाच देवदेवेशं पाहि मां शरणागतम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणं मां महादेव खादितुं समुपागतः
एतस्माद्रक्ष देवेश शरणागतवत्सल ॥ २४ ॥

मूलम्

ब्राह्मणं मां महादेव खादितुं समुपागतः
एतस्माद्रक्ष देवेश शरणागतवत्सल ॥ २४ ॥

विश्वास-प्रस्तुतिः

महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाब्रवीत्
नैवासौ वध्यतामेति दूतोऽयं परवान्यतः ॥ २५ ॥

मुञ्चेति पुरुषः श्रुत्वा राहुं तत्याज सोम्बरे
राहुं त्यक्त्वा स षुरुषो महादेवं व्यजिज्ञपत् ॥ २६ ॥

पुरुष उवाच-
क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा
किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ॥ २७ ॥

ईश्वर उवाच-
सम्भक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ॥ २८ ॥

मूलम्

ईश्वर उवाच-
सम्भक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ॥ २८ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
सशिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वयम्
हस्तपादोद्भवं मांसं शिरःशेषो यदाभवत् ॥ २९ ॥

दृष्ट्वा शिरोऽवशेषं तु सुप्रसन्नः सदाशिवः
पुरुषं भीमकर्माणं तमुवाच सविस्मयः ॥ ३० ॥

त्वं कीर्तिमुखसञ्ज्ञो हि भव मद्द्वारगः सदा
त्वदर्चां नैव कुर्वन्ति नैव ते मत्प्रियङ्कराः ३१*
नारद उवाच-
तदाप्रभृति देवस्य द्वारे कीर्तिमुखः स्थितः
नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥ ३२ ॥

राहुर्विमुक्तो यस्तेन सोऽपतद्बर्बरस्थले
अतः स बर्बरोद्भूत इति भूमौ पृथां गतः ॥ ३३ ॥

ततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः
समेत्य सर्वं कथयां बभूव जलन्धरायेशविचेष्टितं तत् ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकामाहात्म्ये श्रीकृष्णसत्यभामासंवादे दूतसंवादो जालन्धरोपाख्यानन्नाम नवनवतितमोऽध्यायः ९९