नारद उवाच-
विश्वास-प्रस्तुतिः
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥
मूलम्

देवा ऊचुः
नमो मत्स्यकूर्मादि नानास्वरूपैः सदाभक्तकार्योद्यतायार्तिहन्त्रे
विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशङ्खपद्मारिहस्तायतेऽस्तु ॥ २ ॥

रमावल्लभायासुराणां निहन्त्रे भुजङ्गादिनाथाय पीताम्बराय
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥

नमो दैत्यसन्तापिता मर्त्यदुःखाचलध्वंस दम्भोलये विष्णवेते
भुजङ्गेशतल्पेशयायार्कचन्द्र द्विनेत्राय तस्मै नतास्मो नताः स्मः ॥ ४ ॥

सङ्कष्टनाशनं स्तोत्रं नित्यं यस्तु पठेन्नरः
स कदाचिन्नसङ्कष्टै पीड्यते कृपया हरेः ॥ ५ ॥

इति देवाः स्तुतिं यावत्कुर्वन्ति दनुजद्विषः
तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा ॥ ६ ॥

सहसोत्थाय दैत्यारिः कृपया खिन्नमानसः
आरुह्य गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत् ॥ ७ ॥

विष्णुरुवाच-
जलन्धरेण ते भ्रात्रा देवानां कदनं कृतम्
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः ॥ ८ ॥

लक्ष्मीरुवाच-
अहं ते वल्लभा नाथ भक्ता च यदि सर्वदा
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे ॥ ९ ॥

श्रीभगवानुवाच-
रुद्रांशसम्भवत्वाच्च ब्रह्मणो वचनादपि
प्रीत्या च तव नैवायं मम वध्यो जलन्धरः ॥ १० ॥

इत्युक्त्वा गरुडारूढः शङ्खचक्रगदासिभृत्
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवन्ति ते ॥ ११ ॥

अथारुणानुजात्युग्रपक्षवातप्रपीडिताः
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ १२ ॥

ततो जलन्धरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान्
नोवाच वचनं क्रोधात्ततो विष्णुं समभ्ययात् ॥ १३ ॥

ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत्
आकाशं कुर्वतोर्बाणैरन्ते निरवकाशवत् ॥ १४ ॥

विष्णुर्दैत्यस्य बाणौघैर्ध्वजं च्छत्रं धनुर्हयान्
चिच्छेद तं च हृदये बाणेनैकेनताडयन् ॥ १५ ॥

ततो दैत्यं समुत्पत्य गदापाणिस्त्वरान्वितः
आगत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६ ॥

विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव
तावत्स सुहृदे विष्णुं जघान दृढमुष्टिना ॥ १७ ॥

ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥ १८ ॥

एवं सुरुचिरं युद्धं कृत्वा विष्णुः प्रतापवान्
उवाच दैत्यराजानं मेघगम्भीरया गिरा ॥ १९ ॥

वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात्
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥ २० ॥

जलन्धर उवाच-
यदि भावुकतुष्टोऽसि वरमेतं ददस्व मे
मद्भगिन्या सह तया मद्गृहे सगणो वस ॥ २१ ॥

तथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह
जलन्धरं नाम पुरमगमद्रमया सह ॥ २२ ॥
मूलम्
नारद उवाच-
तथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह
जलन्धरं नाम पुरमगमद्रमया सह ॥ २२ ॥
विश्वास-प्रस्तुतिः
जलन्धरश्च देवानामधिकारेषु दानवान्
स्थापयित्वा सहर्षः सन्पुनरागान्महीतले ॥ २३ ॥

देवगन्धर्वसिद्धेषु यत्किञ्चिद्रत्नसञ्ज्ञितम्
तदात्मवशगं कृत्वा तिष्ठत्सागरनन्दनः ॥ २४ ॥

पातालभवने दैत्यं निशुम्भं च महाबलम्
स्थापयित्वा स शेषादीननयद्भूतलं बली ॥ २५ ॥

देवगन्धर्वसिद्धौघान्यक्षरासमानुषान्
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥ २६ ॥

एवं जलन्धरः कृत्वा देवांश्च वशवर्त्तिनः
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥ २७ ॥

न कश्चित्व्याधितो नैव दुःखितो न कृशस्तथा
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥ २८ ॥

एवं महीं शासति दानवेन्द्रे धर्मेण सम्यक्च यदृच्छयाहम्
कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलन्धरप्रवेशोनाम अष्टनवतितमोऽध्यायः ९८