नारद उवाच-
विश्वास-प्रस्तुतिः
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ॥ १ ॥
मूलम्

ते हि भूमण्डलं जाता निर्भयास्तमुपासितुम्
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट्
पप्रच्छ भार्गवं विप्रं केनेदं विहितं प्रभो ॥ २ ॥

भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह
अमृतार्थं समुद्रस्य मथनं देवकारितम् ॥ ३ ॥

रत्नापहरणं चैव दैत्यानां च पराभवम्
तच्छ्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ॥ ४ ॥

स दूतं प्रेषयामास घस्मरं शक्रसन्निधौ
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरम् ॥ ५ ॥

गर्वादखर्वमौलिस्तु देवेन्द्रं वाक्यमब्रवीत्
दूत उवाच-
जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः ॥ ६ ॥

दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत्
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ॥ ७ ॥

नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः
उवाच घस्मरं घोरं भयरोषसमन्वितः ॥ ८ ॥

ईश्वर उवाच-
शृणु दूत मया पूर्वं मथितः सागरो यथा
अद्रयो मद्भयाद्भीताः स्वकुक्षिस्थास्तथा कृताः ॥ ९ ॥

अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजास्तथा
तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल ॥ १० ॥

शङ्खोऽप्येवं पुरा देवानद्विषत्सागरात्मजः
ममानुजेन निहतः प्रविष्टः सागरोदरम् ॥ ११ ॥

तद्गच्छ कथयस्वास्यसर्वं मथनकारणम् ॥ १२ ॥
मूलम्
तद्गच्छ कथयस्वास्यसर्वं मथनकारणम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
इत्थं विसर्जितो दूतस्तदेन्द्रेणागमद्गृहम्
तदिन्द्रवचनं दैत्यराजायाकथयत्तदा ॥ १३ ॥

तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ १४ ॥

तदोद्योगे सुरेन्द्रस्य दिग्भ्यः पातालतस्तथा
दितिजाः प्रत्यपद्यन्त शतशः कोटिशस्तथा ॥ १५ ॥

अथ शुम्भनिशुम्भाद्यैर्बलाधिपतिकोटिभिः
गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवत् ॥ १६ ॥

निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः
पुरमावृत्य तिष्ठन्ति दृष्ट्वा दैत्यबलं महत् ॥ १७ ॥

ततः समभवद्युद्धं देवदानवसेनयोः
मुशलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ १८ ॥

तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम्
क्षणेनाभवतां सेने रुधिरौघ परिप्लुते ॥ १९ ॥

पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः
व्यराजत रणे भूमिः सन्ध्याभ्रपटलैरिव ॥ २० ॥

तत्र युद्धे हतान्दैत्यान्भार्गवस्तूदतिष्ठयत्
विद्ययाऽमृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः ॥ २१ ॥

देवास्तत्र तथा युद्धे जीवयेदङ्गिरस्सुतः
दिव्यौषधीः समानीय द्रोणदेश्याः पुनः पुनः ॥ २२ ॥

दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान्
जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ २३ ॥

जलन्धर उवाच-
मया देवा हता युद्धे उत्तिष्ठन्ति कथं पुनः
तव सञ्जीवनीविद्या नैवान्यत्रेति विश्रुतम् ॥ २४ ॥

भृगुरुवाच-
दिव्यौषधीः समानीय द्रोणाद्रेरङ्गिराः सुरान्
जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर ॥ २५ ॥

इत्युक्तः स तु दैत्येन्द्रो नीत्वा द्रोणाचलं तदा
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ॥ २६ ॥

अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः
तावत्तत्र गिरीन्द्रं तं न ददर्श सुरार्चितः ॥ २७ ॥

ज्ञात्वा दैत्यहृतं द्रोणं विषण्णो भयविह्वलः
आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः ॥ २८ ॥

पलायध्वं पलायध्वं नायं जेतुं हि शक्यते
रुद्रांशसम्भवो ह्येष स्मरध्वं शक्रचेष्टितम् ॥ २९ ॥

श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा
दैत्यैस्तैर्वध्यमानास्ते पलायन्त दिशो दश ॥ ३० ॥

देवान्विदारितान्दृष्ट्वा दैत्यः सागरनन्दनः
शङ्खभेरीजयरवैः प्रविवेशामरावतीम् ॥ ३१ ॥

प्रविष्टे नगरं दैत्ये देवाःशक्रपुरोगमाः
सुवर्णाद्रिगुहां प्राप्य न्यवसन्दैत्यतापिताः ॥ ३२ ॥

ततश्च सर्वेष्वसुराधिकारेष्विन्द्रादिकानां विनिवेशयत्तदा
शुम्भादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ॥ ३३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये अमरावतीविजयोनाम सप्तनवतितमोऽध्यायः ९७