०९६

पृथुरुवाच-

विश्वास-प्रस्तुतिः

यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात्
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता ॥ १ ॥

मूलम्

तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम्
कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः ॥ २ ॥

कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद
एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे ॥ ३ ॥

नारदउवाच-
पुरा रुद्रेण दैत्येन्द्रे सिन्धुसूनौ निपातिते
प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन्
शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम् ॥ ४ ॥

सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम्
सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः ॥ ५ ॥

यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान्
पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ॥ ६ ॥

स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः
एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप ॥ ७ ॥

ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत्
रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि ॥ ८ ॥

अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते
इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम् ॥ ९ ॥

तेनास्य कण्ठे नीलत्वमगाद्वज्रं च भस्मतां
ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव ॥ १० ॥

दृष्ट्वा बृहस्पतिस्तूर्णं कृताञ्जलिपुटोऽभवत्
इन्द्रश्चदण्डवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ॥ ११ ॥

बृहस्पतिरुवाच-
नमो देवाधिदेवाय त्र्यम्बकाय कपर्दिने
त्रिपुरघ्नाय शर्वाय नमोन्धकनिषूदिने ॥ १२ ॥

विरूपायातिरूपाय बहुरूपाय शम्भवे
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ॥ १३ ॥

कालान्तकाय कालाय कालभोगधराय च
नमो ब्रह्मशिरोहन्त्रे ब्राह्मणाय नमो नमः ॥ १४ ॥

नारद उवाच-
एवं स्तुतस्तदा शम्भुः द्विजर्षभं जगाद ह
संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम् ॥ १५ ॥

वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव
इन्द्रस्यजीवदानेन जीवति त्वं प्रथां व्रज ॥ १६ ॥

मूलम्

वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव
इन्द्रस्यजीवदानेन जीवति त्वं प्रथां व्रज ॥ १६ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिरुवाच-
यदि तुष्टोऽसि देव त्वं याहीन्द्रं शरणागतम्
अग्निरेष शमं यातु भालनेत्रसमुद्भवः ॥ १७ ॥

ईश्वर उवाच-
पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम्
एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ १८ ॥

इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणाम्भसि
सोऽपतत्सिन्धुगङ्गायाः सागरस्य च सङ्गमे ॥ १९ ॥

तदा स बालरूपत्वमगात्तत्र रुरोद च
रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः ॥ २० ॥

स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः ॥ २१ ॥

तावत्समुद्रस्योत्सङ्गे तं बालं स ददर्श ह
दृष्ट्वा ब्राह्मणमायान्तं समुद्रोऽपि कृताञ्जलि ॥ २२ ॥

प्रणम्य शिरसा बालं तस्योत्सङ्गे न्यवेशयेत्
ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः ॥ २३ ॥

निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत्
ब्रह्मा उवाच-
सरित्पते कुतो लब्धो बालो ह्येष महाबलः ॥ २४ ॥

यस्य नादेन सन्त्रस्ता देवासुरमहोरगाः
समुद्र उवाच-
भो ब्रह्मन्सिधुगङ्गायां जातोऽयं मम पुत्रकः ॥ २५ ॥

जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो
नारद उवाच-
इत्थं वदति पाथोधौ स बालः सागरात्मजः ॥ २६ ॥

ब्रह्माणमग्रहीत्कूर्चे विधुन्वन्तं मुहुर्मुहुः
धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम्
कथञ्चिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् ॥ २७ ॥

ब्रह्मोवाच-
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम
तस्माज्जलन्धर इति ख्यातो नाम्ना भवत्यसौ ॥ २८ ॥

अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ॥ २९ ॥

याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ॥ ३० ॥

मूलम्

याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ॥ ३० ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत्
आमन्त्र्य सरितां नाथं ब्रह्मान्तर्द्धानमन्वगात् ॥ ३१ ॥

अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा
कालनेमिसुतां वृन्दां तद्भार्यार्थमयाचत ॥ ३२ ॥

ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः
स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ॥ ३३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालन्धरोत्पत्तिवर्णनन्नाम षण्णवतितमोऽध्यायः ९६