०९५

नारद उवाच

विश्वास-प्रस्तुतिः

अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप
तच्छृणुष्व मयाख्यातं किं विधानं समासतः ॥ १ ॥

मूलम्

ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती
व्रतसम्पूर्णतार्थाय विष्णुप्रीत्यर्थमेव च ॥ २ ॥

तुलस्या उपरिष्टात्तु कुर्यान्मण्डपिकां शुभाम्
सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम् ॥ ३ ॥

द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक्
पुण्यशीलं सुशीलं च जयं विजयमेव च ॥ ४ ॥

तुलसीमूलदेशे च सर्वतोभद्रमालिखेत्
चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलङ्कृतम् ॥ ५ ॥

तस्योपरिष्टात्सपिधानं पञ्चरत्नसमन्वितम्
महाफलेन संयुक्तं कुम्भं तत्र निधाय च ॥ ६ ॥

पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरम्
कौशेयपीतवसनं युक्तं जलधिकन्यया ॥ ७ ॥

मूलम्

पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरम्
कौशेयपीतवसनं युक्तं जलधिकन्यया ॥ ७ ॥

विश्वास-प्रस्तुतिः

इन्द्रादिलोकपालांश्च पूजयेन्मण्डले व्रती
द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः ॥ ८ ॥

दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम्
तस्यामुपवसेद्भक्त्या शान्तः प्रयतमानसः ॥ ९ ॥

पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया
उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः ॥ १० ॥

रात्रौ जागरणं कुर्याद्गीतवाद्यादि मङ्गलैः
गीतं कुर्वन्ति ये भक्त्या जागरे चक्रपाणिनः ॥ ११ ॥

जन्मान्तरशतोद्भूतैस्ते मुक्ताः पापसञ्चयैः
जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम् ॥ १२ ॥

गोसहस्रं च ददतां तत्फलं समुदाहृतम्
गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च ॥ १३ ॥

पुरतो वासुदेवस्य रात्रौ यो हरिजागरे
पठन्विष्णुचरित्राणि यो रञ्जयति वैष्णवान् ॥ १४ ॥

मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन्
भावैरेतैर्नरो यस्तु कुरुते हरिजागरम् ॥ १५ ॥

दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम्
ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान् ॥ १६ ॥

त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमन्त्रयेत्
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा ॥ १७ ॥

तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम्
अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती ॥ १८ ॥

अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम्
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् ॥ १९ ॥

दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान्
पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा ॥ २० ॥

ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती
गुरुं व्रतोपदेष्टारं वस्त्रालङ्करणादिभिः ॥ २१ ॥

सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत्
युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा ॥ २२ ॥

व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया
तत्सर्वं नाशमायातु स्थिरा मे चास्तु सन्ततिः ॥ २३ ॥

मनोरथाश्च सफलाः सन्तु नित्यं ममार्चनात्
देहान्ते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम् ॥ २४ ॥

इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत्
तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती ॥ २५ ॥

तदा सुहृद्गुरुयुतः स्वयं भुञ्जति भक्तिमान्
कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः ॥ २६ ॥

एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः
विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत् ॥ २७ ॥

सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम्
तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः ॥ २८ ॥

ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः
विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः ॥ २९ ॥

देहस्थितानि पापानि वितर्कं यान्ति तद्भयात्
क्व यास्यामो वदन्त्येवं यद्ययं व्रतकृन्नरः ॥ ३० ॥

इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयन्ति चैव वैष्णवाग्रे
ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभन्ते ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये
श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पञ्चनवतितमोऽध्यायः ९५