नारद उवाच-
विश्वास-प्रस्तुतिः
कार्तिकव्रतिनां पुंसां नियमा ये प्रकीर्तिताः
ताञ्छृणुष्व मया राजन्कथ्यमानान्समन्ततः ॥ १ ॥
मूलम्

सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा
राजमाषादिकं चापि नैवाद्यात्कार्तिकव्रती ॥ २ ॥

द्विदलं तिलतैलं च तथान्नमश्रुदूषितम्
भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकव्रती ॥ ३ ॥

परान्नं च परद्रोहं परदारागमं तथा
तीर्थे प्रतिगृहं नापि गृह्णीयात्कार्तिकव्रती ॥ ४ ॥

देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा
स्त्रीराजमहतां निन्दां वर्जयेत्कार्तिके व्रती ॥ ५ ॥

प्राण्यङ्गमामिषं चूर्णं फले जम्बीरमामिषम्
धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा ॥ ६ ॥

अजागोमहिषीक्षीरादन्यदुग्धादि चामिषम्
द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥ ७ ॥

ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम्
आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥ ८ ॥

ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम्
चतुर्थकाले भुञ्जीत कुर्यादेवं सदा व्रती ॥ ९ ॥

नरकस्य चतुर्दश्यां तैलाभ्यङ्गं च कारयेत्
अन्यत्र कार्तिकस्नायि तैलाभ्यङ्गं न कारयेत् ॥ १० ॥

पलाण्डुं लशुनं शिग्रु छत्राकं गृञ्जनं तथा
नालिकां मूलकं हिङ्गुं वर्जयेत्कार्तिकव्रती ॥ ११ ॥

अलाबुं चापि वृन्ताकं कूष्माण्डं बृहतीफलम्
श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती ॥ १२ ॥

रजस्वलान्त्यज म्लेच्छ पतितव्रात्यकैः सह
द्विजातिवेदबाह्यैश्च न वदेत्कार्तिकव्रती ॥ १३ ॥

श्वभिर्दृष्टं च काकैश्च सूतकान्नं च वर्जयेत्
द्विःपाचितं च दग्धान्नं वर्जयेत्कार्तिकव्रती ॥ १४ ॥

तिलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम्
कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत्
एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि
कृच्छ्राद्यं चापि कुर्वीत स्वशक्त्या विष्णुतुष्टये ॥ १५ ॥

क्रमात्कूष्माण्ड वृन्ताकं बृहती मूलकं तथा
श्रीफलं च कलिङ्गं च फलं धात्रीभवं तथा ॥ १६ ॥

नारिकेरं महालाबुं पटोलं बदरीफलम्
चर्म वैकतकं चापि बिसं वै कट्फलं तथा ॥ १७ ॥

शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु
धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा गृही ॥ १८ ॥

एभ्योऽपि वर्जयेत्किञ्चिद्यद्विष्णुप्रीतये नरः
तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि ॥ १९ ॥

एवमेव हि माघेऽपि कुर्याद्वै नियमान्व्रती
हरिजागरणं तत्र विधिप्रोक्तं च कारयेत् ॥ २० ॥

यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम्
यमदूताः पलायन्ते गजाः सिंहार्दिता यथा ॥ २१ ॥

वरं विष्णुव्रतं ह्येतदथ यज्ञशताधिकम्
यज्ञकृत्प्राप्नुयात्स्वर्गं वैकुण्ठं कार्तिकव्रती ॥ २२ ॥

भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले
वसन्ति तानि तद्गेहे कार्तिक्रव्रतकारिणः ॥ २३ ॥

दुःस्वप्न्नं दुष्कृतं किञ्चिन्मनोवाक्कायकर्मजम्
कार्त्तिकव्रतिनं दृष्ट्वा विलयं यान्ति तत्क्षणात् ॥ २४ ॥

कार्त्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः
रक्षां कुर्वन्ति शक्राद्या राज्ञो वै किङ्करा यथा ॥ २५ ॥

विष्णुव्रतकरा नित्यं यत्र तिष्ठन्ति पूजिताः
ग्रहभूतपिशाचाद्या नैव तिष्ठन्ति तत्र वै ॥ २६ ॥

कार्त्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः
न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः ॥ २७ ॥

विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्रधनधान्यसमृद्धिकारि
ऊर्जे व्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलन सेवया च ॥ २८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनोनाम चतुर्नवतितमोऽध्यायः ९४