नारद उवाच-
विश्वास-प्रस्तुतिः
नाडीद्वयावशिष्टायां रात्रौ गच्छेज्जलाशयम्
तिलगन्धाक्षतैः पुष्पैर्दीपाद्यैः सहितः शुचिः ॥ १ ॥
मूलम्

मानुषे देवखाते च नद्यां नद्योश्च सङ्गमे
क्रमाद्दशगुणं स्नानं तीर्थेऽनन्तफलं स्मृतम् ॥ २ ॥

विष्णुं स्मृत्वा ततः कुर्यात्सङ्कल्पं सवनस्य तु
तीर्थादिदेवतादिभ्यः क्रमादर्घादि दापयेत् ॥ ३ ॥

ॐनमः कमलनाभाय नमस्ते जलशायिने
नमस्तेऽस्तु हृषीकेश गृहाणार्घं नमोऽस्तु ते ॥ ४ ॥

वैकुण्ठे च प्रयागे च तथा बदरिकाश्रमे
यतो विष्णुर्विचक्रमे त्रेधा स निदधे पदम् ॥ ५ ॥

अतो देवा मामवन्तु यतो विष्णुर्विचक्रमे
तैरेव सहितैः सर्वैर्मुनिदेवसमन्वितैः ॥ ६ ॥

कार्तिकेऽहं करिष्यामि प्रातःस्नानं सुरोत्तम
प्रीत्यर्थं देवदेवेश दामोदर मया सह ॥ ७ ॥

ध्यात्वाहं त्वां च देवेश जलेऽस्मिन्स्नातुमुद्यतः
तव प्रसादात्पापं मे दामोदर विनश्यतु ॥ ८ ॥

नित्यनैमित्तिके कृष्णे कार्तिके पापनाशने
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ॥ ९ ॥

व्रतिना कार्तिके मासि स्नातस्य विधिवन्मम
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ॥ १० ॥

स्मृत्वा भागीरथीं विष्णुं शिवं सूर्यं जले विशेत्
नाभिमात्रे जले तिष्ठन्व्रती स्नायाद्यथाविधि ॥ ११ ॥

तिलामलकचूर्णेन गृही स्नानं समाचरेत्
वनस्थानां यतीनां च तुलसीमूलमृत्तिका ॥ १२ ॥

सप्तमी दर्श नवमी द्वितीया दशमीषु च
त्रयोदश्यां च न स्नायाद्धात्रीफल तिलैः सह ॥ १३ ॥

आदौ कुर्यान्मलस्नानं मन्त्रस्नानं ततः परम्
स्त्री शूद्राणां न वेदोक्तैर्मन्त्रैस्तेषां पुराणजैः ॥ १४ ॥

स्नान मन्त्राः
त्रिधाभूद्देवकार्याय यः पुरा भक्तिभावतः
स विष्णुः सर्वपापघ्नः पुनातु कृपयात्र माम् ॥ १५ ॥

विष्णोराज्ञामनुप्राप्य कार्तिकव्रतकारणात्
रक्षन्तु देवास्ते सर्वे मां पुनन्तु सदैव ते ॥ १६ ॥

वेदमन्त्राः सबीजास्तु सरहस्याः सवीर्यकाः
कश्यपाद्याश्च मुनयो मां पुनन्तु सदैव ते ॥ १७ ॥

गङ्गाद्याः सरितः सर्वास्तीर्थानि जलदा नदाः
ससप्तसागराः सर्वे मां पुनन्तु जलाशयाः ॥ १८ ॥

पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः
ओषध्यः पर्वताश्चाशु मां पुनन्तु त्रिलोकजाः ॥ १९ ॥

एभिः स्नात्वा व्रती मन्त्रैर्हस्तन्यस्तपवित्रकः
देवर्षीन्मानवपितॄंस्तर्पयेच्च यथाविधि ॥ २० ॥

यावन्तः कार्तिके मासि वर्तन्ते पितृतर्पणे
तिलास्तत्सङ्ख्यकाब्दानि पितरः स्वर्गवासिनः ॥ २१ ॥

ततो जलाद्विनिष्क्रम्य शुचिवस्त्रावृतो व्रती
प्रातःकालोदितं कर्म समाप्यार्चेद्धरिं पुनः ॥ २२ ॥

तीर्थादिदेवान्संस्मृत्य पुनरर्चां प्रदापयेत्
गन्धपुष्पफलैर्युक्तो भक्तितत्परमानसः ॥ २३ ॥

अर्घमन्त्रः
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम
गृहाणार्घ्यं मया दत्तं दनुजेन्द्र निषूदन ॥ २४ ॥

ततश्च ब्राह्मणान्भक्त्या भोजयेद्वेदपारगान्
गन्धपुष्पैः सताम्बूलैः प्रणमेच्च पुनः पुनः ॥ २५ ॥

तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः
सर्वाङ्गे संस्थिता देवाः पूजिताः स्युर्द्विजार्चनात् ॥ २६ ॥

अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि
नावमान्या नो विरोध्याः कदाचिच्छुभमिच्छता ॥ २७ ॥

तां वै हरिप्रियां देवि तुलसीमर्चयेद्व्रती
प्रदक्षिणनमस्कारान्कुर्यादेकाग्रमानसः ॥ २८ ॥

देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः
नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥ २९ ॥

ततो विष्णुकथां श्रुत्वा पौराणीं स्निग्धमानसः
तं ब्राह्मणं मुनिं विप्रं पूजयेद्भक्तिमान्व्रती ॥ ३० ॥

एवं पूर्णविधिं सम्यक्पूर्वोक्तं भक्तिमान्नरः
करोति यः स लभते नारायणसलोकताम् ॥ ३१ ॥

रोगापहं पापविनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनम्
मुक्तेर्निदानं न हि कार्तिकव्रताद्विष्णुप्रियादन्यतमं हि भूतले ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे स्नानविधिवर्णनोनाम त्रिनवतितमोऽध्यायः ९३