पृथुरुवाच-
विश्वास-प्रस्तुतिः
महाफलं त्वया प्रोक्तं मुने कार्त्तिकमाघयोः
तयोः स्नानविधिं सम्यङ्नियमानपि नारद
उद्यापनविधिं चैवं यथावद्वक्तुमर्हसि ॥ १ ॥
मूलम्

नारद उवाच-
त्वं विष्णोरंशसञ्जातो नाज्ञातं विद्यते तव
तथापि वदतः सम्यङ्माहात्म्यं शृणु वेनज ॥ २ ॥

आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत्
कार्तिकव्रतनियमं तस्यां कुर्यादतन्द्रितः ॥ ३ ॥

रात्र्यां तुर्यांशशेषायां मुदो तिष्ठत्सदा व्रती
नैरृत्यां संव्रजेद्वासाद्बहिः सोदकभाजनः ॥ ४ ॥

दिवासन्ध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः
अन्तर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा ॥ ५ ॥

वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ ६ ॥

गृहीतशिश्नश्चोत्थाय गृहीत्वा शुचिमृत्तिकाम्
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ ७ ॥

एका लिङ्गे गुदे पञ्च तथा वामकरे दश
उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः ॥ ८ ॥

एतद्द्वि त्रिगुणं प्रोक्तं ब्रह्मचारि वनस्थयोः
यतेश्चतुर्गुणं रात्रौ तदर्द्धं शौचमाचरेत् ॥ ९ ॥

तदर्द्धमपि मार्गस्थः स्त्रीशूद्राणां तदर्द्धकम्
शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः ॥ १० ॥

मुखशुद्धिविहीनस्य नो मन्त्राः फलदाः स्मृताः
दन्त जिह्वा विशुद्धिं च ततः कुर्यात्प्रयत्नतः ॥ ११ ॥

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ १२ ॥

इति मन्त्रं समुच्चार्य द्वादशाङ्गुलकं सदा
समिधा क्षीरवृक्षास्य क्षयाहोपोषणं विना ॥ १३ ॥

प्रतिपद्दर्श नवमी षष्ठीश्चार्कदिनं विना
चन्द्रसूर्योपरागे च न कुर्याद्दन्तधावनम् ॥ १४ ॥

कण्टकीवृक्षकार्पास निर्गुण्डी ब्रह्मवृक्षजम्
बिल्वैरण्डविगन्धाढ्यं वर्जयेद्दन्तधावनम् ॥ १५ ॥

ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः
गन्धपुष्पसुताम्बूलान्गृहीत्वा भक्तितत्परः ॥ १६ ॥

तत्र देवस्य पाद्यार्घाद्युपचारान्पृथक्पृथक्
कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमङ्गलम् ॥ १७ ॥

तालवेणुमृदङ्गादि ध्वनियुक्तान्सनृत्तकान्
पुष्पैर्गन्धैः सताम्बूलैर्गायनानपि चार्चयेत् ॥ १८ ॥

देवालये गानपरा यतस्ते विष्णुमूर्त्तयः
तपांसि यज्ञदानानि कृतानि च जगद्गुरोः ॥ १९ ॥

तुष्टिदानि कलौ नित्यं भक्त्या देवस्य सत्पतेः
क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव ॥ २० ॥

विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ॥ २१ ॥

मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद
सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम् ॥ २२ ॥

नेच्छन्ति ये नरा मूढा मद्द्वेष्यास्ते भवन्ति हि
तेषां पूजादिकं गन्धपुष्पादि क्रयते नरैः॥ २३ ॥

तेन प्रीतिं तथा यामि न तथा मत्प्रपूजनात्
शिरीषोन्मत्तगिरिजा मल्लिका शाल्मलीभवैः ॥ २४ ॥

अर्कजैः कर्णिकारैश्च विष्णुर्नार्च्यस्तथाक्षतैः
जपा कुन्द शिरीषैश्च यूथिका मालती भवैः ॥ २५ ॥

केतकीभव पुष्पैश्च नैवार्च्यः शङ्करस्तथा
गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया ॥ २६ ॥

मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेत्
सुगन्धीनि प्रशस्तानि पूजायां सर्वदैव तु ॥ २७ ॥

एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत्
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ॥ २८ ॥

यत्पूजितं मया देव परिपूर्णं तदस्तु मे
ततःप्रदक्षिणङ्कृत्वादण्डवत्प्रणिपत्यच ॥ २९ ॥

पुनःक्षमापयेद्देवङ्गायनाद्यङ्क्षमापयेत्
विष्णोः शिवस्यापि च पूजनादिकं कुर्वन्ति सम्यङ्निशि कार्तिके ये
निर्धूतपापाः सह पूर्वजैस्ते प्रयान्ति विष्णोर्भवनं मनुष्याः ॥ ३० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः ९२