नारद उवाच-
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक्
स पपाताञ्जलौ विन्ध्ये निवासे कश्यपस्य च ॥ १ ॥
मूलम्

स तं कमण्डलौ क्षिप्रं कृपया क्षिप्तवान्मुनिः
तावत्स न ममौ तत्र ततः कूपे न्यवेशयत् ॥ २ ॥

तत्रापि न ममौ तावत्कासारे प्राक्षिपत्सताम्
एवं स सागरे क्षिप्तस्तत्र सोऽप्यन्ववर्द्धत ॥ ३ ॥

ततोऽवधीत्स तं शङ्खं विष्णुर्वै मत्स्यरूपधृक्
अथ तं स्वकरे धृत्वा बदरीवनमागतः ॥ ४ ॥

तत्राहूय ऋषीन्सर्वानिदमाज्ञापयद्विभुः
श्रीकृष्ण उवाच-
जलान्तरे विशीर्णांस्तु यूयं वेदान्प्रमार्जथ ॥ ५ ॥

आनयध्वं च त्वरिताः सरहस्यं जलान्तरात्
तावत्प्रयागे तिष्ठामि देवतागणसंयुतः ॥ ६ ॥

ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः
उद्धारिताः षडङ्गास्ते वेदा यज्ञसमन्विताः ॥ ७ ॥

तेषु यावन्मितं येन लब्धं तावन्मितस्य हि
स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ॥ ८ ॥

अथ सर्वेऽपि सङ्गम्य प्रयागं मुनयो ययुः
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ॥ ९ ॥

लब्ध्वा वेदान्सयज्ञांस्तु ब्रह्माहर्षसमन्वितः
अयजच्चाश्वमेधेन देवर्षिगणसंवृतः ॥ १० ॥

यज्ञा ते देवदेवेश सिद्धपन्नगगुह्यकाः
निपत्य दण्डवद्भूमौ विज्ञप्तिं तत्र चक्रिरे ॥ ११ ॥

देवा ऊचुः
देवदेवजगन्नाथ विज्ञप्तिं शृणु नः प्रभो
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव ॥ १२ ॥

स्थानेऽस्मिन्नृषयो वेदान्नष्टान्प्रापुः पुनः स्वयम्
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते ॥ १३ ॥

स्थानमेतदपि श्रेष्ठं पृथिव्यां पुण्यवर्द्धनम्
भुक्तिमुक्तिप्रदं चास्तु प्रसादाद्भवतः सदा ॥ १४ ॥

कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत्
दत्ताक्षयकरश्चास्तु वरमेतद्वदस्व नः ॥ १५ ॥

श्रीविष्णुरुवाच
ममाप्येतन्मतं देवा यद्भवद्भिरुदाहृतम्
तत्तथास्तु लभत्वेतद्ब्रह्मक्षेत्रमिति प्रथाम् ॥ १६ ॥

सूर्यवंशोद्भवो राजा गङ्गामत्रानयिष्यति
सा सूर्यकन्यया चात्र कालिन्द्या सङ्गमिष्यति ॥ १७ ॥

यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह
तीर्थराजेऽति विख्यातं तीर्थमेतद्भविष्यति ॥ १८ ॥

दानं तपो व्रतं होमो जपपूजादिकाः क्रियाः
अनन्तफलदाः सन्तु मत्सान्निध्यप्रदाः सदा ॥ १९ ॥

ब्रह्महत्यादि पापानि बहुजन्मकृतान्यपि
दर्शनादस्य तीर्थस्य विनाशं यान्तु तत्क्षणात् ॥ २० ॥

देहत्यागं तथा धीराः कुर्वन्ति मम सन्निधौ
मत्तनुं प्रविशन्त्येव पुनर्जन्मनि नो नराः ॥ २१ ॥

पितॄन्निर्दिश्य ये श्राद्धं कुर्वन्त्यत्र समागताः
तेषां पितृगणाः सर्वे यान्तु ते मत्सलोकताम् ॥ २२ ॥

कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम्
सूर्य्ये मकरगे प्रातः स्नायिनां पापनाशनम् ॥ २३ ॥

मकरस्थरवौ माघे प्रातः स्नानं प्रकुर्वताम्
दर्शनादेव पापानि यान्ति सूर्याद्यथा तमः ॥ २४ ॥

सलोकत्वं सरूपत्वं समीपत्वं त्रयं क्रमात्
नृणां ददाम्यहं स्नानान्माघे मकरगे रवौ ॥ २५ ॥

यूयं मुनीश्वराः सर्वे शृणुध्वं वरदोऽस्मि वः
बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः ॥ २६ ॥

अन्यत्र दशभिर्वर्षैस्तपसावाप्यते फलम्
तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा ॥ २७ ॥

स्थानस्य दर्शनं तस्य ये कुर्वन्ति नरोत्तमाः
जीवन्मुक्तास्तदा तेषु पापं नैवावतिष्ठते ॥ २८ ॥

सूत उवाच-
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवान्तर्द्धानमागात्स वेधाः
देवाः सर्वेऽप्यंशकैस्तत्र तस्थुश्चान्तर्द्धानं प्रापुरिन्द्रादयस्ते ॥ २९ ॥

इमां च गाथां शृणुयान्नरोत्तमो यः श्रावयेद्वापि विशुद्धचित्तः
स तीर्थराजं बदरीवनं यत्कृत्वा फलं मां समवाप्नुयाच्च ॥ ३० ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्रसंहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शङ्खासुरवधो वेदागमे प्रयागमाहात्म्यं नामैकनवति-तमोऽध्यायः ९१