सत्योवाच-
विश्वास-प्रस्तुतिः
सर्वेऽपि कालावयवास्तवकालस्वरूपिणः
समानास्तु कथं नाथ मासानां कार्तिको वरः ॥ १ ॥
मूलम्

एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः
कथं ते देवदेवेश कारणं किं च कथ्यताम् ॥ २ ॥

श्रीकृष्ण उवाच-
साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा
पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च ॥ ३ ॥

एवमेव पुरा पृष्टो नारदः पृथुना प्रिये
उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः ॥ ४ ॥

नारद उवाच-
शङ्खनामाभवत्पूर्वमसुरः सागरात्मजः
त्रिलोकीमथने शक्तो महाबलपराक्रमः ॥ ५ ॥
मूलम्
नारद उवाच-
शङ्खनामाभवत्पूर्वमसुरः सागरात्मजः
त्रिलोकीमथने शक्तो महाबलपराक्रमः ॥ ५ ॥
विश्वास-प्रस्तुतिः
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः
इन्द्रादिलोकपालानामधिकारांस्तथाहरत् ॥ ६ ॥

तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः
न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः ॥ ७ ॥

सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा
तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत् ॥ ८ ॥

हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः
भवन्ति बलयुक्तास्ते करणीयं ममात्र किम् ॥ ९ ॥

अद्य ज्ञातं मया देवा वेदमन्त्रबलान्विताः
तान्हरिष्ये ततः सर्वे बलहीना भवन्ति हि ॥ १० ॥

इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्
सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः ॥ ११ ॥

नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन्
तोये निविविशुस्तेऽत्र यज्ञमन्त्रसमन्विताः ॥ १२ ॥

तान्मार्गमाणः शङ्खोऽपि समुद्रान्तर्गतो भ्रमन्
न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान् ॥ १३ ॥

अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात्
पूजोपकरणं गृह्य वैकुण्ठभवनं गतः ॥ १४ ॥

तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः
चक्रुर्देवा गन्धपुष्पधूपदीपान्मुहुर्मुहुः ॥ १५ ॥

अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः
ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः ॥ १६ ॥

उपचारैः षोडशभिः सम्पूज्य त्रिदशास्तदा
दण्डवत्पतिता भूमौ तानुवाचाथ केशवः ॥ १७ ॥

विष्णुरुवाच-
वरदोऽहं सुरगणा गीतवाद्यादि मङ्गलैः
मनोऽभिलषितान्कामान्सर्वानेव ददामि वः ॥ १८ ॥

इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेत्
निशातुर्यांशशेषेण गीतवाद्यादि मङ्गलैः ॥ १९ ॥

कुर्वन्ति मनुजा नित्यं भवद्भिर्यद्यथाकृतम्
ते मत्प्रियकरा नित्यं मत्सान्निध्यं व्रजन्ति हि ॥ २० ॥

पाद्यार्घाचमनीयाद्यैर्भवद्भिर्यद्यथाकृतम्
तदद्भुतगुणं यस्माज्जातंवः सुखकारणम् ॥ २१ ॥

वेदाः शङ्खहृताः सर्वे तिष्ठन्त्युदकसंस्थिताः
तानानयाम्यहन्देवाहत्वासागरनन्दनम् ॥ २२ ॥

अद्यप्रभृतिवेदास्तुमन्त्रबीजमखान्विताः
प्रत्यब्दङ्कार्तिकेमासिविश्रमन्त्वप्सुसर्वदा ॥ २३ ॥

अद्यप्रभृत्यहमपि भवामि जलमध्यगः
भवन्तोऽपि मया सार्द्धमायान्तु समुनीश्वराः ॥ २४ ॥

कालेऽस्मिन्नेवकुर्वन्ति प्रातःस्नानं द्विजोत्तमाः
ते सर्वयज्ञावभृथैः सुस्नाताः स्युर्न संशयः ॥ २५ ॥

ये कार्तिके व्रतं सम्यङ्नित्यं कुर्वन्ति मानवाः
ते देहान्ते त्वया शक्र प्राप्या मद्भवनं सदा ॥ २६ ॥

विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया
देया त्वया च वरुण पुत्रपौत्रादि सन्ततिः ॥ २७ ॥

धनवृद्धिर्धनाध्यक्ष त्वया कार्या ममाज्ञया
ममरूपधराः साक्षाज्जीवन्मुक्ताश्च ते नराः ॥ २८ ॥

आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमम्
यथोक्तविधिना सम्यक्ते मान्या भवतामपि ॥ २९ ॥

एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः
अतश्चैषा तिथिर्मान्या सदैव प्रीतिदा मम ॥ ३० ॥

व्रतद्वयं सम्यगिदन्नरैः कृतं कृष्णस्य सान्निध्यदमस्ति नान्यत्
दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदानेन सदा सुरोत्तमाः ॥ ३१ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्र संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शङ्खासुरवधउद्यमोनाम नवतितमोऽध्यायः ९०