श्रीकृष्ण उवाच-
विश्वास-प्रस्तुतिः
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ
पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत् ॥ १ ॥
मूलम्

गुणवत्युवाच-
हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना
बालाहं किं करोम्यद्य ह्यनाथा भवता विना ॥ २ ॥

को नु मामास्थितां गेहे भोजनाच्छादनादिभिः
अकिञ्चित्कुशलां स्नेहात्पालयिष्यति दुःखिताम् ॥ ३ ॥

हतभाग्या गतसुखा हतेशा हतजीविता
शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा ॥ ४ ॥
मूलम्
हतभाग्या गतसुखा हतेशा हतजीविता
शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा ॥ ४ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
एवं बहुविलप्याथ कुररीव भृशातुरा
पपात भूमौ विकला रम्भा वातहता यथा ॥ ५ ॥
मूलम्
श्रीकृष्ण उवाच-
एवं बहुविलप्याथ कुररीव भृशातुरा
पपात भूमौ विकला रम्भा वातहता यथा ॥ ५ ॥
विश्वास-प्रस्तुतिः
चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु
निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत ॥ ६ ॥

साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत्
तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम् ॥ ७ ॥

तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम्
विष्णुभक्तिपरा शान्ता सत्यशौचा जितेन्द्रिया ॥ ८ ॥

व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम्
एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च ॥ ९ ॥

एतद्व्रतद्वयं कान्ते ममातीव प्रियङ्करम्
भुक्तिमुक्तिकरं सम्यक्पुत्रसम्पत्तिकारकम् ॥ १० ॥

कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे
प्रातः स्नास्यन्ति ते मुक्ता महापातकिनोऽपि च ॥ ११ ॥

सम्मार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम्
विष्णुपूजां प्रकुर्वन्ति जीवन्मुक्ताश्च ते नराः ॥ १२ ॥

स्नानं जागरणं दीपं तुलसीवनसेवनम्
कार्त्तिके ये प्रकुर्वन्ति ते नरा विष्णुमूर्त्तयः ॥ १३ ॥

इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते
देवानामपि ते वन्द्याः किं यैराजन्मतः कृतम् ॥ १४ ॥

इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते
नित्यं विष्णोः परिकरे भक्ता तत्परमानसा ॥ १५ ॥

कदाचिज्जरसा साथ कृशाङ्गी ज्वरपीडिता
स्नातुं गङ्गां गता कान्ते कथञ्चिच्छनकैस्तथा ॥ १६ ॥

यावज्जलान्तरगता कम्पिता शीतपीडिता
तावत्सा विह्वला पश्यद्विमानं प्राप्तमम्बरात् ॥ १७ ॥

शङ्खचक्रगदापद्महस्तैरासन्नमम्बरात्
विष्णुरूपधरैः सम्यग्वैनतेयध्वजाङ्कितैः ॥ १८ ॥

आरोहयन्विमानं तमप्सरोगणसेवितम्
चामरैर्वीज्यमानां तां वैकुण्ठमनयन्गणाः ॥ १९ ॥

अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा
कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत् ॥ २० ॥

अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम्
आगच्छता गणाः सर्वे यातास्तेऽपि मया सह ॥ २१ ॥

एतेपि यादवाः सर्वे मद्गणा एव भामिनि
पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम् ॥ २२ ॥

यश्चन्द्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे
कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी ॥ २३ ॥

मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता
तस्मादयं कल्पवृक्षस्तवाङ्गणतः शुभे ॥ २४ ॥

कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा
त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत् ॥ २५ ॥

यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे
निवेदितवती तस्मान्मम भार्यात्वमागता ॥ २६ ॥

आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम्
कदाचिदपि तेनैव मद्वियोगं न पश्यसि ॥ २७ ॥

एवं ये कार्त्तिके मासि नरा व्रतपरायणाः
मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम ॥ २८ ॥

यज्ञदानव्रततपः कारिणो मानवाः खलु
कार्त्तिकव्रतपुण्यस्य नाप्नुवन्ति कलामपि ॥ २९ ॥

इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा
विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णम्प्रणम्य वचनं निजगाद सत्या ॥ ३० ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनन्नामैकोननवतितमोऽध्यायः ८९