सूतउवाच-
विश्वास-प्रस्तुतिः
अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥ १ ॥
मूलम्
अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥ १ ॥
विश्वास-प्रस्तुतिः
नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत्
इदमर्घ्यमिदं पाद्यमित्युवाचासनन्ददत् ॥ २ ॥
मूलम्
नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत्
इदमर्घ्यमिदं पाद्यमित्युवाचासनन्ददत् ॥ २ ॥
विश्वास-प्रस्तुतिः
नारदस्तानि पुष्पाणि कृष्णायोपाजहार च
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ॥ ३ ॥
मूलम्
नारदस्तानि पुष्पाणि कृष्णायोपाजहार च
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ॥ ३ ॥
विश्वास-प्रस्तुतिः
विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ॥ ४ ॥
मूलम्
विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ॥ ४ ॥
विश्वास-प्रस्तुतिः
समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ॥ ५ ॥
मूलम्
समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ॥ ५ ॥
विश्वास-प्रस्तुतिः
स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ॥ ६ ॥
मूलम्
स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह
विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे ॥ ७ ॥
मूलम्
सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह
विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे ॥ ७ ॥
विश्वास-प्रस्तुतिः
कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ॥ ८ ॥
मूलम्
कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ॥ ८ ॥
विश्वास-प्रस्तुतिः
देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥ ९ ॥
मूलम्
देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः ॥ १० ॥
मूलम्
नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः ॥ १० ॥
विश्वास-प्रस्तुतिः
वाहमारोपयामास वेगेन बलवत्तरः
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ॥ ११ ॥
मूलम्
वाहमारोपयामास वेगेन बलवत्तरः
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ॥ ११ ॥
विश्वास-प्रस्तुतिः
गरुडं ताडयामास कल्पवृक्षं त्यजेरिति
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् ॥ १२ ॥
मूलम्
गरुडं ताडयामास कल्पवृक्षं त्यजेरिति
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् ॥ १२ ॥
विश्वास-प्रस्तुतिः
एकं विसर्जयामास त्वरया प्रजगाम च
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः ॥ १३ ॥
मूलम्
एकं विसर्जयामास त्वरया प्रजगाम च
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः ॥ १३ ॥
विश्वास-प्रस्तुतिः
मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात्
आगत्य सत्यभामाया गृहे चैनमरोपयत्
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥ १४ ॥
मूलम्
मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात्
आगत्य सत्यभामाया गृहे चैनमरोपयत्
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥ १४ ॥
विश्वास-प्रस्तुतिः
सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥ १५ ॥
मूलम्
सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥ १५ ॥
विश्वास-प्रस्तुतिः
इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः ॥ १६ ॥
मूलम्
इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम्
नारदायैव सा प्रादात्तोलयित्वा विधानतः
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ ॥ १७ ॥
मूलम्
सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम्
नारदायैव सा प्रादात्तोलयित्वा विधानतः
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ ॥ १७ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
श्रियःपतिमथामन्त्र्य गते देवर्षिसत्तमे
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥ १८ ॥
मूलम्
सूत उवाच-
श्रियःपतिमथामन्त्र्य गते देवर्षिसत्तमे
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥ १९ ॥
मूलम्
सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥ १९ ॥
विश्वास-प्रस्तुतिः
यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम्
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव ॥ २० ॥
मूलम्
यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम्
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव ॥ २० ॥
विश्वास-प्रस्तुतिः
यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः
यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥ २१ ॥
मूलम्
यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः
यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥ २१ ॥
विश्वास-प्रस्तुतिः
यद्वार्तामपि जानन्ति भूमिसंस्थान जन्तवः
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति साम्प्रतम् ॥ २२ ॥
मूलम्
यद्वार्तामपि जानन्ति भूमिसंस्थान जन्तवः
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति साम्प्रतम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा
अतोऽहं प्रष्टुमिच्छामि किञ्चित्त्वां मधुसूदन ॥ २३ ॥
मूलम्
त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा
अतोऽहं प्रष्टुमिच्छामि किञ्चित्त्वां मधुसूदन ॥ २३ ॥
विश्वास-प्रस्तुतिः
यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात्
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥ २४ ॥
मूलम्
यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात्
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥ २४ ॥
विश्वास-प्रस्तुतिः
यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित्
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः ॥ २५ ॥
मूलम्
यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित्
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सत्या करे करं कृत्वागमत्कल्पतरोस्तलम्
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः ॥ २६ ॥
मूलम्
सत्या करे करं कृत्वागमत्कल्पतरोस्तलम्
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः ॥ २६ ॥
विश्वास-प्रस्तुतिः
प्रहस्य सत्यामामन्त्र्य प्रोवाच जगताम्पतिः
तत्प्रीति परितोषार्थं लसत्पुलकिताङ्गजः ॥ २७ ॥
मूलम्
प्रहस्य सत्यामामन्त्र्य प्रोवाच जगताम्पतिः
तत्प्रीति परितोषार्थं लसत्पुलकिताङ्गजः ॥ २७ ॥
विश्वास-प्रस्तुतिः
कृष्ण उवाच-
न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥ २८ ॥
मूलम्
कृष्ण उवाच-
न मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥ २८ ॥
विश्वास-प्रस्तुतिः
त्वदर्थं देवराजेन विरोधो दैवतैः सह
त्वया यत्प्रार्थितं कान्ते शृणु यच्च महद्भवेत् ॥ २९ ॥
मूलम्
त्वदर्थं देवराजेन विरोधो दैवतैः सह
त्वया यत्प्रार्थितं कान्ते शृणु यच्च महद्भवेत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
अदेयमथवाकार्यमकथ्यमपि यत्पुनः
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ॥ ३० ॥
मूलम्
अदेयमथवाकार्यमकथ्यमपि यत्पुनः
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ॥ ३० ॥
विश्वास-प्रस्तुतिः
सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम्
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ॥ ३१ ॥
मूलम्
सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम्
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ॥ ३१ ॥
विश्वास-प्रस्तुतिः
तवाङ्गार्द्धहरा नित्यं गरुडोपरिगामिनी
इन्द्रादिदेवतावासमगमं च त्वया सह ॥ ३२ ॥
मूलम्
तवाङ्गार्द्धहरा नित्यं गरुडोपरिगामिनी
इन्द्रादिदेवतावासमगमं च त्वया सह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम्
जन्मान्तरे च किं शीला का चाहं कस्य कन्यका ॥ ३३ ॥
मूलम्
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम्
जन्मान्तरे च किं शीला का चाहं कस्य कन्यका ॥ ३३ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कान्ते यत्त्वं वै पूर्वजन्मनि
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ॥ ३४ ॥
मूलम्
श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कान्ते यत्त्वं वै पूर्वजन्मनि
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ॥ ३४ ॥
विश्वास-प्रस्तुतिः
आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः ॥ ३५ ॥
मूलम्
आसीत्कृतयुगस्यान्ते मायापुर्यां द्विजोत्तमः
आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ॥ ३६ ॥
मूलम्
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता
अपुत्रः स स्वशिष्याय चन्द्र नाम्ने ददौ सुताम् ॥ ३७ ॥
मूलम्
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता
अपुत्रः स स्वशिष्याय चन्द्र नाम्ने ददौ सुताम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तमेव पुत्रवन्मेने स च तं पितृवद्वशी
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ॥ ३८ ॥
मूलम्
तमेव पुत्रवन्मेने स च तं पितृवद्वशी
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ॥ ३८ ॥
विश्वास-प्रस्तुतिः
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः
तौ ततो राक्षसं घोरमायान्तं समपश्यताम् ॥ ३९ ॥
मूलम्
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः
तौ ततो राक्षसं घोरमायान्तं समपश्यताम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
भयविह्वलसर्वाङ्गावसमर्थौ पलायितुम्
निहतौ रक्षसा तेन कृतान्तसमरूपिणा ॥ ४० ॥
मूलम्
भयविह्वलसर्वाङ्गावसमर्थौ पलायितुम्
निहतौ रक्षसा तेन कृतान्तसमरूपिणा ॥ ४० ॥
विश्वास-प्रस्तुतिः
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः
वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥ ४१ ॥
मूलम्
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः
वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम्
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ॥ ४२ ॥
मूलम्
यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतम्
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः
मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥ ४३ ॥
मूलम्
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः
मामेव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥ ४४ ॥
मूलम्
एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ
मत्तुल्यरूपौ मम सन्निधानगौ दिव्याङ्गना चन्दनभोगभोगिनौ ॥ ४५ ॥
मूलम्
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ
मत्तुल्यरूपौ मम सन्निधानगौ दिव्याङ्गना चन्दनभोगभोगिनौ ॥ ४५ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः ८८