महेश्वर उवाच-
विश्वास-प्रस्तुतिः
चैत्रे तु चम्पकेनैव जातीपुष्पेण वा पुनः
पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः ॥ १ ॥
मूलम्
चैत्रे तु चम्पकेनैव जातीपुष्पेण वा पुनः
पूजनीयः प्रयत्नेन केशवः क्लेशनाशनः ॥ १ ॥
विश्वास-प्रस्तुतिः
दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा
पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम् ॥ २ ॥
मूलम्
दमनकैर्मरुकैश्चैव बिल्वपुष्पैरथापि वा
पूजयेज्जगतामीशं विष्णुं सर्वेश्वरेश्वरम् ॥ २ ॥
विश्वास-प्रस्तुतिः
शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः
पूजयन्ति नरा विष्णुं चैत्रमासे सुरेश्वरि ॥ ३ ॥
मूलम्
शतपत्रैस्तथादिव्यै रक्तैर्वा सुसमाहितः
पूजयन्ति नरा विष्णुं चैत्रमासे सुरेश्वरि ॥ ३ ॥
विश्वास-प्रस्तुतिः
वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः
केतकीपत्रमादाय वृषस्थे च दिवाकरे ॥ ४ ॥
मूलम्
वैशाखे तु सदा देवि ह्यर्चनीयो महत्प्रभुः
केतकीपत्रमादाय वृषस्थे च दिवाकरे ॥ ४ ॥
विश्वास-प्रस्तुतिः
येनार्चितो हरिर्भक्त्या प्रीतो मन्वन्तरं शतम्
ज्येष्ठे मासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेत् ॥ ५ ॥
मूलम्
येनार्चितो हरिर्भक्त्या प्रीतो मन्वन्तरं शतम्
ज्येष्ठे मासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः
कृत्वा पापसहस्राणि महापापशतानि च ॥ ६ ॥
मूलम्
पूजिते देवदेवेशे सर्वे देवाः सुपूजिताः
कृत्वा पापसहस्राणि महापापशतानि च ॥ ६ ॥
विश्वास-प्रस्तुतिः
तेपि यास्यन्ति भो देवि यत्र विष्णुः श्रिया सह
आषाढे मासि सम्प्राप्ते पूजां कुर्याद्विशेषतः ॥ ७ ॥
मूलम्
तेपि यास्यन्ति भो देवि यत्र विष्णुः श्रिया सह
आषाढे मासि सम्प्राप्ते पूजां कुर्याद्विशेषतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः
पूजां कुर्वन्ति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः ॥ ८ ॥
मूलम्
करवीरैरक्तपुष्पैस्तथाब्जैर्वा सदा नराः
पूजां कुर्वन्ति ये विष्णोस्ते ज्ञेयाः पुण्यभागिनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
जातरूपनिभैर्विष्णुं कदम्बकुसुमैस्तथा
येऽर्चयिष्यन्ति गोविन्दं न तेषां सौरिजं भयम् ॥ ९ ॥
मूलम्
जातरूपनिभैर्विष्णुं कदम्बकुसुमैस्तथा
येऽर्चयिष्यन्ति गोविन्दं न तेषां सौरिजं भयम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
घनागमे घनश्यामः कदम्बकुसुमार्चितः
ददाति वाञ्छितान्कामान्यावदिन्द्राश्चतुर्दश ॥ १० ॥
मूलम्
घनागमे घनश्यामः कदम्बकुसुमार्चितः
ददाति वाञ्छितान्कामान्यावदिन्द्राश्चतुर्दश ॥ १० ॥
विश्वास-प्रस्तुतिः
यथा पद्मालयां प्राप्य प्रीतो भवति माधवः
कदम्बकुसुमं लब्ध्वा प्रीतो भवति लोककृत् ॥ ११ ॥
मूलम्
यथा पद्मालयां प्राप्य प्रीतो भवति माधवः
कदम्बकुसुमं लब्ध्वा प्रीतो भवति लोककृत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
तुलसी कृष्णतुलसी वञ्जुलैर्वा सुरेश्वरि
सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः ॥ १२ ॥
मूलम्
तुलसी कृष्णतुलसी वञ्जुलैर्वा सुरेश्वरि
सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रावणे मासि सम्प्राप्ते येऽर्चयन्ति जनार्दनम्
अतसीपुष्पमादाय तथा दूर्वादलेन तु ॥ १३ ॥
मूलम्
श्रावणे मासि सम्प्राप्ते येऽर्चयन्ति जनार्दनम्
अतसीपुष्पमादाय तथा दूर्वादलेन तु ॥ १३ ॥
विश्वास-प्रस्तुतिः
नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः
ददाति विपुलान्कामान्यावदाभूतसम्प्लवम् ॥ १४ ॥
मूलम्
नानापुष्पैर्विशेषेण पूजनीयः प्रयत्नतः
ददाति विपुलान्कामान्यावदाभूतसम्प्लवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
भाद्र मासे तु सम्प्राप्ते शृणु त्वं नगनन्दिनि
चम्पकैर्वा श्वेतपुष्पैरक्तसिन्दूरकैस्तथा ॥ १५ ॥
मूलम्
भाद्र मासे तु सम्प्राप्ते शृणु त्वं नगनन्दिनि
चम्पकैर्वा श्वेतपुष्पैरक्तसिन्दूरकैस्तथा ॥ १५ ॥
विश्वास-प्रस्तुतिः
कह्लारैर्वा महादेवि सर्वकामफलं लभेत्
आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम् ॥ १६ ॥
मूलम्
कह्लारैर्वा महादेवि सर्वकामफलं लभेत्
आश्विने वै शुभेमासे कर्त्तव्यं विष्णुपूजनम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
यूथिकानवजातीभिस्तथा नानाविधैः शुभैः
पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः ॥ १७ ॥
मूलम्
यूथिकानवजातीभिस्तथा नानाविधैः शुभैः
पूजनीयः प्रयत्नेन भक्तिपूर्वं सदा जनैः ॥ १७ ॥
विश्वास-प्रस्तुतिः
पद्मान्येव समानीय येऽर्चयन्ति जनार्दनम्
धर्मार्थकाममोक्षांस्ते लभन्ते मानवा भुवि ॥ १८ ॥
मूलम्
पद्मान्येव समानीय येऽर्चयन्ति जनार्दनम्
धर्मार्थकाममोक्षांस्ते लभन्ते मानवा भुवि ॥ १८ ॥
विश्वास-प्रस्तुतिः
कार्तिकेमासि सम्प्राप्ते पूजनीयो महेश्वरः
यावन्ति ऋतुपुष्पाणि देयानि माधवस्य च ॥ १९ ॥
मूलम्
कार्तिकेमासि सम्प्राप्ते पूजनीयो महेश्वरः
यावन्ति ऋतुपुष्पाणि देयानि माधवस्य च ॥ १९ ॥
विश्वास-प्रस्तुतिः
तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत्
पूजिते सति देवेशि अनन्तफलमश्नुते ॥ २० ॥
मूलम्
तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत्
पूजिते सति देवेशि अनन्तफलमश्नुते ॥ २० ॥
विश्वास-प्रस्तुतिः
बकुलपुष्पैः पुन्नागैश्चम्पकैर्वा जनार्दनम्
कार्तिके पूजयिष्यन्ति ते देवा न हि मानवाः ॥ २१ ॥
मूलम्
बकुलपुष्पैः पुन्नागैश्चम्पकैर्वा जनार्दनम्
कार्तिके पूजयिष्यन्ति ते देवा न हि मानवाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः
नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा ॥ २२ ॥
मूलम्
मार्गशीर्षे प्रयत्नेन पूजनीयः सदा प्रभुः
नानापुष्पैः सनैवेद्यैर्धूपैर्नीराजनैस्तथा ॥ २२ ॥
विश्वास-प्रस्तुतिः
मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत्
पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम् ॥ २३ ॥
मूलम्
मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत्
पौषमासे महादेवि स्वर्चनं शुभदं स्मृतम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा
माघमासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेत् ॥ २४ ॥
मूलम्
नानातुलसिपत्रैश्च मृगनाभिजलैस्तथा
माघमासे तु सम्प्राप्ते नानापुष्पैः प्रपूजयेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
पूजिते देवदेवेशे वाञ्छितं लभते ध्रुवम्
कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः ॥ २५ ॥
मूलम्
पूजिते देवदेवेशे वाञ्छितं लभते ध्रुवम्
कर्पूरजा तथा पूजा नानानैवेद्यमोदकैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
फाल्गुने चैव सम्प्राप्ते ह्यर्चनं माधवस्य च
कृत्वा वासन्तिकीं पूजां पुष्पाण्यादाय सर्वशः ॥ २६ ॥
मूलम्
फाल्गुने चैव सम्प्राप्ते ह्यर्चनं माधवस्य च
कृत्वा वासन्तिकीं पूजां पुष्पाण्यादाय सर्वशः ॥ २६ ॥
विश्वास-प्रस्तुतिः
नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः
पूजिते तु जगन्नाथे वैकुण्ठपदमव्ययम्
प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः ॥ २७ ॥
मूलम्
नवीनैर्वाथ देवेशि सर्वैर्वा पूजयेत्ततः
पूजिते तु जगन्नाथे वैकुण्ठपदमव्ययम्
प्राप्नोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः ॥ २७ ॥
इति श्रीपाद्मे महापुराणेपञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे उमामहेश्वरसंवादे मासिकपुष्पोनाम सप्ताशीतितमोऽध्यायः ८७