महादेव उवाच-
विश्वास-प्रस्तुतिः
श्रावणे मासि सम्प्राप्ते पवित्रारोपणो विधिः
यस्मिन्कृते तु देवेशि दिव्यभक्तिः प्रजायते ॥ १ ॥
मूलम्

पवित्रारोपणं विष्णोः कर्तव्यं श्रद्धया बुधैः
सम्पूर्णा जायते तस्य पूजा पार्वति वार्षिकी ॥ २ ॥

पवित्रारोपणे विष्णोर्जायते सुखमात्मनः
सम्पूजिते सदा विष्णौ नानासुखमवाप्नुयात् ॥ ३ ॥

सूत्रं वाससमानीय ब्राह्मण्या कर्तितं तथा
स्वेनैव कर्तितं सूत्रं तेनैव च प्रकारयेत् ॥ ४ ॥

सच्छूद्र्या कर्तितं सूत्रं तद्ग्राह्यं वा तथैव च
अन्यथा विक्रयेणापि ग्राह्यं चापि यथातथम् ॥ ५ ॥

क्षौमेनैव प्रकर्तव्यः पवित्रारोपणो विधिः
रूप्येण वा तथा कार्यं पवित्रं विष्णुदैवतम् ॥ ६ ॥

सौवर्णेनापि देवेशि कर्तव्यं विधिपूर्वकम्
अभावे सर्वधातूनां ग्राह्यं सूत्रं तथा बुधैः ॥ ७ ॥

कृत्वा तु त्रिवृतं सूत्रं प्रक्षाल्यमुदकेन तु
लिङ्गे लिङ्गप्रमाणं च प्रतिमायां यथाविधिः ॥ ८ ॥

पादौ वै जानुपर्यन्तं तथा नाभिसमं स्मृतम्
ज्येष्ठं मध्यं कनिष्ठं च पवित्रं कारयेद्बुधः ॥ ९ ॥

संवत्सरदिनैस्तद्वत्तदर्द्धार्द्धेन सङ्ख्यया
सूत्रेणैव प्रकर्त्तव्यं ग्रन्थिनाष्टोत्तरं शतम् ॥ १० ॥

तदर्द्धसङ्ख्यकेनापि युक्तं वा तत्र पार्वति
लिङ्गे वै लिङ्गसञ्ज्ञं तु गङ्गानागैश्च संयुतम् ॥ ११ ॥

प्रतिमायां तथा देवि पवित्रं वनमालकम्
यथाशोभा तथा कार्यं येन विष्णुः प्रसीदति ॥ १२ ॥

एकं वै सुपवित्रं तु गन्धाख्यं कारयेत्सदा
तन्तुना यच्च संयुक्तं कर्त्तव्यं वैष्णवैर्नरैः ॥ १३ ॥

देवानां च तथा प्रोक्तं पवित्रं विष्णुदैवतम्
अम्बरीषाद्या भक्ताश्च अन्येऽपि च ध्रुवादयः ॥ १४ ॥

पवित्राणि ततः पश्चाद्दातव्यानीह पार्वति
प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः ॥ १५ ॥

लक्ष्म्या देव्या द्वितीया तु तिथीनामुत्तमा तिथिः
तृतीया तु तव प्रोक्ता चतुर्थी गणपस्य च ॥ १६ ॥

पञ्चमी चन्द्रमसश्चैव षष्ठी वै कार्त्तिकस्य च
सप्तमी च रवेः प्रोक्ता दुर्गायाश्चाष्टमी स्मृता ॥ १७ ॥

नवमी चैव मातॄणां यमस्य दशमी तथा
एकादशी तु सर्वेषां द्वादशी माधवस्य च ॥ १८ ॥

त्रयोदशी तु कामस्य शर्वस्योक्ता चतुर्दशी
तद्वत्पञ्चदशी ख्याता धातुर्वै ह्यर्चने पुनः ॥ १९ ॥

एता वै तिथयः प्रोक्ताः पवित्रारोपणोचिताः
कनिष्ठे द्वादश प्रोक्ता मध्यमे द्विगुणा स्मृताः ॥ २० ॥

त्रिगुणाश्चोत्तमे चैव ग्रन्थयश्च पवित्रके
कर्पूरकेसराभ्यां वा चन्दनेन हरिद्रया ॥ २१ ॥

रञ्जयित्वा तु तत्सर्वं स्थाप्यं नवकरण्डके
देवस्य यजनं यत्र स्थाप्यानि देववत्तदा ॥ २२ ॥

आदौ देवार्चनं कृत्वा वासनं सपवित्रकम्
अधिवासिते पवित्रे तु ततो वै पूजनं स्मृतम् ॥ २३ ॥

पवित्रेषु च यद्देवास्तेषां निकटमाचरेत्
ब्रह्माविष्णुस्तथा रुद्रस्त्रयो वै सूत्रदेवताः ॥ २४ ॥

क्रिया च पौरुषी वीरा चतुर्थी चापराजिता
जया च विजया चैव मुक्तिदा च सदाशिवा ॥ २५ ॥

मनोन्मनी तु नवमी दशमी सर्वतोमुखी
ग्रन्थीनां देवताश्चैव सूत्रेषु विनिवेशयेत् ॥ २६ ॥

आवाहनमुद्रया वै शास्त्रोक्तविधिना ततः
आवाह्य तत्र ताः सम्यक्सन्निधीकरणं स्मृतम् ॥ २७ ॥

सन्निधीकरणमुद्रया सन्निधीकरणम्
रक्ष्यामुद्रया संरक्ष्य धेनुमुद्रया अमृतीकृत्य
आनीय देवस्याग्रे कलशोदकं गृहीत्वा
आगमोक्तेन मन्त्रेण प्रोक्षणं विधाय क्लीं कृष्णाय इति मन्त्रेण प्रोक्षणं गन्धधूपदीप
नैवेद्यादिकं दत्त्वा ताम्बूलादिकं दत्त्वा षोडशोपचारादिना पवित्रदेवता
अभ्यर्च्य गन्धपवित्रं धूपितं कृत्वा देवाभिमुखः सन्
नमस्कारमुद्रया देवं अभिमन्त्रयीत
आमन्त्रितो महादेव सार्द्धं देव्या गणादिभिः
मन्त्रैर्वा लोकपालैश्च सहितः परिवारकैः ॥ २८ ॥

आगच्छ भगवन्विष्णो विधिसम्पूर्णहेतवे
प्रातस्त्वत्पूजनं कुर्मः सान्निध्यं नियतं कुरु ॥ २९ ॥

तद्गन्धं च पवित्रं च देवस्य राघवस्य च
श्रीविष्णोश्चरणे तत्नि क्षिप्य प्रातः
स्वक्रियां विधाय पुण्याहस्वस्तिवाचन जयजय शब्दैर्घण्टादि वादित्र
निर्घोषतूर्यादिशब्दैः पवित्रैः पूजां कुर्यात्
ततः प्रथमं ज्येष्ठं ततो मध्यमं कनिष्ठं च
एभिः सर्वैर्यथाक्रमेण पूजां कुर्यात्
ॐवासुदेवाय विद्महे विष्णुदेवाय धीमहि
तन्नो देवः प्रचोदयात्
इति पवित्रदानं अथवा स्वमन्त्रैः
ततो वै महतीं पूजां विष्णोः कुर्यात्प्रसादिनीम्
यया वै कृतया देवि विष्णुरात्मा प्रसीदति ॥ ३० ॥

समन्ताद्दीपमाला च कत्तर्व्या च विधानतः
चतुर्विधं तथा चान्नं नैवेद्यं कारयेद्बुधः ॥ ३१ ॥

पवित्राणि ततो दद्यात्पूजितानि तु शोभने
भक्त्या चैव विशेषेण श्रीगुरुं पूजयेत्ततः ॥ ३२ ॥

वस्त्रालङ्कारविधिना पूजनीयो गुरुर्महान्
पूजयित्वा गुरुं तत्र पवित्रं धारयेत्ततः ॥ ३३ ॥

अथ ये वैष्णवाः सन्ति तेभ्यस्ताम्बूलादिकं दत्त्वा पूर्णाहुतिमग्नये दत्त्वा श्रीनिवासाय श्रीकृष्णाय कर्म निवेदयेत्
मन्त्रहीनं क्रियाहीनं भक्तिहीनं तु केशव
यत्पूजितो मया सम्यक्सम्पूर्णं यातु मे ध्रुवम् ॥ ३४ ॥

तत उद्वास्य इष्टबन्धुभिस्तथा वैष्णवैर्विप्रैर्वा सहितः सन्मृष्टमन्नं स्वयं भुञ्जीत
एतत्पूजनकं दिव्यं ये शृण्वन्ति द्विजोत्तमाः
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ ३५ ॥

यावत्तपति वै चन्द्रो यावत्तपति वै रविः
पवित्रारोपकस्तद्वत्तप्यते नात्र संशयः ॥ ३६ ॥

पृथिव्यां यानि दानानि नियमाश्च तथा पुनः
सर्वे वै पूर्णतां यान्ति पवित्रारोपणे कृते ॥ ३७ ॥

उत्सवानां च राजायं पवित्रारोपणो विधिः
ब्रह्महा शुध्यते तत्र नात्र कार्या विचारणा ॥ ३८ ॥

सत्यं सत्यं पुनः सत्यं यदुक्तं नगनन्दिनि
पवित्रारोपणे पुण्यं दर्शने तु तथा स्मृतम् ॥ ३९ ॥

शूद्रैर्वाथ महाभागे पवित्रारोपणो विधिः
कृतो यैर्भक्तिभावेन ते वै धन्यतमाः स्मृताः ॥ ४० ॥

धन्योऽहं कृतकृत्योऽहं सौभाग्यो धरणीतले
मया तु या कृता भक्तिर्वैष्णवी मुक्तिदायिनी ॥ ४१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमामहेश्वर
संवादे पवित्रारोपणन्नाम षडशीतितमोऽध्यायः ८६