महादेव उवाच-
विश्वास-प्रस्तुतिः
वैशाख्यां पूर्णमास्यां वै जलस्थं जगदीश्वरम्
पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदान्वितः ॥ १ ॥
मूलम्

गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवम्
एकादश्यां सुरश्रेष्ठं पश्येद्वाथ प्रहर्षितः ॥ २ ॥

गीतं गायन्हरेर्भक्त्या कर्त्तव्यः सोत्सवः शुभः
शयनं कुरु देवेश जलेऽस्मिन्वै सुरेश्वर ॥ ३ ॥

त्वयि सुप्ते जगत्सुप्तं भवत्येव न संशयः
घनागमे प्रकुर्वन्ति जलस्थ वै जनार्दनम् ॥ ४ ॥

ये नरास्तु सुरश्रेष्ठे न दाहो नरके भवेत्
स्वर्णपात्रे तथा रौप्ये ताम्रे वा च सुरेश्वरि ॥ ५ ॥

मृन्मये वाथ कर्त्तव्यं शयनं विष्णुसञ्ज्ञकम्
तत्र तोयं च संस्थाप्य शीतलं गन्धवासितम् ॥ ६ ॥

तस्मिंस्तोये ततो विष्णोः स्थापनं कारयेद्बुधः
गोपालनाम्नी मूर्त्तिश्च रामनाम्नी तथापि वा ॥ ७ ॥

शालग्राम शिला वापि स्थापनीया विशेषतः
प्रतिमां वा महाभाग तस्य पुण्यमनन्तकम् ॥ ८ ॥

यावद्धराधरालोका यावच्चन्द्र दिवाकरौ
तावत्तस्य कुले कश्चिन्न भवेद्देवि नारकी ॥ ९ ॥

तस्माज्ज्येष्ठे महादेवि तोयस्थं पूजयेद्धरिम्
वीततापो नरस्तिष्ठेद्यावदाभूतसम्प्लवम् ॥ १० ॥

सुशीतले तथा तोये तुलसीदलवासितम्
शुचिशुक्रगते काले पूजयेद्धरणीधरम् ॥ ११ ॥

शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम्
जलस्थं विविधैः पुष्पैर्मुच्यन्ते यमपीडनात् ॥ १२ ॥

जलप्रेष्ठो यतो विष्णुर्जलशायी जलप्रियः
तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥ १३ ॥

नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवम्
येनार्चितो महाभक्त्या स भवेत्कुलपावनः ॥ १४ ॥

कर्कराशि गते सूर्ये मिथुनस्थे विशेषतः
येनार्चितो हरिर्भक्त्या जलमध्ये तु सुन्दरि ॥ १५ ॥

द्वादश्यां तु विशेषेण जलस्थ जलशायिनः
येनार्चनं कृतं तेन कोटियज्ञशतं कृतम् ॥ १६ ॥

निक्षिप्य जलपात्रे तु मासे माधवसञ्ज्ञके
माधवं येऽर्चयिष्यन्ति देवास्ते तु नरा भुवि ॥ १७ ॥

पात्रे गन्धोदकं कृत्वा यः क्षिपेद्गरुडध्वजम्
द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेत्तु सः ॥ १८ ॥

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
हेतुनिष्ठश्च पञ्चैते न पूजाफल भागिनः ॥ १९ ॥

तथा महादेवि प्रभुं जलस्थं जगदीश्वरम्
पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते ॥ २० ॥

ॐह्री ह्रीं रामाय नमः
इति मन्त्रेण देवेशि पूजनं तत्र वै स्मृतम्
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः
इति मन्त्रेण गिरिजे उदकं चाभिमन्त्रयेत्
देवदेव महाभाग श्रीवत्सकृत लाञ्छन ॥ २१ ॥

महादेव नमस्तेऽस्तु नमस्ते विश्वभावन
अर्घं गृहाण भो देव मुक्तिं मे देहि सर्वदा ॥ २२ ॥

नानाविधैः सुपुष्पैश्च पूजयेद्गरुडासनम्
सर्वबाधाविनिर्मुक्तो विष्णोः सायुज्यतामियात् ॥ २३ ॥

रात्रौ जागरणं तत्र द्वादश्यां सुसमाहितः
भक्तिपूर्वं भजेद्देवं विष्णुमव्ययमक्षयम् ॥ २४ ॥

एवं वैशाख सम्बन्धी भक्तिभावेन तत्परैः
उत्सवो विष्णुसञ्ज्ञस्तु कर्त्तव्यो भक्तिमिच्छुभिः ॥ २५ ॥

आगमोक्तेन मन्त्रेण विधिं तत्र प्रकारयेत्
कृते सति महादेवि कोटियज्ञसमं फलम् ॥ २६ ॥

रागद्वेषविनिर्मुक्तो महामोहनिवर्त्तकः
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ॥ २७ ॥

ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि
सर्वपापविनिर्मुक्तो वैकुण्ठं गच्छते ध्रुवम् ॥ २८ ॥

वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः
हरिभक्तिं तु सम्प्राप्य लभते वैष्णवं पदम् ॥ २९ ॥

आत्मारामः सदा मुक्तो विजितात्मा भवेत्तु सः
स वै विष्णुपदं याति यावच्चन्द्र दिवाकरौ ॥ ३० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे शयनमहोत्सवोनाम पञ्चाशीतितमोऽध्यायः ८५