०८४

महादेव उवाच-

विश्वास-प्रस्तुतिः

अस्मिन्वै चैत्रमासे तु कार्यो दमनकोत्सवः
द्वादश्यां तु तथा सम्यग्विधिः कार्यो विशेषतः ॥ १ ॥

मूलम्

वैष्णवैः श्रद्धया पुण्यो जनतानन्दवर्द्धनः
देवानन्दसमुद्भूता दिव्या दमनमञ्जरी ॥ २ ॥

निवेद्या वैष्णवैर्भक्तैः सर्वपूजाफलेप्सुभिः
चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनन्दिनि ॥ ३ ॥

कारयेत्परया भक्त्या महोत्सवमनास्तथा
तत्रादौ च स्वयं गत्वा आरामं प्रति चानघे ॥ ४ ॥

गुर्वाज्ञया प्रकर्त्तव्यं पूजनं रतिना सह
कामदेव नमस्तेऽस्तु विश्वमोहनकारक ॥ ५ ॥

विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि
गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ॥ ६ ॥

एकादश्यां सुरश्रेष्ठि ह्यधिवासनपूर्वकम्
कर्त्तव्यं पूजनं तत्र रात्रौ भक्त्या तु वैष्णवैः ॥ ७ ॥

कर्त्तव्यमग्रतस्तस्य सर्वतोभद्र मण्डलम्
स्थापयित्वा तु देवेशं रतिना सह तत्र वै ॥ ८ ॥

आच्छाद्य श्वेतवस्त्रेण दमनं स्थापयेद्बुधः
तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसत्तमैः ॥ ९ ॥

क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः
एन्द्र्यादि दिशि संस्थाप्य कन्दर्प्पं पूजयेद्बुधः ॥ १० ॥

गन्धं पुष्पं तथा धूपं दीपमारार्तिकं तथा
रात्रौ भक्त्या प्रकर्त्तव्यं विधिनात्र सुरेश्वरि ॥ ११ ॥

मदनाय नम इति प्राच्याम्
मन्मथाय नम इति आग्न्येय्याम्
कन्दर्पाय नम इति याम्ये
अनङ्गाय नम इति रक्षोदिशि
भस्मशरीराय नमः इति वारुण्याम्
स्मराय नम इति वायव्याम्
ईश्वराय नमः इति कौबेर्याम्
पुष्पबाणाय नमः इति ईशान्याम्
चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेत्
पूजिते केशवे चात्र सर्वे देवाः सुपूजिताः ॥ १२ ॥

अक्षतगन्ध धूपदीपैर्नैवेद्यैस्ताम्बूलैश्च दमनकं पूजयित्वा तु
तत्पुरुषाय विद्महे कामदेवाय धीमहि
तन्नोऽनङ्गः प्रचोदयात्
इति वै कामगायत्र्या अष्टोत्तरशतवारं तं दमनकं अभिमन्त्र्य नमस्कुर्यात्
नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे
मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च ॥ १३ ॥

देवदेव नमस्तेऽस्तु श्रीविश्वेश नमोस्तु ते
रतिपते नमस्तेस्तु नमस्ते विश्वमण्डन ॥ १४ ॥

नमस्तेस्तु जगन्नाथ सर्वबीज नमोस्तु ते
एतैर्नानाविधैर्मन्त्रैरागमोक्तैर्विशेषतः ॥ १५ ॥

पूजनीयः प्रयत्नेन लक्ष्म्या सह जनार्दनः
ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः ॥ १६ ॥

देवदेव जगन्नाथ वाञ्च्छितार्थप्रदायक
हृत्स्थान्पूरय मे विष्णो कामान्कामेश्वरीप्रिय ॥ १७ ॥

इत्येतैर्बहुभिर्मन्त्रैः पूजनीयः प्रयत्नतः
श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः ॥ १८ ॥

ततो दमनकमुष्टिं गृहीत्वा तत्र मूलमन्त्रेण
श्रीश्रीविष्ण्वादिदेवेभ्यो दमनकं निवेदयेत्
ततो गन्धादिभिर्महतीपूजागीतवाद्यनृत्यैश्च महोत्सवः कार्यः
देवाग्रेस्थापितः कलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन्दिने कर्त्तव्या
ततः स्वगुरुं वस्त्रालङ्कारद्रविणैः श्रद्धया प्रपूजयेत्
ततः स्वयं वैष्णवैर्बन्धुभिः सह अश्नीयात् ॥ १९ ॥

ततो दमनकमञ्जर्या यो वै विष्णुं प्रपूजयेत्
पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा ॥ २० ॥

ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः
मुच्यते पातकाद्देवि दृष्ट्वा दमनकोत्सवम् ॥ २१ ॥

एवं दमनको देवि पूजितो यैः सुवैष्णवैः
सर्वं तीर्थं कृतं तैस्तु मञ्जर्या पूजनं कृतम् ॥ २२ ॥

वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च
अग्निहोत्रं कृतं तेन मञ्जर्या पूजितो हरिः ॥ २३ ॥

तत्कुलं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षात्रियम्
शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम् ॥ २४ ॥

यस्मिन्कुलेऽवतीर्याथोत्सवो दमनकः कृतः
स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः ॥ २५ ॥

दमनकेन तु तथा सम्प्राप्ते मधुमाधवे
सम्पूज्य गोसहस्रस्य देवि संलभते फलम् ॥ २६ ॥

मल्लिकाकुसुमैर्देवं वसन्ते गरुडध्वजम्
योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः ॥ २७ ॥

मरुकोदमनकश्चैव सद्यस्तुष्टिकरो हरेः
अतः पूजा प्रकर्त्तव्या वैष्णवैर्नरसत्तमैः ॥ २८ ॥

गोसहस्रं कृतं तेन कन्यादानं तथैव च
पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते ॥ २९ ॥

एकामेकां गृहीत्वा तु मञ्जरीं दमनस्य तु
यः पूजयति देवेशं सम्प्राप्ते मधुमाधवे ॥ ३० ॥

पुण्यसङ्ख्यां न जाने वै तस्याहं नगनन्दिनि
स वै चतुर्भुजो भूत्वा इह लोके परत्र च
धर्मानर्थांश्च कामांश्च प्रभुङ्क्ते वैष्णवं पदम् ॥ ३१ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः ८४