०८३

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

सर्वेषां चैव मासानां विधिं ब्रूहि महेश्वर
महोत्सवः प्रकर्त्तव्यः को विधिस्तत्र सम्मतः ॥ १ ॥

मूलम्

को देवः पूजनं कस्य महिमा कीदृशो भवेत्
कस्यां तिथौ प्रकर्त्तव्यं तन्मे वद सुरेश्वर ॥ २ ॥

मासं प्रति किमुक्तं च वैष्णवान्पुण्यकर्मणः
धन्याहं कृतकृत्याहं सुभगाहं धरातले
विष्णोः कथां शृणोमीति दर्शनात्स्पर्शनात्तव ॥ ३ ॥

शिव उवाच-
उत्सवानां विधिं ब्रूमो मासं प्रति तवानघे
यानाकर्ण्य पुनर्देवि गीतवादित्र हर्षिता ॥ ४ ॥

तत्रादौ च सिते पक्षे चैत्रमासे सुशोभने
एकादश्यां विशेषेण दोलारूढं प्रपूजयेत् ॥ ५ ॥

कुर्याद्भक्त्या सदा देवि उत्सवं विधिपूर्वकम्
दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम् ॥ ६ ॥

अपराधसहस्रैस्तु मुक्तास्ते नगनन्दिनि
तावत्तिष्ठन्ति पापानि कोटिजन्मकृतान्यपि ॥ ७ ॥

यावन्नान्दोलयेद्देवं विश्वेशं विश्वनायकम्
कलौ वै ये प्रपश्यन्ति दोलारूढं जनार्दनम् ॥ ८ ॥

गोघ्नादिकाः प्रमुच्यन्ते का कथा इतरेष्वपि
दोलोत्सवे प्रहृष्टास्तु रुद्रेण सहिताः सुराः ॥ ९ ॥

कुर्वन्ति प्राङ्गणे नृत्यं गीतवाद्यं च हर्षिताः
ऋषयो गणगन्धर्वा रम्भाद्यप्सरसां गणाः ॥ १० ॥

वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः
दोलायां च समायान्ति विष्णुदर्शनलालसाः ॥ ११ ॥

दोलायात्रानिमित्तं तु दोलाह्ने मधुमाधवे
भूतानि सन्ति भूपृष्ठे ये केचिद्देवयोनयः ॥ १२ ॥

समायान्ति महादेवि कृष्णे दोलास्थिते ध्रुवम्
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् ॥ १३ ॥

तस्मात्कार्यशतं त्यक्त्वा दोलाह्ने उत्सवं कुरु
प्रह्लादस्तु समायाति विष्णुर्दोलाधिरोहणम् ॥ १४ ॥

कुरुते च महादेवि वरदं तमनुस्मरन्
दोलास्थितस्य कृष्णस्य ये कुर्वन्ति प्रजागरम् ॥ १५ ॥

सर्वपुण्यफलप्राप्तिर्निमेषैकेन जायते
दोलायां संस्थितं विष्णुं पश्यन्ति मधुमाधवे ॥ १६ ॥

क्रीडन्ति विष्णुना सार्द्धं देवदेवेन वन्दिताः
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरि ॥ १७ ॥

सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यया
ॐ दोलारूढाय विद्महे माधवाय च धीमहि
तन्नो देवः प्रचोदयात् १८ इदं गायत्र्या पूजनम्
माधवाय गोविन्दाय श्रीकण्ठाय नमोनमः
पूजनं मन्त्रपूर्वं च कर्तव्यं विधिपूर्वकम् ॥ १९ ॥

गुरवे दक्षिणां दद्याद्यथाशक्त्या समाहितः
गायन्विष्णोः सदा भक्त्या परिपूर्णं ततो भवेत् ॥ २० ॥

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने
दोलायां संस्थितो विष्णुः सर्वपापापहारकः ॥ २१ ॥

पूजितो यैर्नरैः सम्यक्सदा सर्वं ददाति च
यत्र देवाः सगन्धर्वाः किन्नरा ऋषयस्तथा ॥ २२ ॥

आयान्ति बहुधा तत्र दोलारूढे न संशयः ॥ २३ ॥

ॐ नमो भगवते वासुदेवायेति मन्त्रेण पूजनं तत्र कारयेत्
षोडशोपचारैः पूजा च कर्तव्या विधिपूर्वकम्
धर्मार्थमुख्या ये कामास्ते सर्वे प्राप्नुयुर्ध्रुवम् ॥ २४ ॥

अङ्गन्यासं करन्यासं न्यासं शारीरकं च यत्
तत्सर्वं तु प्रकर्त्तव्यं मन्त्रेणानेन सुव्रत ॥ २५ ॥

आगमोक्तेन मन्त्रेण कर्त्तव्यो हि महोत्सवः
श्रीलक्ष्म्यासहितं देवं दोलायां च प्रकल्पयेत् ॥ २६ ॥

देवाग्रे वैष्णवाः स्थाप्या नारदाद्याः सुरर्षयः
विष्वक्सेनादिका भक्ता स्थाप्यास्ते ह्यग्रतः सदा ॥ २७ ॥

पञ्चवादित्रनिर्घोषैः कुर्यादारार्तिकं बुधः
यामे यामे तथा देवि पूजनीयः प्रयत्नतः ॥ २८ ॥

नालिकेरैस्तथा शुभ्रैः कदलैर्वा तथा पुनः
अर्घं दद्यात्ततो देवि पूजनीयः प्रयत्नतः ॥ २९ ॥

देवदेव जगन्नाथ शङ्खचक्रगदाधर
अर्घं गृहाण मे देव कृपां कुरु ममोपरि ॥ ३० ॥

तच्छेषं वैष्णवानां तु दद्यात्प्राच्छादिकं पुनः
वादनं नर्त्तनं तत्र कर्त्तव्यं वैष्णवैर्नरैः ॥ ३१ ॥

आन्दोलनं ततः सर्वैः कर्त्तव्यं च विशेषतः
पृथिव्यां यानि तीर्थानि क्षेत्राणि च सुरेश्वरि ॥ ३२ ॥

सर्वान्येतानि वै तत्र द्रष्टुमायान्ति तद्दिने
एवं ज्ञात्वा सदा देवि कर्त्तव्यः सोत्सवो महान् ॥ ३३ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा याश्चान्यजातयः
शङ्खचक्रगदाधारा ज्ञातव्या नगनन्दिनि ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर-संवादे दोलामहोत्सवोनाम त्र्यशीतितमोऽध्यायः ८३