०८२

पार्वत्युवाच-

विश्वास-प्रस्तुतिः

वैष्णवानां लक्षणं च कीदृशं प्रतिपादितम्
महिमा कीदृशश्चैव वद विश्वेश्वर प्रभो ॥ १ ॥

मूलम्

महादेव उवाच -
विष्णोरयं यतः प्रोक्तो ह्यतो वै वैष्णवो मतः
सर्वस्यादिस्तु विज्ञेयो ब्रह्मारूपधरस्ततः ॥ २ ॥

यतः सकाशात्सञ्जाता ब्राह्मणा वेदपारगाः
ते वैष्णवास्तु विज्ञेया नैवान्ये तु कदाचन ॥ ३ ॥

शौचसत्यक्षान्तियुक्तो रागद्वेषविवर्जितः
वेदविद्याविचारज्ञो यः स वैष्णव उच्यते ॥ ४ ॥

अग्निहोत्ररतो नित्यं नित्यं चातिथिपूजकः
पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते ॥ ५ ॥

दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः
शङ्खचक्राङ्कितोयो वै स वै वैष्णव उच्यते ॥ ६ ॥

कण्ठे मालाधरो यस्तु मुखे रामं सदोच्चरेत्
गानं कुर्यात्सदा भक्त्या स नरो वैष्णवः स्मृतः ॥ ७ ॥

पुराणेषु रता नित्यं यज्ञेषु चरताः सदा
ते नरा वैष्णवा ज्ञेयाः सर्वधर्मेषु सम्मताः ॥ ८ ॥

तेषां निन्दां प्रकुर्वन्ति ये नराः पापकारिणः
ते मृतास्तु कुयोनिं वै गच्छन्ति च पुनः पुनः ॥ ९ ॥

गोपालनाम्नीं मूर्तिं च येऽर्चयन्ति द्विजाः सदा
धातुमात्रमयीं कृत्वा चतुर्हस्तां सुशोभिताम् ॥ १० ॥

पूजां कुर्वन्ति ये विप्रास्ते ज्ञेयाः पुण्यभाजिनः
कृत्वा पाषाणजां मूर्तिं कृष्णाख्यां रूपसुन्दरीम् ॥ ११ ॥

पूजां कुर्वन्ति ये विप्रास्ते ज्ञेयाः पुण्यमूर्त्तयः
शालग्रामशिला यत्र यत्र द्वारवती शिला ॥ १२ ॥

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः
मूर्तिं मन्त्रेण संस्थाप्य पूजनं क्रियते यदि ॥ १३ ॥

तदर्चनं कोटिगुणं धर्मकामार्थमोक्षदम्
नवधा तत्र वै भक्तिः कर्तव्या च जनार्दने
अतः पाषाणजा मूर्तिस्तथा धातुमयी त्वया ॥ १४ ॥

तस्यां भक्तैः प्रकर्त्तव्यं ध्यानं पूजनमेव च
राजोपचारकीं पूजां मूर्तौ तत्र प्रकल्पयेत् ॥ १५ ॥

सर्वात्मानं स्मरेन्नित्यं भगवन्तमधोक्षजम्
दीनानाथैकशरणं लोकानां वृत्तिकारणम् ॥ १६ ॥

मूर्त्तौ तत्र स्मरेन्नित्यं महापातकनाशनम्
गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् ॥ १७ ॥

पूजां करोति यः सम्यक्स वै भागवतो नरः
गोकुले तु यथा रूपं धृतं वै केशवेन तु ॥ १८ ॥

तादृग्रूपं प्रकर्त्तव्यं वैष्णवैर्नरसत्तमैः
आत्मसन्तोषणार्थाय स्वरूपं कारयेद्बुधः ॥ १९ ॥

यतो भक्तिस्तु बहुला जायते नात्र संशयः
शङ्खचक्रगदादीनि विष्णोश्चैवायुधानि च ॥ २० ॥

तस्यां मूर्तौ विशेषेण कर्त्तव्यानि प्रमाणतः
चतुर्भुजां द्विनेत्रां च शङ्खचक्रगदाधराम् ॥ २१ ॥

पीतवासः परीधानां शोभमानां गरीयसीम्
वनमालां दधानां तां लसद्वैडूर्यकुण्डलाम् ॥ २२ ॥

मुकुटे मणिसंयुक्तां कौस्तुभोद्भासितां सदा
सौवर्णीं चाथ रौप्यां वा ताम्रजां चाथ पैत्तलीम् ॥ २३ ॥

कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः
आगमोक्तैर्वेदमन्त्रैः प्रतिष्ठाप्य विशेषतः ॥ २४ ॥

पश्चाद्वै अर्चनं कार्यं यथाशास्त्रानुसारतः
षोडशोपचारैर्मन्त्रैः पूजनं विधिपूर्वकम् ॥ २५ ॥

पूजिते तु जगन्नाथे सर्वे देवाश्च पूजिताः
अतो येन प्रकारेण पूजनीयो महाप्रभुः ॥ २६ ॥

अनादिनिधनो देवः शङ्खचक्रगदाधरः
सर्वं ददाति सर्वेशो वैष्णवान्पुण्यरूपिणः ॥ २७ ॥

यथा विष्णुस्तथा शर्वो नान्तरं वर्त्तते क्वचित्
एवं ज्ञात्वा तु भो देवि ह्युभयोर्मूर्तिकल्पनम् ॥ २८ ॥

शिवपूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः
रौरवेषु नरकेषु वसते नात्र संशयः ॥ २९ ॥

अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः
सर्वभूतेषु सततं संवसामि पुनः पुनः ॥ ३० ॥

मूलम्

अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः
सर्वभूतेषु सततं संवसामि पुनः पुनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच-
के दासा वैष्णवाः के तु के भक्ता भुवि कीर्तिताः
तेषां वै लक्षणं ब्रूहि यथार्थं वै महेश्वर ॥ ३१ ॥

महादेव उवाच-
शूद्रा भवन्ति वै दासा वैष्णवा नारदादयः
प्रह्लादश्चाम्बरीषाद्या भक्तास्ते नगनन्दिनि ॥ ३२ ॥

ब्रह्मक्रियारतो नित्यं वेदवेदाङ्गपाठकः
शङ्खचक्राङ्कितो यस्तु स वै वैष्णव उच्यते ॥ ३३ ॥

द्विजसेवारतो नित्यं नित्यं विष्णुप्रपूजकः
शृणोति बहुधा चैव पुराणं वेदसम्मितम् ॥ ३४ ॥

स शूद्रो हरिदासस्तु इत्युक्तो नगनन्दिनि
पञ्चवर्षत्वमाश्रित्य कृता भक्तिरनेकधा ॥ ३५ ॥

स वै भक्त इति प्रोक्तः सर्वसाधुषु सम्मतः
ध्रुवादयस्ते विज्ञेया अम्बरीषादयश्च ये ॥ ३६ ॥

भक्ताश्च मुनिभिः प्रोक्ताः सर्वकालेषु भामिनि
कलौ धन्यतमाः शूद्रा विष्णुध्यानपरायणाः ॥ ३७ ॥

इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम्
शङ्खचक्राङ्कितो यस्तु विष्णुभक्तिप्रकारकः ॥ ३८ ॥

चतुर्विधमहोत्साहकर्त्ता चैव विशेषतः
स शूद्रो विष्णुदासस्तु यथादृष्टं यथाश्रुतम् ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे दासवैष्णवानां महिमानाम द्व्यशीतितमोऽध्यायः ८२