पार्वत्युवाच-
विश्वास-प्रस्तुतिः
गङ्गायाश्चैव माहात्म्यं पुनर्वद महामते
यच्छ्रुत्वा मुनयः सर्वे वीतरागाः पुनः पुनः ॥ १ ॥
मूलम्

माहात्म्यं कीदृशं चैव तस्याः सर्वेश्वर प्रभो
उत्पत्तिश्च श्रुता पूर्वं महिमा न श्रुतो मया
त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः ॥ २ ॥

महादेव उवाच-
बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमम्
शरतल्पगतं भीष्मं ऋषयो द्रष्टुमाययुः ॥ ३ ॥

अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलहः क्रतुः
अङ्गिरावगौतमोऽगस्त्यः सुमतिस्त्वापुरात्मवान् ॥ ४ ॥

विश्वामित्रः स्थूलशिराः सर्वज्ञः प्रमथाधिपः
रैभ्यो बृहस्पतिर्व्यासः पावनः कश्यपो ध्रुवः ॥ ५ ॥

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
उशनाथ भरद्वाजः क्रतुरास्तीक एव च ॥ ६ ॥
मूलम्
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
उशनाथ भरद्वाजः क्रतुरास्तीक एव च ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिः कुशः
नारदः पर्वतश्चैव सुधन्वा च्यवनो द्विजः ॥ ७ ॥

मतिभूर्भुवनो धौम्यः शतानन्दोकृतव्रणः
जामदग्न्योऽथ रामश्च ऋचीकश्चैवमादयः ॥ ८ ॥

तान्प्रणम्य यथान्यायं धर्मपुत्रः सहानुजः
पूजयामास विधिवज्जगत्पूज्यांस्तु तेजसः ॥ ९ ॥

ते पूजिता महात्मानः सुखासीनास्तपोधनाः
भीष्माश्रिताः कथाश्चक्रुर्दिव्यधर्माश्रितास्तथा ॥ १० ॥

कथान्ते तु ततस्तेषां ऋषीणां भावितात्मनाम्
प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः ॥ ११ ॥

युधिष्ठिर उवाच-
के देशास्तु महापुण्याः के शैलाः केऽपिचाश्रमाः
सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह ॥ १२ ॥

भीष्म उवाच-
अत्रैवोदाहरन्तीममितिहासं नरोत्तम
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ १३ ॥

कश्चित्सिद्धः परिक्रम्य समस्तां पृथिवीमिमाम्
उञ्छवृत्तेः शिबेराजन्गृहं प्राप्तो महात्मनः ॥ १४ ॥

आत्मविद्यासु तत्वज्ञः सर्वदा स जितेन्द्रियः
रागद्वेषपरित्यक्तः कुशली ज्ञानकर्मसु ॥ १५ ॥

वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः
अनिन्दको वैष्णवानां सदा धर्मपरायणः ॥ १६ ॥

योगाभ्यासरतो नित्यं शङ्खचक्रविधारकः
त्रिकालपूजा तत्वज्ञः श्रीकण्ठेऽनुरतः सदा ॥ १७ ॥

वेदविद्यासु विदुषो धर्माधर्मविचारकः
वेदपाठव्रतो नित्यं नित्यं चातिथिपूजकः ॥ १८ ॥

सतीर्थमतियुक्तस्तु शिलोञ्छेषु स्थितः सदा
चतुर्वेदेषु यद्ध्यानं गीतं यद्यत्स्वयम्भुवा ॥ १९ ॥

तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपधृक्
नानाधर्मार्थविशदो ह्यव्ययेष्टमतिः सदा ॥ २० ॥

एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहम्
तं दृष्ट्वा विधिवच्चैव कृत्वातिथ्यं महामनाः ॥ २१ ॥

शिबिः सम्पृच्छयामास देशानां हितकारणम् ॥ २२ ॥

उञ्छवृत्तिरुवाच-
के देशाः के जनपदाः के शैलाः केऽपि चाश्रमाः
पुण्या द्विजवर प्रीत्या मह्यं निर्देष्टुमर्हसि ॥ २३ ॥

सिद्ध उवाच-
ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः
पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा ॥ २४ ॥

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २५ ॥

स्नातानां तत्र पयसि गाङ्गेये नियतात्मनाम्
तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ २६ ॥

अपहृत्य तमस्तीव्रं यथा भात्युदये रविः
तथापहृत्य पाप्मानं भाति गङ्गाजलाप्लुतः ॥ २७ ॥

अग्निं प्राप्य यथा विप्र तूलराशिर्विनश्यति
तथा गङ्गावगाहश्च सर्वं पापं व्यपोहति ॥ २८ ॥

यस्तु सूर्यांशुसन्तप्तं गाङ्गेयं सलिलं पिबेत्
स गोनीहारनिर्मुक्तः पावकाद्धि विशिष्यते ॥ २९ ॥

चान्द्रायणसहस्रं तु पादेनैकेन यः पुमान्
सम्प्लुतश्चापि गङ्गायां यो नरः स विशिष्यते ॥ ३० ॥

लम्बेदधःशिरा यस्तु वर्षाणामयुतं नरः
मासमेकं तु गङ्गाम्भः सेवते यो नरोत्तमः ॥ ३१ ॥

ब्रह्महत्याविनिर्मुक्तो याति विष्णोरनामयम्
इयं वेणीसमा पुण्या पवित्रा पापनाशिनी ॥ ३२ ॥

यस्याः स्मरणमात्रेण बालहा मुच्यते क्षणात्
स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्ल्लभः ॥ ३३ ॥

स्नात्वा यत्र नरश्रेष्ठ वैकुण्ठे सत्वरं व्रजेत्
प्रियाप्रिये न जानाति धर्माधर्मौ न विन्दति ॥ ३४ ॥

स्नात्वा चैव तु गङ्गायां महापापात्प्रमुच्यते ॥ ३५ ॥

गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ३६ ॥

ब्रह्महा चैव गोघ्नो वा सुरापी बालघातकः
मुच्यते सर्वपापेभ्यो दिवं याति च सत्वरम् ॥ ३७ ॥

दर्शनं माधवस्याथ वरस्य दर्शनं तथा
वेण्यां स्नानं प्रकुर्वाणो वैकुण्ठं प्रति गच्छति ॥ ३८ ॥

उदिते च यथा सूर्ये विलयं याति वै तमः
तथैव तस्यां पापानि नश्यन्ति स्नानमात्रतः ॥ ३९ ॥

गङ्गाद्वारे कुशावर्ते गल्लिके(बिल्वके?) नीलपर्वते
स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥ ४० ॥

एवं ज्ञात्वा नरश्रेष्ठो गङ्गास्नायी पुनःपुनः
स्नानमात्रेण भो राजन्मुच्यते किल्बिषादतः ॥ ४१ ॥

देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः
अश्वत्थः सर्ववृक्षाणां नदी भागीरथी सदा ॥ ४२ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे
उमापतिनारदसंवादे गङ्गामाहात्म्यन्नामैकाशीतितमोऽध्यायः ८१