०८०

श्रीपार्वत्युवाच-

विश्वास-प्रस्तुतिः

अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः
यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित् ॥ १ ॥

मूलम्

अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः
यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित् ॥ १ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्
श्रुत्वा तु लभते पुण्यं ह्यन्ते मोक्षमवाप्नुयात् ॥ २ ॥

मूलम्

महादेव उवाच-
शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्
श्रुत्वा तु लभते पुण्यं ह्यन्ते मोक्षमवाप्नुयात् ॥ २ ॥

विश्वास-प्रस्तुतिः

देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम्
आश्रयं सर्वशास्त्राणां यतेन्द्रियमकल्मषम् ॥ ३ ॥

मूलम्

देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम्
आश्रयं सर्वशास्त्राणां यतेन्द्रियमकल्मषम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अप्रधृष्यं महाभागं देवैरपि सवासवैः
सत्यसन्धं जितक्रोधं समत्वे परिनिष्ठितम् ॥ ४ ॥

मूलम्

अप्रधृष्यं महाभागं देवैरपि सवासवैः
सत्यसन्धं जितक्रोधं समत्वे परिनिष्ठितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

नारायणे जगन्नाथे शरण्ये भक्तवत्सले
परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः ॥ ५ ॥

मूलम्

नारायणे जगन्नाथे शरण्ये भक्तवत्सले
परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः ॥ ५ ॥

विश्वास-प्रस्तुतिः

गुणनामाश्रयं शान्तं भीष्मं कुरु पितामहम्
प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः ॥ ६ ॥

मूलम्

गुणनामाश्रयं शान्तं भीष्मं कुरु पितामहम्
प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः ॥ ६ ॥

विश्वास-प्रस्तुतिः

युधिष्ठिर उवाच-
केचिदाहुः परं धर्मं केचिदाहुः परं धनम्
केचिद्दानं प्रशंसन्ति समुदायं तथापरे ॥ ७ ॥

मूलम्

युधिष्ठिर उवाच-
केचिदाहुः परं धर्मं केचिदाहुः परं धनम्
केचिद्दानं प्रशंसन्ति समुदायं तथापरे ॥ ७ ॥

विश्वास-प्रस्तुतिः

साङ्ख्यं केचित्प्रशंसन्ति योगमन्ये तथा परम्
केचिज्ज्ञानं प्रशंसन्ति केचिदाहुः परं श्रुतम्
सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम् ॥ ८ ॥

मूलम्

साङ्ख्यं केचित्प्रशंसन्ति योगमन्ये तथा परम्
केचिज्ज्ञानं प्रशंसन्ति केचिदाहुः परं श्रुतम्
सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः
आत्मज्ञानं परं केचित्समलोष्टाश्मकाञ्चनाः ॥ ९ ॥

मूलम्

अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः
आत्मज्ञानं परं केचित्समलोष्टाश्मकाञ्चनाः ॥ ९ ॥

विश्वास-प्रस्तुतिः

यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम्
कारुण्यं च परे केचिदहिंसां च तपस्विनः ॥ १० ॥

मूलम्

यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम्
कारुण्यं च परे केचिदहिंसां च तपस्विनः ॥ १० ॥

विश्वास-प्रस्तुतिः

शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः
व्यामोहं चात्र गच्छन्ति व्यामुग्धाः पापकर्मभिः ॥ ११ ॥

मूलम्

शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः
व्यामोहं चात्र गच्छन्ति व्यामुग्धाः पापकर्मभिः ॥ ११ ॥

विश्वास-प्रस्तुतिः

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः
वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर ॥ १२ ॥

मूलम्

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः
वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर ॥ १२ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति
तामहं सम्प्रवक्ष्यामि लोकानां च हिताय वै
एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् ॥ १३ ॥

मूलम्

महादेव उवाच-
भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति
तामहं सम्प्रवक्ष्यामि लोकानां च हिताय वै
एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच-
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्
श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनन्दन ॥ १४ ॥

मूलम्

भीष्म उवाच-
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम्
श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनन्दन ॥ १४ ॥

विश्वास-प्रस्तुतिः

अत्रैवोदाहरन्तीमं पुण्यं चैव पुरातनम्
पुण्डरीकस्य संवादं महर्षेर्नारदस्य च ॥ १५ ॥

मूलम्

अत्रैवोदाहरन्तीमं पुण्यं चैव पुरातनम्
पुण्डरीकस्य संवादं महर्षेर्नारदस्य च ॥ १५ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणः श्रुतिसम्पन्नः पुण्डरीको महामतिः
आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा ॥ १६ ॥

मूलम्

ब्राह्मणः श्रुतिसम्पन्नः पुण्डरीको महामतिः
आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा ॥ १६ ॥

विश्वास-प्रस्तुतिः

जितेन्द्रियो जितक्रोधः सन्ध्योपासनतत्परः
वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः ॥ १७ ॥

मूलम्

जितेन्द्रियो जितक्रोधः सन्ध्योपासनतत्परः
वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः ॥ १७ ॥

विश्वास-प्रस्तुतिः

समिद्भिः साधुहव्येन सायम्प्रातर्हुतानलः
ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम् ॥ १८ ॥

मूलम्

समिद्भिः साधुहव्येन सायम्प्रातर्हुतानलः
ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा
उदकेन्धनपुष्पाद्यैरसकृत्पूजयन्गुरुम् ॥ १९ ॥

मूलम्

तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा
उदकेन्धनपुष्पाद्यैरसकृत्पूजयन्गुरुम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः
ब्रह्मविद्यामधीयानः प्राणायामपरायणः ॥ २० ॥

मूलम्

मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः
ब्रह्मविद्यामधीयानः प्राणायामपरायणः ॥ २० ॥

विश्वास-प्रस्तुतिः

तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च
महात्मनो बुद्धिरासीत्संसारार्णवतारिणी ॥ २१ ॥

मूलम्

तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च
महात्मनो बुद्धिरासीत्संसारार्णवतारिणी ॥ २१ ॥

विश्वास-प्रस्तुतिः

मातरं पितरं चैव भातॄनथ सुहृज्जनान्
मित्राणि मातुलांश्चैव सखीन्सम्बन्धिबान्धवान् ॥ २२ ॥

मूलम्

मातरं पितरं चैव भातॄनथ सुहृज्जनान्
मित्राणि मातुलांश्चैव सखीन्सम्बन्धिबान्धवान् ॥ २२ ॥

विश्वास-प्रस्तुतिः

धनधान्यसमृद्धं च ग्रहं वा शक्रसन्निभम्
क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च ॥ २३ ॥

मूलम्

धनधान्यसमृद्धं च ग्रहं वा शक्रसन्निभम्
क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च ॥ २३ ॥

विश्वास-प्रस्तुतिः

परित्यज्य महासत्वस्तृणानीव महासुखी
विचचार महीं रम्यां शाकमूलफलाशनः ॥ २४ ॥

मूलम्

परित्यज्य महासत्वस्तृणानीव महासुखी
विचचार महीं रम्यां शाकमूलफलाशनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

गङ्गां च यमुनां चैव गोमतीमथ गण्डिकाम्
शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम् ॥ २५ ॥

मूलम्

गङ्गां च यमुनां चैव गोमतीमथ गण्डिकाम्
शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

प्रयागं नर्मदां चैव शोणं चैव महानदम्
प्रभासं विन्ध्यतीर्थानि हिमवत्प्रभवानि च ॥ २६ ॥

मूलम्

प्रयागं नर्मदां चैव शोणं चैव महानदम्
प्रभासं विन्ध्यतीर्थानि हिमवत्प्रभवानि च ॥ २६ ॥

विश्वास-प्रस्तुतिः

आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु
कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु ॥ २७ ॥

मूलम्

आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु
कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु ॥ २७ ॥

विश्वास-प्रस्तुतिः

अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः
विचचार महायोगी यथाकाले यथाविधि ॥ २८ ॥

मूलम्

अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः
विचचार महायोगी यथाकाले यथाविधि ॥ २८ ॥

विश्वास-प्रस्तुतिः

कदाचिदात्मवान्धीरः शालग्रामं तपोधनः
पुण्डरीको महाभागः पूर्वकर्मवशानुगः ॥ २९ ॥

मूलम्

कदाचिदात्मवान्धीरः शालग्रामं तपोधनः
पुण्डरीको महाभागः पूर्वकर्मवशानुगः ॥ २९ ॥

विश्वास-प्रस्तुतिः

संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः
मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ॥ ३० ॥

मूलम्

संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः
मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

भूषितं चैव चक्राद्यैश्चक्राङ्कितशिलातलम्
रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम् ॥ ३१ ॥

मूलम्

भूषितं चैव चक्राद्यैश्चक्राङ्कितशिलातलम्
रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

किञ्च चक्राङ्कितास्तत्र प्राणिनः पुण्यदर्शनाः
विचिरन्ति यथाकामं पूण्यतीर्थप्रदर्शिनः ॥ ३२ ॥

मूलम्

किञ्च चक्राङ्कितास्तत्र प्राणिनः पुण्यदर्शनाः
विचिरन्ति यथाकामं पूण्यतीर्थप्रदर्शिनः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः
स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः ॥ ३३ ॥

मूलम्

तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः
स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

जातिस्मर्यां चक्रकुण्डे चक्रनद्याश्रितेषु च
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ॥ ३४ ॥

मूलम्

जातिस्मर्यां चक्रकुण्डे चक्रनद्याश्रितेषु च
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा
मनःप्रसादमभजत्तस्मिन्नेव महामनाः ॥ ३५ ॥

मूलम्

ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा
मनःप्रसादमभजत्तस्मिन्नेव महामनाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सोऽपि तीर्थविशुद्धात्मा पुण्डरीकस्तपोधनः
तत्रैव वसतिं चक्रे ध्यानयोगपरायणः ॥ ३६ ॥

मूलम्

सोऽपि तीर्थविशुद्धात्मा पुण्डरीकस्तपोधनः
तत्रैव वसतिं चक्रे ध्यानयोगपरायणः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तत्रैव सिद्धिमाकाङ्क्षन्नाराध्य गरुडध्वजम्
शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः ॥ ३७ ॥

मूलम्

तत्रैव सिद्धिमाकाङ्क्षन्नाराध्य गरुडध्वजम्
शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

उवास चिरमेकाकी निर्द्वन्द्वः सजितेन्द्रियः
शाकमूलफलाहारः सन्तुष्टः समदर्शनः ॥ ३८ ॥

मूलम्

उवास चिरमेकाकी निर्द्वन्द्वः सजितेन्द्रियः
शाकमूलफलाहारः सन्तुष्टः समदर्शनः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

यमैश्चनियमैश्चैव तथैवासनबन्धनैः
प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च सन्ततैः ॥ ३९ ॥

मूलम्

यमैश्चनियमैश्चैव तथैवासनबन्धनैः
प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च सन्ततैः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रितः
योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः ॥ ४० ॥

मूलम्

धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रितः
योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः ॥ ४० ॥

विश्वास-प्रस्तुतिः

वैदिकैश्चाङ्गिकैश्चैव तथा पौराणिकैरपि
आराधयति सर्वेशं ततः शुद्धिमवाप सः ॥ ४१ ॥

मूलम्

वैदिकैश्चाङ्गिकैश्चैव तथा पौराणिकैरपि
आराधयति सर्वेशं ततः शुद्धिमवाप सः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

रागद्वेषविनिर्मुक्तः स्वधर्मइव रूपवान्
आराधयामास देवं तद्गतेनान्तरात्मना ॥ ४२ ॥

मूलम्

रागद्वेषविनिर्मुक्तः स्वधर्मइव रूपवान्
आराधयामास देवं तद्गतेनान्तरात्मना ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तुतोष भगवान्विष्णुः पुण्डरीकायतेक्षणः
भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः ॥ ४३ ॥

मूलम्

तुतोष भगवान्विष्णुः पुण्डरीकायतेक्षणः
भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ततः कदाचित्तं देशं नारदः परमार्थवित्
जगाम सुमहातेजाः साक्षादादित्यसन्निभः ॥ ४४ ॥

मूलम्

ततः कदाचित्तं देशं नारदः परमार्थवित्
जगाम सुमहातेजाः साक्षादादित्यसन्निभः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तं द्रष्टुकामो भगवान्पुण्डरीकं तपोनिधिम्
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥ ४५ ॥

मूलम्

तं द्रष्टुकामो भगवान्पुण्डरीकं तपोनिधिम्
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स दृष्ट्वा नारदं प्राप्तं तेजोमण्डलमण्डितम्
महामतिर्महोदारः सर्ववेदैकभाजनम् ॥ ४६ ॥

मूलम्

स दृष्ट्वा नारदं प्राप्तं तेजोमण्डलमण्डितम्
महामतिर्महोदारः सर्ववेदैकभाजनम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

प्राञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना
अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः ॥ ४७ ॥

मूलम्

प्राञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना
अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक्
आतोद्यहस्तः सुमुखो जयमण्डलमण्डितः ॥ ४८ ॥

मूलम्

कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक्
आतोद्यहस्तः सुमुखो जयमण्डलमण्डितः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

विवस्वानथवा वह्निरिन्द्रो वरुण एव वा
इति सञ्चिन्तयन्स्थित्वा जगाद परमद्युतिम् ॥ ४९ ॥

मूलम्

विवस्वानथवा वह्निरिन्द्रो वरुण एव वा
इति सञ्चिन्तयन्स्थित्वा जगाद परमद्युतिम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

पुण्डरीक उवाच-
को भवानिह सम्प्राप्तः कुतो वा परमद्युतिः
त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् 6.80.॥ ५० ॥

मूलम्

पुण्डरीक उवाच-
को भवानिह सम्प्राप्तः कुतो वा परमद्युतिः
त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् 6.80.॥ ५० ॥

विश्वास-प्रस्तुतिः

नैव दृष्टः पुमान्वापि मया तव समः प्रभो
वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ ॥ ५१ ॥

मूलम्

नैव दृष्टः पुमान्वापि मया तव समः प्रभो
वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
नारदोऽहम्मनुप्राप्तस्त्वद्दर्शनकुतूहलात्
प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज ॥ ५२ ॥

मूलम्

नारद उवाच-
नारदोऽहम्मनुप्राप्तस्त्वद्दर्शनकुतूहलात्
प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज ॥ ५२ ॥

विश्वास-प्रस्तुतिः

स्मृतः सन्तोषितो वापि पूजितो वा द्विजोत्तमः
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥ ५३ ॥

मूलम्

स्मृतः सन्तोषितो वापि पूजितो वा द्विजोत्तमः
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥ ५३ ॥

विश्वास-प्रस्तुतिः

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः
शङ्खचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः ॥ ५४ ॥

मूलम्

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः
शङ्खचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना
प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः ॥ ५५ ॥

मूलम्

इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना
प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पुण्डरीक उवाच-
धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि
कृतार्थाः पितरो मेऽद्य सम्प्राप्तं जन्मनः फलम् ॥ ५६ ॥

मूलम्

पुण्डरीक उवाच-
धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि
कृतार्थाः पितरो मेऽद्य सम्प्राप्तं जन्मनः फलम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः
तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः ॥ ५७ ॥

मूलम्

अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः
तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि
त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः ॥ ५८ ॥

मूलम्

कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि
त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज
धर्मवर्गं बहुविधं तथैव भुवि मानसम् ॥ ५९ ॥

मूलम्

नारद उवाच-
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज
धर्मवर्गं बहुविधं तथैव भुवि मानसम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम
अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च ॥ ६० ॥

मूलम्

वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम
अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च ॥ ६० ॥

विश्वास-प्रस्तुतिः

विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत्
इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ॥ ६१ ॥

मूलम्

विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत्
इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत्
इत्येवं प्राहुरपरे तत्रैव लयमेति च ॥ ६२ ॥

मूलम्

अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत्
इत्येवं प्राहुरपरे तत्रैव लयमेति च ॥ ६२ ॥

विश्वास-प्रस्तुतिः

आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा
अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः ॥ ६३ ॥

मूलम्

आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा
अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे
हस्तिकीटादिदेहेऽपि महान्तमण्डमेव च ॥ ६४ ॥

मूलम्

यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे
हस्तिकीटादिदेहेऽपि महान्तमण्डमेव च ॥ ६४ ॥

विश्वास-प्रस्तुतिः

यथाऽद्यजगतोवृत्तिस्तथा कालान्तरेष्वपि
प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन ॥ ६५ ॥

मूलम्

यथाऽद्यजगतोवृत्तिस्तथा कालान्तरेष्वपि
प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन ॥ ६५ ॥

विश्वास-प्रस्तुतिः

यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते
कुतः स्वर्गादयः सन्तीत्यन्ये विजितमानसाः ॥ ६६ ॥

मूलम्

यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते
कुतः स्वर्गादयः सन्तीत्यन्ये विजितमानसाः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे
अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः ॥ ६७ ॥

मूलम्

निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे
अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

एवं मन्येऽपि कुहका यथामति यथाश्रुतम्
वदन्ति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः ॥ ६८ ॥

मूलम्

एवं मन्येऽपि कुहका यथामति यथाश्रुतम्
वदन्ति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तर्केष्ववहितो भूत्वा कथयामि तपोधन
परमार्थमिमं पुण्यं घोरं संसारनाशनम् ॥ ६९ ॥

मूलम्

तर्केष्ववहितो भूत्वा कथयामि तपोधन
परमार्थमिमं पुण्यं घोरं संसारनाशनम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

तन्मूलमनुजानन्ति ततो देवादयो नराः
प्रमाणेनोपलभ्यन्ते न प्रमाणं विमोहितैः ॥ ७० ॥

मूलम्

तन्मूलमनुजानन्ति ततो देवादयो नराः
प्रमाणेनोपलभ्यन्ते न प्रमाणं विमोहितैः ॥ ७० ॥

विश्वास-प्रस्तुतिः

अनागतमतीतं च विप्रकृष्टमतीव यत्
न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम् ॥ ७१ ॥

मूलम्

अनागतमतीतं च विप्रकृष्टमतीव यत्
न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः
प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः ॥ ७२ ॥

मूलम्

आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः
प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम्
उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसञ्ज्ञकः ॥ ७३ ॥

मूलम्

यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम्
उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसञ्ज्ञकः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम्
जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ॥ ७४ ॥

मूलम्

फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम्
जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

आत्मसंवेदनं नित्यं सनातनमतीन्द्रियम्
चिन्मात्रममृतं ज्ञेयमनन्तमजमव्ययम् ॥ ७५ ॥

मूलम्

आत्मसंवेदनं नित्यं सनातनमतीन्द्रियम्
चिन्मात्रममृतं ज्ञेयमनन्तमजमव्ययम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनञ्जनम्
व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ॥ ७६ ॥

मूलम्

व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनञ्जनम्
व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः
लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि ॥ ७७ ॥

मूलम्

योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः
लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शृणुष्वावहितस्तात कथयामि तवानघ
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ॥ ७८ ॥

मूलम्

शृणुष्वावहितस्तात कथयामि तवानघ
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ॥ ७८ ॥

विश्वास-प्रस्तुतिः

कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम्
प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ॥ ७९ ॥

मूलम्

कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम्
प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः
एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह ॥ ८० ॥

मूलम्

किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः
एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह ॥ ८० ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्
अल्पग्रन्थं प्रभूतार्थमदुःखोपासनक्रियम् ॥ ८१ ॥

मूलम्

ब्रह्मोवाच-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्
अल्पग्रन्थं प्रभूतार्थमदुःखोपासनक्रियम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

यः परं परया प्रोक्तः पुरुषः पञ्चविंशकः
स एव सर्वभूतात्मा तेन इत्यभिधीयते ॥ ८२ ॥

मूलम्

यः परं परया प्रोक्तः पुरुषः पञ्चविंशकः
स एव सर्वभूतात्मा तेन इत्यभिधीयते ॥ ८२ ॥

विश्वास-प्रस्तुतिः

नारायणो जगद्धाम परमात्मा सनातनः
जगतः सृष्टिसंहार परिपालनतत्परः ॥ ८३ ॥

मूलम्

नारायणो जगद्धाम परमात्मा सनातनः
जगतः सृष्टिसंहार परिपालनतत्परः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

त्रयाणामात्मनां चैको देवदेवः सनातनः
आराध्यः सर्वदा ब्रह्मन्ते पश्यन्ति जगत्पतिम् ॥ ८४ ॥

मूलम्

त्रयाणामात्मनां चैको देवदेवः सनातनः
आराध्यः सर्वदा ब्रह्मन्ते पश्यन्ति जगत्पतिम् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

यथा जगदवस्थानं यथा कालान्तरे पुनः
भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ॥ ८५ ॥

मूलम्

यथा जगदवस्थानं यथा कालान्तरे पुनः
भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ॥ ८५ ॥

विश्वास-प्रस्तुतिः

स्थूलं सूक्ष्मं तथा चान्यत्पश्यन्ति ज्ञानचक्षुषा
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ॥ ८६ ॥

मूलम्

स्थूलं सूक्ष्मं तथा चान्यत्पश्यन्ति ज्ञानचक्षुषा
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम्
कुतर्कज्ञानदुष्टानां विभक्तेन्द्रियवादिनाम् ॥ ८७ ॥

मूलम्

अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम्
कुतर्कज्ञानदुष्टानां विभक्तेन्द्रियवादिनाम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
श्रूयतामन्यदपि वै कथ्यमानं मयानघ
ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ॥ ८८ ॥

मूलम्

नारद उवाच-
श्रूयतामन्यदपि वै कथ्यमानं मयानघ
ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ॥ ८८ ॥

विश्वास-प्रस्तुतिः

देवानामिन्द्रमुख्यानामृषीणां चैव सुव्रत
हितानि कथयामास पृच्छतां कमलासनः ॥ ८९ ॥

मूलम्

देवानामिन्द्रमुख्यानामृषीणां चैव सुव्रत
हितानि कथयामास पृच्छतां कमलासनः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
नारायणपरो धर्मस्तथालोकाश्च शाश्वताः
नारायणपरा यज्ञाः शास्त्राणि विविधानि च ॥ ९० ॥

मूलम्

ब्रह्मोवाच-
नारायणपरो धर्मस्तथालोकाश्च शाश्वताः
नारायणपरा यज्ञाः शास्त्राणि विविधानि च ॥ ९० ॥

विश्वास-प्रस्तुतिः

वेदाः साङ्गास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः
पृथिव्यादीनि विबुधाः पञ्चभूतानि सोऽव्ययः ॥ ९१ ॥

मूलम्

वेदाः साङ्गास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः
पृथिव्यादीनि विबुधाः पञ्चभूतानि सोऽव्ययः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत्
तथापि मानुषाः पाप न जानन्ति विमोहिताः ॥ ९२ ॥

मूलम्

सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत्
तथापि मानुषाः पाप न जानन्ति विमोहिताः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

तस्यैव मायया व्याप्तं चराचरमिदं जगत्
तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ॥ ९३ ॥

मूलम्

तस्यैव मायया व्याप्तं चराचरमिदं जगत्
तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः
तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि ॥ ९४ ॥

मूलम्

ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः
तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि ॥ ९४ ॥

विश्वास-प्रस्तुतिः

जगत्संहरते रुद्रः पालने विष्णुरुच्यते
उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः ॥ ९५ ॥

मूलम्

जगत्संहरते रुद्रः पालने विष्णुरुच्यते
उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

सर्वाधारो निराधारः सकलो निष्कलस्तथा
अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः ॥ ९६ ॥

मूलम्

सर्वाधारो निराधारः सकलो निष्कलस्तथा
अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

तमेव शरणं यात सर्वसंहारकर्मगम्
स पिता जनितास्माकं कीर्तितो मधुसूदनः ॥ ९७ ॥

मूलम्

तमेव शरणं यात सर्वसंहारकर्मगम्
स पिता जनितास्माकं कीर्तितो मधुसूदनः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना
प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ॥ ९८ ॥

मूलम्

एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना
प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तस्मात्त्वमपि विप्रर्षे नारायणपरो भव
तदन्यः को महोदारः प्रार्थितं दातुर्महति ॥ ९९ ॥

मूलम्

तस्मात्त्वमपि विप्रर्षे नारायणपरो भव
तदन्यः को महोदारः प्रार्थितं दातुर्महति ॥ ९९ ॥

पितरं मातरं चैव तमेव पुरुषोत्तमम्
परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् 6.80.१००
अग्निकार्येण वै तेन तपसाध्ययनेन वै
तोषयेद्देवदेवेशं गुरुं नित्यमतन्द्रितः १०१
स्वर्गे क्षयं तथा भोगमनुष्ठेयं तथैव च
परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमम् १०२
किं तेन मन्त्रैर्बहुभिः किं तेन बहुभिर्व्रतैः
ॐ नमोनारायणायेति मन्त्रः सर्वार्थसाधकः १०३
चीरवासा जटी विप्र दण्डीमुण्डित एव वा
विभूषितो वा विप्रेन्द्र न लिङ्गं धर्मकारणम् १०४
ये नृशंसा दुरात्मानः पापाचारपराः सदा
तेपि यान्ति परं स्थानं नारायणपरायणाः १०५
लिप्यन्ते न च पापौघैर्वैष्णवं वीतकिल्बिषाः १०६
पुनन्ति सकलं लोकं अहिंसाजितमानसाः १०७
क्षत्रबन्धुरिति ख्यातो राजा प्राणिविहिंसकः
प्राप्तवान्परमं धाम वैष्णवं केशवालयात् १०८
अम्बरीषो महासत्वो राजा परमतत्ववित्
हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान् १०९
अन्ये ब्रह्मर्षयः शान्ता बहवः संशितव्रताः
ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः ११०
प्रह्लादः परमाह्लादः पुरा नारायणं हरिम्
सेवितोऽभ्यर्चितो ध्यातस्तेनैव परिरक्षितः १११
भरतो नाम तेजस्वी राजा परमधार्मिकः
उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ११२
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः
केशवाराधनं हित्वा नैव यान्ति परां गतिम् ११३
जन्मान्तरसहस्रेषु यस्य स्यान्मतिरीदृशी
दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः ११४
स याति विष्णुसालोक्यं पुरुषो नात्र संशयः
किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः ११५
अनन्यमानसैर्नित्यं ध्यातव्यस्तत्वचिन्तकैः
नारायणो जगद्व्यापी परमात्मा सनातनः ११६
भीष्म उवाच-
इत्येवमुक्त्वा देवर्षिस्तत्रैवान्तरधीयत
परोपकारनिरतो नारदः परमार्थवित् ११७
पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः
ॐ नमो नारायणायेति मन्त्रमष्टाक्षरं जपन् ११८
प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा
हृत्पुण्डरीके गोविन्दं प्रतिष्ठाप्यामृतात्मकम् ११९
तपस्वी विमले सौम्ये शालग्रामे तपोधनः
उवास चिरमेकाकी निर्द्वन्द्वो निष्परिग्रहः १२०
स्वप्नेऽपि केशवान्नान्यत्पश्यतीति महामतिः
निद्रापि नैव तस्यासीत्पुरुषार्थविरोधिनी १२१
तपसा ब्रह्मचर्येण शौचेन च विशेषतः
जन्मजन्मान्तरारूढे संस्कारे च यथा तथा १२२
प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः
अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः १२३
शङ्खचक्रगदापाणिं पीतवाससमच्युतम्
श्यामलं पुण्डरीकाक्षं स ददर्श सदाकृतिम् १२४
सिंहा व्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः
विरोधं सहजं हित्वा समेतास्तस्य सन्निधौ १२५
विचरन्ति यथाकामं प्रसन्नेन्द्रियवृत्तयः
परस्परहितं रम्यं सम्प्राप्तं पाण्डुनन्दन १२६
तथा प्रसन्नं सलिलं सरसां सरितामपि
ऋतवः सुप्रन्नाश्च विमलेन्द्रियसंयुताः १२७
मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः
आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमतः १२८
प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरम्
प्रसन्ने देवदेवेशे गोविन्दे भक्तवत्सले १२९
ततः कदाचिद्भगवान्पुण्डरीकस्य धीमतः
आविरासीज्जगन्नाथः पुण्डरीकायतेक्षणः १३०
शङ्खचक्रगदापाणिः पीतवासाः समुज्ज्वलः
पुण्डरीकविशालाक्षश्चन्द्रबिम्बनिभाननः १३१
किङ्किणीकुण्डली हारी केयूरी कटिसूत्रवान्
श्रीवत्साङ्कः पीतवासाः कौस्तुभेन विभूषितः १३२
वनमालापरीताङ्गः स्फुरन्मुकुटकुण्डलः
स्फुरता ब्रह्मसूत्रेण मुक्तादामविलम्बिना १३३
विराजमानो देवेशश्चामरव्यजनादिभिः
देवैः सिद्धैः सदेवेन्द्रैर्गन्धर्वैर्मुनिभिर्वरैः १३४
यक्षैर्नागवरैश्चैवसेव्यमानोऽप्सरोगणैः
तं दृष्ट्वा देवदेवेशं पुण्डरीकोऽनघः स्वयम् १३५
ततो बुद्ध्या महात्मानं तुष्टाव च जनार्दनम्
प्राञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना १३६
पुण्डरीक उवाच-
नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे
निरञ्जनाय नित्याय निर्गुणाय महात्मने १३७
त्वमीशः सर्वभूतानां तथैव च निरीश्वरः
तथाभयार्तिनाशायगोविन्दोगरुडध्वजः १३८
अनुग्रहेणभूतानांअनेकाकारधारिणे
त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् १३९
त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया
नमोस्तु नाभिप्रसवनलिनाय नमो नमः १४०
नमः समस्तवेदान्तविश्रुतात्मविभूतये
त्वमेव सर्वदेवेश कारणं कैटभार्दन १४१
प्रसीद हृदयावास शङ्खचक्रगदाधर
नमः समस्तभूतानामादिभूताय भूभृते १४२
अनेकरूपरूपाय विष्णवे प्रभविष्णवे
यस्य ब्रह्मादयो देवा न विदन्ति सुरेश्वराः १४३
महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहम्
वाचामगोचरो यस्य महिमा तव नाप्यते १४४
जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः
तथा विभेदरूपेण भक्तानामनुकम्पया १४५
मत्स्यकूर्मादिरूपेण दृश्यसे पुरुषोत्तम
भीष्म उवाच-
पुण्डरीको जगन्नाथं संस्तुवन्पुरुषोत्तमम् १४६
तमेवालोकयद्वीर चिरप्रार्थितदर्शनम्
तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः १४७
पुण्डरीकं महाभागं तथा गम्भीरया गिरा १४८
श्रीभगवानुवाच-
प्रीतोऽस्मि वत्स भद्रं ते पुण्डरीक महामते
वरं वृष्णीष्व दास्यामि यत्ते मनसि वर्त्तते १४९
एतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम्
एवं विज्ञापयामास पुण्डरीको महामतिः 6.80.१५०
पुण्डरीक उवाच-
क्वाहमत्यन्त दुर्बुद्धिः क्व भवन्तो हितैषिणः
यद्धितं मम देवेश तदाज्ञापय माधव १५१
एवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत्
पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् १५२
आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत
उपकारी च नित्यात्मा मया त्वं सर्वदा सह १५३
भीष्म उवाच-
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले
दिवि दुन्दुभयो नेदुः पुष्पवर्षं पपात ह १५४
ब्रह्मादयस्तथा देवाः साधुसाध्विति चाब्रुवन्
जगुः सिद्धाश्च गन्धर्वाः किन्नराश्च विशेषतः १५५
तत्रैव तमुपादाय देवदेवो जगत्पतिः
जगाम गरुडारूढः सर्वलोकनमस्कृतः १५६
तस्मात्त्वमपि राजेन्द्र विष्णुभक्तिसमन्वितः
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः १५७
अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम्
शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम् १५८
येनोपायेन राजेन्द्र विष्णुभक्तिसमन्वितः
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १५९
अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि
प्राप्नुवन्ति नरा नैव नारायणपराङ्मुखाः १६०
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति १६१
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः १६२
य इदं शृणुयान्नित्यं पठेद्वापि समाहितः
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति १६३
ईश्वर उवाच-
एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनन्दिनि
धर्मार्थकाममोक्षास्तु भवन्ति च न संशयः १६४
शुक्ले कुलेऽवतीर्णो यो ब्राह्मणो वेदतत्परः
वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् १६५
मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः
शङ्खचक्रधरो विद्वन्मालां तुलसिजां दधत् १६६
जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः
एकविंशतिकुलैः सार्द्धं विष्णुलोके स मोदते १६७
पुण्डरीको यथा शक्त्या मुक्तो ह्यत्र न संशयः
भक्तिभावेन गोविन्दस्तुष्टिं प्राप्नोति शाश्वतीम् १६८
कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः
सामगानसमं प्रोक्तं देवार्चनसमाधिषु १६९
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः ८०