महादेव उवाच-
विश्वास-प्रस्तुतिः
अपामार्जनकं दिव्यं परमाद्भुतमेव च
पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥ १ ॥
मूलम्

एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये
एककालं द्विकालं वा ये पठन्ति द्विजातयः ॥ २ ॥

आयुश्च श्रीर्बलं तस्य वर्द्धयन्ति दिने दिने
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ॥ ३ ॥

वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति
अन्यैश्च लभते भक्तिं पठनाच्छ्रवणाज्जपात् ॥ ४ ॥

सामवेदफलं तस्य जायते नगनन्दिनि
अखिलं पापसङ्घातं तत्क्षणादेव नश्यति ॥ ५ ॥

इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः
पुत्राश्चैव तथा लक्ष्मीः सम्पूर्णा भवति ध्रुवम् ॥ ६ ॥

लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः
इहलोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥ ७ ॥

पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत्
सर्वं तीर्थं कृतं तेन तुलस्याः पूजने कृते ॥ ८ ॥

एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम्
पृथ्वीदानसमं पाठाद्विष्णुलोकं तु गच्छति ॥ ९ ॥

जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया
बालानां जीवनार्थाय पठितव्यं समाहितैः ॥ १० ॥

रोगग्रहाभिभूतानां बालानां शान्तिकारकम्
भूत ग्रह विषं चैव पठनादेव नश्यति ॥ ११ ॥
मूलम्
रोगग्रहाभिभूतानां बालानां शान्तिकारकम्
भूत ग्रह विषं चैव पठनादेव नश्यति ॥ ११ ॥
विश्वास-प्रस्तुतिः
कण्ठे तुलसिजां मालां धृत्वा विप्रो हि यः पठेत्
स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति ॥ १२ ॥

कण्ठे माला धृता येन शङ्खचक्रादिचिह्नितः
वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥ १३ ॥

इहलोकं परित्यज्य विष्णुलोकं स गच्छति
मोहमायापरित्यक्तो दम्भतृष्णाविवर्जितः ॥ १४ ॥

एतत्स्तोत्रं पठेद्दिव्यं परं निर्वाणमाप्नुयात्
ते धन्याः सन्ति भूर्लोके ये विप्रा वैष्णवाः स्मृताः ॥ १५ ॥

स्वात्मा वै तारितस्तैस्तु सकुलं नात्र संशयः
ते वै धन्यतमा लोके नारायणपरायणाः
तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः ॥ १६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे अपामार्जनमहिमानामैकोनाशीतितमोऽध्यायः ७९