०७८

महादेव उवाच-

विश्वास-प्रस्तुतिः

अथातः सम्प्रवक्ष्यामि अपामार्जनमुत्तमम्
पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ १ ॥

मूलम्

अथातः सम्प्रवक्ष्यामि अपामार्जनमुत्तमम्
पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ १ ॥

विश्वास-प्रस्तुतिः

सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदम्
तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि ॥ २ ॥

मूलम्

सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदम्
तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि ॥ २ ॥

विश्वास-प्रस्तुतिः

श्रीदालभ्य उवाच-
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः
कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥ ३ ॥

मूलम्

श्रीदालभ्य उवाच-
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः
कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥ ३ ॥

विश्वास-प्रस्तुतिः

आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः
न भवन्ति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ ४ ॥

मूलम्

आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः
न भवन्ति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ ४ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच-
व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः
ते नरा नैव रोगार्त्ता जायन्ते मुनिसत्तम ॥ ५ ॥

मूलम्

पुलस्त्य उवाच-
व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः
ते नरा नैव रोगार्त्ता जायन्ते मुनिसत्तम ॥ ५ ॥

विश्वास-प्रस्तुतिः

यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा
न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥ ६ ॥

मूलम्

यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा
न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ ७ ॥

मूलम्

ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ ७ ॥

विश्वास-प्रस्तुतिः

तत्तदाप्नोत्यसन्दिग्धं विष्णोः सेवी विशेषतः
नाधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् ॥ ८ ॥

मूलम्

तत्तदाप्नोत्यसन्दिग्धं विष्णोः सेवी विशेषतः
नाधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

कृत्यास्पर्शभयं नापि तोषिते मधुसूदने
समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥ ९ ॥

मूलम्

कृत्यास्पर्शभयं नापि तोषिते मधुसूदने
समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥ ९ ॥

विश्वास-प्रस्तुतिः

देवानामप्यधृष्योऽसौ तोषिते च जनार्दने
यः सर्वेषु च भूतेषु यथात्मनि तथापरे ॥ १० ॥

मूलम्

देवानामप्यधृष्योऽसौ तोषिते च जनार्दने
यः सर्वेषु च भूतेषु यथात्मनि तथापरे ॥ १० ॥

विश्वास-प्रस्तुतिः

उपवासादिना तेन तोषितो मधुसूदनः
तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ॥ ११ ॥

मूलम्

उपवासादिना तेन तोषितो मधुसूदनः
तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम
तेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥ १२ ॥

मूलम्

अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम
तेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

ग्रहरोगादिकं चैव पापकार्यं न जायते
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १३ ॥

मूलम्

ग्रहरोगादिकं चैव पापकार्यं न जायते
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

श्रीदालभ्य उवाच-
अनाराधितगोविन्दा ये नरा दुःखभागिनः
तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः ॥ १४ ॥

मूलम्

श्रीदालभ्य उवाच-
अनाराधितगोविन्दा ये नरा दुःखभागिनः
तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम्
समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ १५ ॥

मूलम्

पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम्
समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ १५ ॥

विश्वास-प्रस्तुतिः

श्रीपुलस्त्य उवाच-
तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु
रोगदोषाशुभहरं विज्वरादि विनाशनम् ॥ १६ ॥

मूलम्

श्रीपुलस्त्य उवाच-
तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु
रोगदोषाशुभहरं विज्वरादि विनाशनम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा
हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ १७ ॥

मूलम्

शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा
हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम्
विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥ १८ ॥

मूलम्

ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम्
विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥ १८ ॥

विश्वास-प्रस्तुतिः

नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम्
चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ १९ ॥

मूलम्

नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम्
चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

कपोलयोः कल्किनाथं वामनं कर्णमूलयोः
शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ॥ २० ॥

मूलम्

कपोलयोः कल्किनाथं वामनं कर्णमूलयोः
शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ॥ २० ॥

विश्वास-प्रस्तुतिः

मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पतिं तथा
रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ २१ ॥

मूलम्

मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पतिं तथा
रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ २१ ॥

विश्वास-प्रस्तुतिः

बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम्
अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥ २२ ॥

मूलम्

बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम्
अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥ २२ ॥

विश्वास-प्रस्तुतिः

सङ्कर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु
वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ २३ ॥

मूलम्

सङ्कर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु
वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे
पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ २४ ॥

मूलम्

स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे
पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम्
पीताम्बरधरं कट्यामूरुयुग्मे मधोर्द्विषम् ॥ २५ ॥

मूलम्

मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम्
पीताम्बरधरं कट्यामूरुयुग्मे मधोर्द्विषम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनम्
फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ २६ ॥

मूलम्

मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनम्
फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम्
रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ २७ ॥

मूलम्

पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम्
रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ २७ ॥

विश्वास-प्रस्तुतिः

मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत्
वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् ॥ २८ ॥

मूलम्

मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत्
वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा
सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ २९ ॥

मूलम्

द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा
सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत्
यावन्न व्याहरेत्किञ्चित्तावद्विष्णुमयः स्थितः ॥ ३० ॥

मूलम्

एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत्
यावन्न व्याहरेत्किञ्चित्तावद्विष्णुमयः स्थितः ॥ ३० ॥

विश्वास-प्रस्तुतिः

गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः
मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥ ३१ ॥

मूलम्

गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः
मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते
विषार्त्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् ॥ ३२ ॥

मूलम्

विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते
विषार्त्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

जायते तेन भो विप्र सर्वरोगप्रणाशनम्
ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ॥ ३३ ॥

मूलम्

जायते तेन भो विप्र सर्वरोगप्रणाशनम्
ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ॥ ३३ ॥

विश्वास-प्रस्तुतिः

अरूपबहुरूपाय व्यापिने परमात्मने
वाराहं नारसिंहं च वामनं च सुखप्रदम् ॥ ३४ ॥

मूलम्

अरूपबहुरूपाय व्यापिने परमात्मने
वाराहं नारसिंहं च वामनं च सुखप्रदम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत्
निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥ ३५ ॥

मूलम्

ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत्
निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥ ३५ ॥

विश्वास-प्रस्तुतिः

गोविन्दपद्मनाभाय वासुदेवाय भूभृते
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ३६ ॥

मूलम्

गोविन्दपद्मनाभाय वासुदेवाय भूभृते
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

त्रिविक्रमाय रामाय वैकुण्ठाय नराय च
श्रीवाराहनृसिंहाय वामनाय महात्मने ॥ ३७ ॥

मूलम्

त्रिविक्रमाय रामाय वैकुण्ठाय नराय च
श्रीवाराहनृसिंहाय वामनाय महात्मने ॥ ३७ ॥

विश्वास-प्रस्तुतिः

हयग्रीवाय शुभ्राय हृषीकेश हराशुभम्
परोपतापमहितं प्रमुक्तं चाभिचारिकम् ॥ ३८ ॥

मूलम्

हयग्रीवाय शुभ्राय हृषीकेश हराशुभम्
परोपतापमहितं प्रमुक्तं चाभिचारिकम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

गरस्पर्शमहारोगप्रयोगं जरयाजर
नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ॥ ३९ ॥

मूलम्

गरस्पर्शमहारोगप्रयोगं जरयाजर
नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ॥ ३९ ॥

विश्वास-प्रस्तुतिः

नमः पुष्करनेत्राय केशवायादिचक्रिणे
नमः किञ्जल्कवर्णाग्र्य पीतनिर्मलवाससे ॥ ४० ॥

मूलम्

नमः पुष्करनेत्राय केशवायादिचक्रिणे
नमः किञ्जल्कवर्णाग्र्य पीतनिर्मलवाससे ॥ ४० ॥

विश्वास-प्रस्तुतिः

महादेव वपुष्कन्ध धृतचक्राय चक्रिणे
दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥ ४१ ॥

मूलम्

महादेव वपुष्कन्ध धृतचक्राय चक्रिणे
दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते
तप्तहाटककेशान्त ज्वलत्पावकलोचनः ॥ ४२ ॥

मूलम्

महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते
तप्तहाटककेशान्त ज्वलत्पावकलोचनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते
कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ॥ ४३ ॥

मूलम्

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते
कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तुभ्यं वामनरूपाय क्रमते गां नमोनमः
वाराहाशेषदुःखानि सर्वपापफलानि च ॥ ४४ ॥

मूलम्

तुभ्यं वामनरूपाय क्रमते गां नमोनमः
वाराहाशेषदुःखानि सर्वपापफलानि च ॥ ४४ ॥

विश्वास-प्रस्तुतिः

मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम्
नृसिंहकुलिशस्पर्श दन्तप्रान्त नखोज्वल ॥ ४५ ॥

मूलम्

मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम्
नृसिंहकुलिशस्पर्श दन्तप्रान्त नखोज्वल ॥ ४५ ॥

विश्वास-प्रस्तुतिः

भञ्जभञ्ज निनादेन दुःखान्यस्यार्त्तिनाशन
ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥ ४६ ॥

मूलम्

भञ्जभञ्ज निनादेन दुःखान्यस्यार्त्तिनाशन
ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः
एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ॥ ४७ ॥

मूलम्

प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः
एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम्
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकज्वरम् ॥ ४८ ॥

मूलम्

चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम्
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकज्वरम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

शमं नयतु गोविन्दो भित्वा छित्वास्य वेदनाम्
नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् ॥ ४९ ॥

मूलम्

शमं नयतु गोविन्दो भित्वा छित्वास्य वेदनाम्
नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

अनुच्छ्वासं महाश्वासं परितापं सवेपथुम्
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.॥ ५० ॥

मूलम्

अनुच्छ्वासं महाश्वासं परितापं सवेपथुम्
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.॥ ५० ॥

विश्वास-प्रस्तुतिः

कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान्
ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥ ५१ ॥

मूलम्

कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान्
ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः
विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ॥ ५२ ॥

मूलम्

ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः
विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ॥ ५२ ॥

विश्वास-प्रस्तुतिः

क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ॥ ५३ ॥

मूलम्

क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ ५४ ॥

मूलम्

नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत्
भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ ५५ ॥

मूलम्

दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत्
भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः
ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ॥ ५६ ॥

मूलम्

शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः
ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

मुखमण्डलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम्
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥ ५७ ॥

मूलम्

मुखमण्डलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम्
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥ ५७ ॥

विश्वास-प्रस्तुतिः

बालस्य विष्णोश्चरितं हन्तु बालग्रहानपि
वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥ ५८ ॥

मूलम्

बालस्य विष्णोश्चरितं हन्तु बालग्रहानपि
वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि
दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ ५९ ॥

मूलम्

नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि
दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः
श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ॥ ६० ॥

मूलम्

तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः
श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ॥ ६० ॥

विश्वास-प्रस्तुतिः

ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन
ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ॥ ६१ ॥

मूलम्

ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन
ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः
शस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ॥ ६२ ॥

मूलम्

यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः
शस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः
त्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ॥ ६३ ॥

मूलम्

विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः
त्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सुदर्शनमहातेजश्छिन्धि छिन्धि महाज्वरम्
छिन्धि वातं च लूतां च छिन्धि घोरं महाविषम् ॥ ६४ ॥

मूलम्

सुदर्शनमहातेजश्छिन्धि छिन्धि महाज्वरम्
छिन्धि वातं च लूतां च छिन्धि घोरं महाविषम् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

उद्दण्डामरशूलं च विषज्वालासगर्दभम्
ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ॥ ६५ ॥

मूलम्

उद्दण्डामरशूलं च विषज्वालासगर्दभम्
ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रह
यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥ ६६ ॥

मूलम्

ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रह
यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥ ६६ ॥

विश्वास-प्रस्तुतिः

तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः
किञ्चिद्रूपं समास्थाय वासुदेव नमोस्तु ते ॥ ६७ ॥

मूलम्

तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः
किञ्चिद्रूपं समास्थाय वासुदेव नमोस्तु ते ॥ ६७ ॥

विश्वास-प्रस्तुतिः

क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम्
सर्वदुष्टोपशमनं कुरु देव वराच्युत ॥ ६८ ॥

मूलम्

क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम्
सर्वदुष्टोपशमनं कुरु देव वराच्युत ॥ ६८ ॥

विश्वास-प्रस्तुतिः

सुदर्शनमहाचक्र गोविन्दस्य वरायुध
तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥ ६९ ॥

मूलम्

सुदर्शनमहाचक्र गोविन्दस्य वरायुध
तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥ ६९ ॥

विश्वास-प्रस्तुतिः

सुदर्शनमहाज्वाल छिन्धि छिन्धि महारव
सर्वदुःखानि रक्षांसि पापानि च विभीषण ॥ ७० ॥

मूलम्

सुदर्शनमहाज्वाल छिन्धि छिन्धि महारव
सर्वदुःखानि रक्षांसि पापानि च विभीषण ॥ ७० ॥

विश्वास-प्रस्तुतिः

दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शन
प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ ७१ ॥

मूलम्

दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शन
प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ ७१ ॥

विश्वास-प्रस्तुतिः

रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः
भूम्यान्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥ ७२ ॥

मूलम्

रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः
भूम्यान्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

यथा विष्णुमयं सर्वं सदेवासुरमानुषम्
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥ ७३ ॥

मूलम्

यथा विष्णुमयं सर्वं सदेवासुरमानुषम्
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥ ७३ ॥

विश्वास-प्रस्तुतिः

यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥ ७४ ॥

मूलम्

यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ॥ ७४ ॥

विश्वास-प्रस्तुतिः

परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते
तेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ॥ ७५ ॥

मूलम्

परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते
तेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम्
वासुदेवशरीरोत्थैः कुशैः सम्मार्जितं मया ॥ ७६ ॥

मूलम्

शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम्
वासुदेवशरीरोत्थैः कुशैः सम्मार्जितं मया ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अपामार्जितगोविन्द नमो नारायणस्तथा
तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ॥ ७७ ॥

मूलम्

अपामार्जितगोविन्द नमो नारायणस्तथा
तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च
भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ॥ ७८ ॥

मूलम्

शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च
भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ॥ ७८ ॥

विश्वास-प्रस्तुतिः

एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चाग्रतः
हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ॥ ७९ ॥

मूलम्

एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चाग्रतः
हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

शान्तिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत्
यदस्य दुरितं किञ्चित्क्षिप्तं तल्लवणाम्भसि ॥ ८० ॥

मूलम्

शान्तिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत्
यदस्य दुरितं किञ्चित्क्षिप्तं तल्लवणाम्भसि ॥ ८० ॥

विश्वास-प्रस्तुतिः

स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्
यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ॥ ८१ ॥

मूलम्

स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात्
यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ॥ ८१ ॥

विश्वास-प्रस्तुतिः

एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः
विष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ॥ ८२ ॥

मूलम्

एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः
विष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

अनेन सर्वदुःखानि विलयं यान्त्यशेषतः
सर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ॥ ८३ ॥

मूलम्

अनेन सर्वदुःखानि विलयं यान्त्यशेषतः
सर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत्
तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ ८४ ॥

मूलम्

आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत्
तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा
ग्रहभूतपिशाचादि श्रवणादेव नश्यतु ॥ ८५ ॥

मूलम्

नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा
ग्रहभूतपिशाचादि श्रवणादेव नश्यतु ॥ ८५ ॥

विश्वास-प्रस्तुतिः

द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचन
कृतेपामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया ॥ ८६ ॥

मूलम्

द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचन
कृतेपामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया ॥ ८६ ॥

विश्वास-प्रस्तुतिः

निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः
विष्णुभक्तैः सदा शान्तैरन्यथा सिद्धिदं भवेत् ॥ ८७ ॥

मूलम्

निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः
विष्णुभक्तैः सदा शान्तैरन्यथा सिद्धिदं भवेत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम्
भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ ८८ ॥

मूलम्

अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम्
भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै
एतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ॥ ८९ ॥

मूलम्

उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै
एतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सर्वभूतहितार्थाय दालभ्येन प्रकाशितम्
त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ ९० ॥

मूलम्

सर्वभूतहितार्थाय दालभ्येन प्रकाशितम्
त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

तवाग्रे कथितं देवि यतो भक्तासि मे सदा
श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥ ९१ ॥

मूलम्

तवाग्रे कथितं देवि यतो भक्तासि मे सदा
श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥ ९१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे अपामार्जनस्तोत्रन्नाम अष्टसप्ततितमोऽध्यायः ७८