०७७

महादेव उवाच-

विश्वास-प्रस्तुतिः

पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम्
पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् ॥ १ ॥

मूलम्

तवाग्रे सम्प्रवक्ष्यामि शृणु सुन्दरि साम्प्रतम्
इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम् ॥ २ ॥

रजस्वला तु या नारी सहसा पापरूपिणी
कृतेन च व्रतेनैव महापापैः प्रमुच्यते
पितॄणामक्षयं देयं धर्मकामार्थसाधनम् ॥ ३ ॥

श्रीविष्णुरुवाच-
पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः
सदाध्ययनशीलस्तु देवशर्मा इति द्विजः ॥ ४ ॥

अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा
सर्ववर्णेषु सम्पूज्यः सपुत्रपशुबान्धवः ॥ ५ ॥

तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी
प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पञ्चमी ॥ ६ ॥

पितुःक्षयाहं कुरुते यतात्मा च जितेन्द्रियः
रात्रौ निमन्त्रयेद्विप्रान्सुखसौभाग्यदायकान् ॥ ७ ॥

प्रभाते विमले प्राप्ते भाण्डान्यन्यानि कारयेत्
पाकं सर्वेषु पात्रेषु स कारयति जायया ॥ ८ ॥

अष्टादशरसोपेतं पितॄणां प्रीतिदायकम्
आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक् ॥ ९ ॥

सर्वे विप्रास्तु सम्प्राप्ता मध्याह्ने वेदपाठकाः
अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः ॥ १० ॥

रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा
गृहमध्ये गताः सर्वे आसने ते निरूपिताः ॥ ११ ॥

प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः
विधिना च कृतं श्राद्धं पिण्डदानप्रपूर्वकम् ॥ १२ ॥

ताम्बूलं दक्षिणां चैव वस्त्राणि विविधानि च
सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः ॥ १३ ॥

विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः
गोत्रिणां बान्धवानां च अन्येषां च बुभुक्षताम् ॥ १४ ॥

दत्तमन्नं तदा तेन भोजने विधिपूर्वकम्
निशायां तु कुटीद्वारे उपविष्टो यदा तदा ॥ १५ ॥

ब्राह्मण्या वारि सङ्गृह्य पादप्रक्षालनं कृतम्
तदा शुनी बलीवर्दौ परस्परमभाषताम् ॥ १६ ॥

शृणु कान्त वचो मह्यं यादृक्कृतवती वधूः
तादृशं सम्प्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम् ॥ १७ ॥

कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि
तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः ॥ १८ ॥

पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः
पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः ॥ १९ ॥

तेन सम्पर्कदोषेणकटिर्भग्ना च मे सदा
तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी
भग्ना कटिश्च सञ्जाता ह्याहारो नैव रोचते ॥ २० ॥

बलीवर्द्द उवाच-
शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम्
अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम् ॥ २१ ॥

कारितं मम पुत्रेण मम चिन्ता तु नो कृता
नोदकं न तृणं चैव न दत्तं केनचित्क्वचित् ॥ २२ ॥

अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः
पूर्वपापविशेषेण जातं शुनि न संशयः ॥ २३ ॥

तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता
ममायं तु पिता साक्षाज्जातो मम गृहे पशुः ॥ २४ ॥

इयं तु जननी साक्षान्मम चैव न संशयः
दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम् ॥ २५ ॥

एवं विचार्यासौ विप्रो नैव निद्रामवाप सः
रात्रौ चिन्तापरो भूत्वा स्मरन्विश्वेश्वरं परम् ॥ २६ ॥

नानाधर्मपरोऽहं च ममैवं च कथं शुभम्
विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः ॥ २७ ॥

प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः
तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् ॥ २८ ॥

ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम्
इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा ॥ २९ ॥

अद्य मे सफलं जन्म अद्य मे सफला क्रिया
अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात् ॥ ३० ॥

यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः
कुटुम्बिनां तु सर्वेषां भोजनं कारितं तथा ॥ ३१ ॥

भोजनानन्तरं प्राप्ता शुनी तत्र उवाच ह
अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते ॥ ३२ ॥

तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत्
गृहेस्थितं दुग्धभाण्डमहिना दूषितं मया ॥ ३३ ॥

दृष्टं मे महती चिन्ता तदा जाता न संशयः
अनेन पयसा चैव पक्वमन्नं यदा भवेत् ॥ ३४ ॥

तदात्र सर्वे विप्राश्च म्रियन्ते भोजनात्ततः
एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया ॥ ३५ ॥

तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम्
चरामि तेन सम्भग्ना किं करोमि सुदुःखिता ॥ ३६ ॥

तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति
शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ॥ ३७ ॥

अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि
अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः ॥ ३८ ॥

न तृणं नोदकं चैव ममाग्रे सन्निवेदितम्
तेन दुःखेन मे दुःखं जातं बहुतरं तदा ॥ ३९ ॥

एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न
मम चिन्ता तु तत्रैव जाता वै ऋषिसत्तम ॥ ४० ॥

वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि
अनयोश्च महद्दुःखं किं करोमीति चिन्तयन्
आगतस्त्वत्समीपे तु ममकष्टं निवारय ॥ ४१ ॥

ऋषिरुवाच-
उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम्
अयं वै तु द्विजश्रेष्ठो कुण्डने नगरे शुभे ॥ ४२ ॥

मासे भाद्रपदे चैव पञ्चमी या समागता
तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात् ॥ ४३ ॥

स्त्रीधर्मेण तु सम्प्राप्ता क्षयहेतु तदानघ
तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् ॥ ४४ ॥

न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी ॥ ४५ ॥

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति
तेन पापेन सा जाता शुनी स्वगृहचारिणी
बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत ॥ ४६ ॥

उग्रजन्मोवाच-
व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत
ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ॥ ४७ ॥

मासे भाद्रपदे शुक्ले जायते ऋषिपञ्चमी
रजसा विकृतं पापं नश्यते करणाद्यतः ॥ ४८ ॥

पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी
नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा ॥ ४९ ॥

गोमयं मण्डलं कुर्यात्कुम्भं तत्रैव विन्यसेत्
तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम् 6.77.॥ ५० ॥

यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा
स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः ॥ ५१ ॥

आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः
नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ॥ ५२ ॥

एकभक्तेन कर्तव्यमृषीणामर्चनं तदा
पूजयेत्परया भक्त्या मन्त्रेण विधिपूर्वकम् ॥ ५३ ॥

निर्वापं सघृतं देयं दक्षिणासंयुतं तदा
देयं विप्राय विधिवदृषीणां प्रीयतां प्रति ॥ ५४ ॥

कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम्
धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक् ॥ ५५ ॥

ऋषयः सन्तु मे नित्यं व्रतसम्पूर्णकारिणः
पूजां गृह्णन्तु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः ॥ ५६ ॥

पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा
वसिष्ठमरिचात्रेया अर्घं गृह्णन्तु वो नमः ॥ ५७ ॥

एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः
पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः ॥ ५८ ॥

पूर्वकर्मविपाकेन रजसा दोषभावतः
कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः ॥ ५९ ॥

तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे
ते गता मुक्तिमार्गेण आशीर्वादपरायणाः ॥ ६० ॥

ऋषिपञ्चमीव्रतं पुण्यं विप्राय परिकीर्तितम्
ये कुर्वन्ति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः ॥ ६१ ॥

ये कुर्वन्ति नरश्रेष्ठ ऋषिव्रतमनुत्तमम्
भुक्त्वात्र भोगान्विपुलान्यान्ति विष्णोः पदं तु ते ॥ ६२ ॥

इतिश्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारद
संवादे ऋषिपञ्चमीव्रतन्नाम सप्तसप्ततितमोऽध्यायः ७७