०७६

महादेव उवाच-

विश्वास-प्रस्तुतिः

शृणु सुन्दरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः
यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः ॥ १ ॥

मूलम्

धाता वै नारदं प्राह तदहं तु ब्रवीमि ते
तमुवाच ततो देवः स्वयम्भूरमितद्युतिः ॥ २ ॥

प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम्
भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः ॥ ३ ॥

शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः
अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः ॥ ४ ॥

एकशृङ्गो वराहस्त्वं भूतभव्यभवात्मकः
अक्षरं ब्रह्म सत्यं तु आदौ चान्ते च राघवः ॥ ५ ॥

लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः
सेनानी रक्षणस्त्वं च वैकुण्ठस्त्वं जगत्प्रभुः ॥ ६ ॥

प्रभवश्चाव्ययस्त्वं च उपेन्द्रो मधुसूदनः
पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणान्तकृत् ॥ ७ ॥

शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः
ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः ॥ ८ ॥

त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः
शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥ ९ ॥

त्रयाणामपि लोकानां आदिकर्ता स्वयम्प्रभुः
रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ॥ १० ॥

आश्विनौ चापि कर्णौ ते सूर्यचन्द्रौ च चक्षुषी
अन्ते चादौ च मध्ये च दृश्यसे त्वं परन्तपः ॥ ११ ॥

प्रभवो निधनं चास्य न विदुः को भवानिति
दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च ॥ १२ ॥

दिक्षु सर्वासु गगने पर्वतेषु गुहासु च
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् ॥ १३ ॥

त्वं धारयसि भूतानि वसुधां च सपर्वताम्
अन्तःपृथिव्यां सलिले सर्वसत्वमहोरगः ॥ १४ ॥

त्रींल्लोकान्धारयन्नास्ते देवगन्धर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती ॥ १५ ॥

देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया
निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा ॥ १६ ॥

संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया
जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम् ॥ १७ ॥

अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः
त्वया लोकास्त्रयः क्रान्ताः पुराणैर्विक्रमैस्त्रिभिः ॥ १८ ॥

त्वयेन्द्रश्च कृतो राजा बलिर्बद्धो महासुरः
लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम् ॥ १९ ॥

करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा
त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम् ॥ २० ॥

भयदः सर्वभूतानां हिरण्यकशिपुर्हतः
त्वमश्ववदनो भूत्वा पातालतलमाश्रितः ॥ २१ ॥

संहृतं परमं हव्यं रहस्यं वै पुनः पुनः
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः ॥ २२ ॥

यत्परं परतश्चै वपरमात्मेति कथ्यते
परो मन्त्रः परं तेजस्तमेव हि निगद्यसे ॥ २३ ॥

हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः
स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम् ॥ २४ ॥

यज्ञश्च यजमानश्च होता चाध्वर्युरेव च
भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे ॥ २५ ॥

सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः
वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ॥ २६ ॥

तदिदं च त्वया कार्यं कृतं धर्मभृतां वर
निहतो रावणो राम प्रहृष्टा देवताः कृताः ॥ २७ ॥

अमोघं देववीर्यं ते न ते मोघः पराक्रमः
अमोघदर्शनं राम न च मोघस्तव स्तवः ॥ २८ ॥

मूलम्

अमोघं देववीर्यं ते न ते मोघः पराक्रमः
अमोघदर्शनं राम न च मोघस्तव स्तवः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि
ये च त्वां देव सम्भक्ताःपुराणं पुरुषोत्तमम् ॥ २९ ॥

इममार्षस्तवं पुण्यमितिहासं पुरातनम्
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३० ॥

कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः
नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः ॥ ३१ ॥

स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः
त्रिकाले यः पठेन्नित्यं महापातकवानपि ॥ ३२ ॥

सन्ध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः
पठनीयं प्रयत्नेन भक्तिभावेन चेतसा ॥ ३३ ॥

इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित्
पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम् ॥ ३४ ॥

प्रथमं पिण्डपूजान्ते ब्राह्मणैर्द्विजसत्तमैः
पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात् ॥ ३५ ॥

इदं पवित्रं परमं जनानां मुक्तिदायकम्
लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना ॥ ३६ ॥

आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने
लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन ॥ ३७ ॥

विमुक्ताः पूर्वजास्तस्य यान्ति विष्णोः परं पदम्
चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम् ॥ ३८ ॥

समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन्
धृत्वा वै शङ्खचक्रादि ब्राह्मणैर्वेदतत्परैः ॥ ३९ ॥

श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम्
कण्ठे पद्माक्षमालां च शङ्खचक्रादिधारणम् ॥ ४० ॥

ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन्
विधिना भक्तिभावेन पूर्णं भवति नान्यथा ॥ ४१ ॥

अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः
पठनात्सर्वमाप्नोति स नरः सुखमेधते ॥ ४२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः ७६