०७५

महादेव उवाच-

विश्वास-प्रस्तुतिः

गण्डिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः
यथा गङ्गा तथा सा च कथिता नगनन्दिनि ॥ १ ॥

मूलम्

शालग्रामशिला यत्र जायते बहुधा तथा
माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः ॥ २ ॥

अण्डजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः
यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति ॥ ३ ॥

उत्तरे सा तु सम्भूता गण्डिका तु महानदी
संस्मृता संस्मृता नूनं पापं हन्त्यगनन्दिनि ॥ ४ ॥

यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः
शङ्खचक्रधरास्तस्य समीपे निवसन्ति ये ॥ ५ ॥

ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः
ऋषयस्तत्र तिष्ठन्ति देवाश्चैवं विशेषतः ॥ ६ ॥

रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा
तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक् ॥ ७ ॥

स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा
चतुर्विंशतिभूतानां जातयः सन्ति तत्र वै ॥ ८ ॥

एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा
अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसञ्ज्ञके ॥ ९ ॥

कल्किनाम्नी तथा पुण्या कपिला या मयोदिता
अन्यास्तु विविधाकारा दृश्यन्ते बहुधा अपि ॥ १० ॥

तिष्ठन्ति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः
सा गङ्गा महती पुण्या धर्मकामार्थमुक्तिदा ॥ ११ ॥

यस्यां भूमौ हृषीकेशो नियमेन समन्वितः
वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः ॥ १२ ॥

भ्रूणहत्या बालहत्या गोहत्या च विशेषतः
यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात् ॥ १३ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः
सर्वे ते वै विमुच्यन्ते दर्शनाद्गण्डिकाम्बुनः ॥ १४ ॥

इयं वेणी समा पुण्या पापिनां तु विशेषतः
मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा ॥ १५ ॥

सर्वदा सर्वकाले तु अहं गच्छामि पार्वति
तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल ॥ १६ ॥

तत्र स्नानं च दानं च मुनिभिः परिकल्पितम्
आषाढे पुण्यकाले तु तत्र गच्छामि सुन्दरि ॥ १७ ॥

मासैकविधिना चैव स्नानं तत्र करोम्यहम्
तारकं तत्र विशदं जपामि तु निरन्तरम् ॥ १८ ॥

अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतोगतः
विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरम् ॥ १९ ॥

वैष्णवानां च गतिदं पावनं परमं स्मृतम्
भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा ॥ २० ॥

दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम्
अतो ह्याषाढमासे तु गन्तव्यं द्विजसत्तमैः ॥ २१ ॥

तत्र गत्वा विशेषेण शङ्खचक्रादिधारणम्
कर्त्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम् ॥ २२ ॥

शङ्खतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितम्
द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः ॥ २३ ॥

ब्राह्मणैश्च विशेषेण शङ्खचक्रादिधारणं
धृते सति महादेवि वैष्णवास्ते हि मानवाः ॥ २४ ॥

न गण्डिका समं तीर्थं न व्रतं द्वादशीसमम्
न देवः केशवादन्यो भूयोभूयो वरानने ॥ २५ ॥

गण्डिकायास्तु माहात्म्यं ये शृण्वन्ति नरोत्तमाः
इहलोके सुखं भुक्त्वा विष्णुलोके हि यान्ति ते ॥ २६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे गण्डिकातीर्थमाहात्म्यन्नाम पञ्चसप्ततितमोऽध्यायः ७५