महादेव उवाच-
विश्वास-प्रस्तुतिः
शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम्
यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित् ॥ १ ॥
मूलम्

धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत्
तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः ॥ २ ॥

तपसा चैव दानेन व्रतेन नियमेन च
तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च ॥ ३ ॥

इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः
जन्मान्तरेण मुक्तिः स्यात्पदं विन्दति वैष्णवम् ॥ ४ ॥

तपसा राजसेनेह राजसश्चैव जायते
तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः ॥ ५ ॥

तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम्
यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम् ॥ ६ ॥

रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने
तपस्विनां चैव धनादिवाञ्च्छतां वनेऽपि दोषाः प्रभवन्ति रागिणाम् ॥ ७ ॥

गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते
निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः ॥ ८ ॥

सुदुस्तरः सत्वजितेन्द्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः
गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे ॥ ९ ॥

तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः
भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य ॥ १० ॥

गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः
इहैव भुञ्जन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र
गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि ॥ ११ ॥

गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम्
अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः ॥ १२ ॥

देवानां पूजनं यत्र अतिथीनां च भोजनम्
पथिकानां च शरणं अतो धन्यतमो मतः ॥ १३ ॥
मूलम्
देवानां पूजनं यत्र अतिथीनां च भोजनम्
पथिकानां च शरणं अतो धन्यतमो मतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
तद्गृहं तु समाश्रित्य येऽर्चयन्ति द्विजान्नराः
आयुर्लक्ष्मीस्तथा पुत्रा न हीयन्ते कदाचन ॥ १४ ॥

शृणु सुन्दरि वक्ष्यामि महापापविशोधनम्
सर्वसम्पत्करं दानं इहामुत्रफलप्रदम् ॥ १५ ॥

शुभेकाले समायाते समभ्यर्च्य स्वदैवतम्
नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः ॥ १६ ॥

गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि
दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम् ॥ १७ ॥

शतानीको यथा दानात्सपुत्रश्चैव तारितः
दत्त्वान्ये च द्विजेभ्यश्च स गन्ता धर्मतो दिवम् ॥ १८ ॥

धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम्
शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः ॥ १९ ॥

देहशुद्धिकरं दानं न भूतं न भविष्यति
पापहीनो येन पुमान्जायते नात्र संशयः ॥ २० ॥

भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम्
पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने ॥ २१ ॥

पापयुक्ताय रामाय तुलावृषभमेव च
पापकर्मरतश्चैव भवबन्धक्रियो नृपः ॥ २२ ॥
मूलम्
पापयुक्ताय रामाय तुलावृषभमेव च
पापकर्मरतश्चैव भवबन्धक्रियो नृपः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः
एतेप्यनृतवादी च प्रसूयन्ते वियोनिषु ॥ २३ ॥

अयाज्ययाजनं कृत्वा याचयित्वा तु निन्दितान्
सदा कोपसमायुक्ताः साधूनां पीडने रताः ॥ २४ ॥

विश्वासोपहताश्चैषामसुभिर्धर्मनिन्दकाः
पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम् ॥ २५ ॥

इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः
बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः ॥ २६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः ७४