महादेव उवाच-
विश्वास-प्रस्तुतिः
ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः
श्रीरामो देवता अनुष्टुप्छन्दः
विष्णुप्रीत्यर्थे जपे विनियोगः ॥ १ ॥
मूलम्

अतसीपुष्पसङ्काशं पीतवाससमच्युतम्
ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययम् ॥ २ ॥

पातु वो हृदयं रामः श्रीकण्ठः कण्ठमेव च
नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ॥ ३ ॥

करौ पातु दाशरथिः पादौ मे विश्वरूपधृक्
चक्षुषी पातु वै देव सीतापतिरनुत्तमः ॥ ४ ॥

शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः
पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः ॥ ५ ॥

अनन्तः सर्वदा पातु शरीरं विश्वनायकः
जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः ॥ ६ ॥

राघवः पातु मे दन्तान्केशान्रक्षतु केशवः
सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक् ॥ ७ ॥

एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत्
स चिरायुः सुखी विद्वान्लभते दिव्यसम्पदम् ॥ ८ ॥

रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी
रामेति रामभद्रेति रामचन्द्रेति यः स्मरेत् ॥ ९ ॥

विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम्
वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे ॥ १० ॥

ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति
नारदेन तु भूर्लोके प्रापितं सुजनेष्विह ॥ ११ ॥

सुप्त्वावाथ गृहे वापि मार्गे गच्छन्त एव वा
ये पठन्ति नरश्रेष्ठास्ते नराः पुण्यभागिनः ॥ १२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे रामक्षास्तोत्रन्नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥

चतुःसप्ततितमोऽध्यायः