श्रीमहादेव उवाच-
विश्वास-प्रस्तुतिः
ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके
शूद्रा वाथ विशेषेण पठन्त्यनुदिनं यदि ॥ १ ॥
मूलम्

धनधान्यसमायुक्ता यान्ति विष्णोः परं पदम्
श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा ॥ २ ॥

पठनान्मोक्षमाप्नोति यावदाभूतसम्प्लवम्
विन्यासेन युतं देवि विष्णोर्नामसहस्रकम् ॥ ३ ॥

ये पठन्ति नरश्रेष्ठास्ते यान्ति पदमव्ययम्
एककालं द्विकालं वा त्रिकालं वाथ यः पठेत् ॥ ४ ॥

धनायुर्वर्धते तस्य यावदिन्द्राश्चतुर्दश
पुत्रान्पौत्रांस्तथालक्ष्मी सम्पदं विपुलां लभेत् ॥ ५ ॥

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने
विष्णोर्नामसहस्रं तु परं निर्वाणदायकम् ॥ ६ ॥

पूजनं प्रथमं तस्य कृतं येन नरेण तु
सम्पूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी ॥ ७ ॥

व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः
यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति ॥ ८ ॥

यावन्ति भुवि तीर्थानि जम्बुद्वीपेषु सर्वदा
तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम् ॥ ९ ॥

तत्रैव गङ्गा यमुना च वेणी गोदावरी तत्र सरस्वती च
सर्वाणि तीर्थानि वसन्ति तत्र यत्र स्थितं नामसहस्रकं तत् ॥ १० ॥

इदं पवित्रं परमं भक्तानां वल्लभं सदा
ध्येयं हि दासभावेन भक्तिभावेन चेतसा ॥ ११ ॥

परं सहस्रनामाख्यं ये पठन्ति मनीषिणः
सर्वपापविनिर्मुक्तास्ते यान्ति हरिसन्निधौ ॥ १२ ॥

अरुणोदयकाले तु ये पठन्ति जपन्ति च
आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने ॥ १३ ॥

रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः
पठनान्मुक्तिमाप्नोति यावदिन्द्राश्चतुर्दश ॥ १४ ॥

एकैकेन तु नाम्ना वै हरौ तुलसिकारणात्
पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका ॥ १५ ॥

मार्गे च गच्छमानास्तु ये पठन्ति द्विजातयः
न दोषा मार्गजास्तेषां भवन्ति किल पार्वति ॥ १६ ॥

शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु
ये शृण्वन्ति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः ॥ १७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः ७२