नारद उवाच-
विश्वास-प्रस्तुतिः
देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक
कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति ॥ १ ॥
मूलम्

महेश उवाच-
शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम्
येन चीर्णेन नरको मानवानां न जायते ॥ २ ॥

आयुरारोग्यमतुलं सौभाग्यं सुखसम्पदम्
सन्तानं चाक्षयं प्राप्य स्वर्गलोके महीयते ॥ ३ ॥

आषाढमासि सम्प्राप्ते नदीपूरेण संयुता
सततं तोयसंस्थाने पुराणे सा च विश्रुता ॥ ४ ॥

वर्षर्तौ घनसम्पूर्णे कर्तव्या सा व्रतेन वा
तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा ॥ ५ ॥

व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः
कृतं प्रतिपदा छन्दः दर्शनं तु दिनत्रयम् ॥ ६ ॥

यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु
अथवा तज्जलं कुम्भे कृष्णे कृत्वा गृहं नयेत् ॥ ७ ॥

प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः
त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज ॥ ८ ॥

अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम्
दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम् ॥ ९ ॥

महानदीं समुच्चार्य नाम्ना च वरुणं तथा
जलमूले तु संस्थाप्य केशवं जलशायिनम् ॥ १० ॥

नमो देव्यै च गङ्गेति गौतमीति नदीति च
सिन्धो चैव च कावेरि सरस्वति नमोऽस्तु ते ॥ ११ ॥

तापी पयोष्णी पूर्णेति महेन्द्रसुखदेति च
काश्यपी गण्डकी चैव सिन्धुनद्यै नमोनमः ॥ १२ ॥

वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय
यादोनाथ रसेशान कल्याणं देहि मे सदा ॥ १३ ॥

गृहाणार्घं मया दत्तं देहि मे वाञ्छितं फलम्
कूष्माण्डैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः ॥ १४ ॥

नैवेद्यं घृतपक्वं तु सरितः सम्प्रकल्पयेत्
नमस्ते केशवानन्त जलशायिन्नमोऽस्तु ते ॥ १५ ॥

परिपालय मामीश गोविन्दवरदो भव
एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु ॥ १६ ॥

प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः
पारणेन तु सम्पूज्य जलपात्रं समाचरेत् ॥ १७ ॥

फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि
गीतवादित्रसहितैर्नदी कुम्भ परिप्लुतैः ॥ १८ ॥

जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत्
धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि ॥ १९ ॥

हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः
सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत् ॥ २० ॥

सप्त वा पञ्च वा त्रीणि यथाशक्त्या प्रपूरयेत्
त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन् ॥ २१ ॥

पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत्
कृते स्नानार्चने चैव नोपयोज्यं नदीजलम् ॥ २२ ॥

शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा
सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा ॥ २३ ॥

हविष्यान्नं च भुञ्जीत कट्वम्लमधुवर्जितम्
माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत् ॥ २४ ॥

एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम
वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत् ॥ २५ ॥

कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद
दम्पती परिदाप्यैवं सुवर्णं चापि शक्तितः ॥ २६ ॥

हैमं च वरुणं कुर्यान्नदीरूपेण नारद
मण्डलं वारुणं चैव सर्वतोभद्रमेव च ॥ २७ ॥

कुम्भं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम्
सम्पूज्य विधिवद्भक्त्या ततो विप्राय दापयेत् ॥ २८ ॥

ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः
गुरवेर्चितशीलाय सर्वशास्त्ररताय च ॥ २९ ॥

एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत्
सौभाग्यसुखसम्पत्तिः सन्ततिश्चाक्षया भवेत् ॥ ३० ॥

न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते
देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च ॥ ३१ ॥

नागसिद्धाङ्गनाभिश्च व्रतमेतत्पुरा कृतम्
नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि
सौभाग्यं सन्ततिं चैव निश्चयं प्राप्नुते सदा ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः ७०