०६९

नारद उवाच-

विश्वास-प्रस्तुतिः

उपवासासमर्थानां सदैवामरसत्तम
एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ १ ॥

मूलम्

शिव उवाच-
मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता
सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला ॥ २ ॥

सङ्गमे सरितः स्नात्वा द्वादशीं तामुपोषितः
अयत्नात्समवाप्नोति द्वादश द्वादशीफलम् ॥ ३ ॥

बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत्
अतीव महती तस्यां कृतं सर्वमथाक्षयम् ॥ ४ ॥

द्वादशी श्रवणोपेता यदा भवति नारद
सङ्गमे सरितां स्नात्वा लभेद्गोदानजं फलम् ॥ ५ ॥

जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः
तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम् ॥ ६ ॥

ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम्
सोदकांश्च नवान्कुम्भान्दद्याच्छक्त्या विचक्षणः ॥ ७ ॥

एवं सम्पूज्य गोविन्दं जागरं तत्र कारयेत्
प्रभाते विमले स्नात्वा सम्पूज्य गरुडध्वजम् ॥ ८ ॥

पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैः
पुष्पाञ्जलिं ततो दद्यान्मन्त्रमेनमुदीरयेत् ॥ ९ ॥

नमो नमस्ते गोविन्द बुधश्रवणसंयुत
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ १० ॥

अन्नं तु ब्राह्मणे पूतं वेदवेदाङ्गपारगे
पुराणज्ञे विशेषेण विधिवत्सम्प्रदापयेत् ॥ ११ ॥

अनेन विधिना चैव नद्यास्तीरे नरोत्तमः
सर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन् ॥ १२ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत् ॥ १३ ॥

यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यते
देशो दासरको नाम तस्य भागे च पश्चिमे ॥ १४ ॥

तत्र विद्वन्मरुर्देशः सर्वसत्वभयङ्करः
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः ॥ १५ ॥

अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला
शमीखदिरपालाशकरीरैः पीलुभिः सह ॥ १६ ॥

मूलम्

अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला
शमीखदिरपालाशकरीरैः पीलुभिः सह ॥ १६ ॥

विश्वास-प्रस्तुतिः

तत्र भीमा द्रुमगणाः कण्टकैरचिता दृढैः
जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित् ॥ १७ ॥

तथापि जीवा जीवन्ति सर्वे कर्मनिबन्धनात्
नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः ॥ १८ ॥

पक्षान्तरगतैः कैश्चिच्छिशुभिस्तृषितैः समम्
उत्क्रान्तजीविनो विप्र दृश्यन्ते नु खगोत्तमाः ॥ १९ ॥

तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक्
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजाङ्गले ॥ २० ॥

बभ्रामोद्भ्रान्तहृदयः क्षुत्तृट्भ्यां श्रमपीडितः
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह ॥ २१ ॥

अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेन्द्रियान्
उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान् ॥ २२ ॥

प्रेतस्कन्धसमारूढमेकं विकृतदर्शनम्
ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ २३ ॥

अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम्
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम् ॥ २४ ॥

प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत्
प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत् ॥ २५ ॥

अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम्
तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने ॥ २६ ॥

प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च
तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा ॥ २७ ॥

प्राणान्तिकमनुप्राप्तं वचनं भ्रमतीव मे
अत्रोपायं न पश्यामि जीवेयं येन केनचित् ॥ २८ ॥

इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत्
फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम् ॥ २९ ॥

कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम्
एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः ॥ ३० ॥

मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः
फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम् ॥ ३१ ॥

दध्योदनसमायुक्तां वर्द्धमानेन संयुताम्
अवतीर्य ततः स्वन्नं प्रादादतिथये तदा ॥ ३२ ॥

स तत्राशनमात्रेण परं तृप्तित्वमागतः
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत ॥ ३३ ॥

ततश्च प्रेताः सम्प्राप्ताः सोऽस्माद्भागं क्रमाद्ददौ
दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः ॥ ३४ ॥

अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम् ॥ ३५ ॥

तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ
प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत् ॥ ३६ ॥

आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे
अन्नं पानं च परमं सम्प्राप्तं च कुतस्तव ॥ ३७ ॥

स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपि
अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः ॥ ३८ ॥

कथमस्यां सुघोरायामटव्यां च कृतालयाः
तदेतत्संशयं छिन्धि परं कौतूहलं मम ॥ ३९ ॥

एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत्
वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ ॥ ४० ॥

सकले नगरे नास्ति ममान्यो हि दुरात्मकः
धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा ॥ ४१ ॥

सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्मम
श्रावणद्वादशीयोगे मासि भाद्रपदे ततः ॥ ४२ ॥

स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौ
तस्याश्च सङ्गमः पुण्यो यत्रासीच्चन्द्रभागया ॥ ४३ ॥

चन्द्रभागा चन्द्रसुता तापी चैवार्कनन्दिनी
तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः ॥ ४४ ॥

श्रवणद्वादशीयोगे नराश्च समुपोषिताः
चन्द्रभागा सुतो येन वारिधानीं ददुर्द्विजे ॥ ४५ ॥

दध्योदनयुतां सार्द्धं सम्पूर्णैर्वर्द्धमानकैः
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः ॥ ४६ ॥

प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते
वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया ॥ ४७ ॥

सोपवासेन दत्तैका वारिधानी मनोरमा
तत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित् ॥ ४८ ॥

पञ्चत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतः
अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा ॥ ४९ ॥

श्रवणद्वादशीयोगे वारिधान्यर्पिता मया
सेयं मध्याह्नसमये लभ्यते च दिनेदिने 6.69.॥ ५० ॥

ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः
परदारगताः केचित्स्वामिद्रोहरताश्च ये ॥ ५१ ॥

भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः
देशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः ॥ ५२ ॥

अक्षयो भगवान्विष्णुः परमात्मा सनातनः
दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम् ॥ ५३ ॥

अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः
प्रेतत्वभावं दौर्बल्यं न विमुञ्चति कर्हिचित् ॥ ५४ ॥

पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम्
प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ॥ ५५ ॥

मया विहीनाः किन्त्वेते वनेऽस्मिन्भृशदारुणे
पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम् ॥ ५६ ॥

एतेषां तु महाभाग ममानुग्रहकाम्यया
प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च ॥ ५७ ॥

अस्ति कक्षागता चैव तव सम्पुटिका शुभा
हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम् ॥ ५८ ॥

गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम् ॥ ५९ ॥

विसर्जयामास तदा स वै प्रायात्समुत्सुकः
समासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम् ॥ ६० ॥

ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः
षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात् ॥ ६१ ॥

तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः
प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः ॥ ६२ ॥

प्रत्येकं नामगोत्राणि गृहीत्वा पिण्डमुत्सृजत्
यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक् ॥ ६३ ॥

स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम्
ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ ॥ ६४ ॥

प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम्
एवं कृत्वा विधानेन गयाशीर्षं महामनाः ॥ ६५ ॥

पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः
मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः ॥ ६६ ॥

श्रवणद्वादशीयोगे सङ्गमे सरितां पुनः
जगाम स महाबुद्धिः सर्वोपस्करसंयुतः ॥ ६७ ॥

सङ्गमे सरितां स्नात्वा द्वादशीं तामुपोषितः
तत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम् ॥ ६८ ॥

अनन्तरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ
शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः ॥ ६९ ॥

निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै
वर्षेवर्षे तु सम्प्राप्ते मासि भाद्रपदे तथा ॥ ७० ॥

मूलम्

निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै
वर्षेवर्षे तु सम्प्राप्ते मासि भाद्रपदे तथा ॥ ७० ॥

विश्वास-प्रस्तुतिः

श्रवणद्वादशीयोगे सङ्गमे सरितां पुनः
एवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम् ॥ ७१ ॥

कालेन चातिमहता पञ्चत्वं समुपागतः
अवाप परमं स्थानं दुर्लभं सर्वमानवैः ॥ ७२ ॥

क्रीडतेऽद्यापि वैकुण्ठे विष्णुदूतैः स सेवितः
एवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम् ॥ ७३ ॥

सर्वसौभाग्यदं चैव इह लोके परत्र च
सुबुद्धिजननं चैव सर्वपापहरं परम् ॥ ७४ ॥

मूलम्

सर्वसौभाग्यदं चैव इह लोके परत्र च
सुबुद्धिजननं चैव सर्वपापहरं परम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम्
व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति ॥ ७५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे श्रवणद्वादशीव्रतनामैकोनसप्ततितमोऽध्यायः ६९