महेश्वर उवाच-
विश्वास-प्रस्तुतिः
शृणु नारद वक्ष्यामि वैष्णवानां च लक्षणम् ॥ १ ॥
मूलम्

यच्छ्रुत्वा मुच्यते लोको ब्रहत्यादिपातकात्
तेषां वै लक्षणं यादृक्स्वरूपं यादृशं भवेत् ॥ २ ॥

तादृशं मुनिशार्दूल शृणु त्वं वच्मि साम्प्रतम्
विष्णोरयं यतो ह्यासीत्तस्माद्वैष्णव उच्यते ॥ ३ ॥

सर्वेषां चैव वर्णानां वैष्णवः श्रेष्ठ उच्यते
येषां पुण्यतमाहारस्तेषां वंशे तु वैष्णवः ॥ ४ ॥

क्षमा दया तपः सत्यं येषां वै तिष्ठति द्विज
तेषां दर्शनमात्रेण पापं नश्यति तूलवत् ॥ ५ ॥

हिंसाधर्माद्विनिर्मुक्ता यस्य विष्णौ स्थिता मतिः
शङ्खचक्रगदापद्मं नित्यं वै धारयेत्तु यः ॥ ६ ॥

तुलसीकाष्ठजां मालां कण्ठे वै धारयेद्यतः
तिलकानि द्वादशधा नित्यं वै धारयेद्बुधः ॥ ७ ॥

धर्माधर्मं तु जानाति यः स वैष्णव उच्यते
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः ॥ ८ ॥

उत्सवांश्च चतुर्विंशत्कुर्वन्ति च पुनः पुनः
तेषां कुलं धन्यतमं तेषां वै यश उच्यते ॥ ९ ॥

ते वै लोके धन्यतमा जाता भागवता नराः
एक एव कुले यस्य जातो भागवतो नरः ॥ १० ॥
मूलम्
ते वै लोके धन्यतमा जाता भागवता नराः
एक एव कुले यस्य जातो भागवतो नरः ॥ १० ॥
विश्वास-प्रस्तुतिः
तत्कुलं तारितं तेन भूयोभूयश्च वाडव
अण्डजा उद्भिजाश्चैव ये जरायुज योनयः ॥ ११ ॥

ते तु सर्वेऽपि विज्ञेयाः शङ्खचक्रगदाधराः
येषां दर्शनमात्रेण ब्रह्महा शुद्ध्यते सदा ॥ १२ ॥

किन्तु वक्ष्यामि देवर्षे तेभ्यो धन्यतमा भुवि
वैष्णवा ये तु दृश्यन्ते भुवनेऽस्मिन्महामुने ॥ १३ ॥

ते वै विष्णुसमाश्चैव ज्ञातव्यास्तत्वकोविदैः
कलौ धन्यतमा लोके श्रुता मे नात्र संशयः ॥ १४ ॥

विष्णोः पूजा कृता तेन सर्वेषां पूजनं कृतम्
महादानं कृतं तेन पूजिता येन वैष्णवाः ॥ १५ ॥

फलं पत्रं तथा शाकमन्नं वा वस्त्रमेव च
वैष्णवेभ्यः प्रयच्छन्ति ते धन्या भुवि सर्वदा ॥ १६ ॥

अर्चितो वैष्णवो यैस्तु सर्वेषां चैव पूजनम्
कृतं यैरर्चितो विष्णुस्ते वै धन्यतमा मताः ॥ १७ ॥

तेषां दर्शनमात्रेण शुद्ध्यते पातकान्नरः
किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव ॥ १८ ॥

अतो वै दर्शनं तेषां स्पर्शने सुखदायकम्
यथा विष्णुस्तथा चायं नान्तरं वर्तते क्वचित् ॥ १९ ॥

इति ज्ञात्वा तु भो वत्स सर्वदा पूजयेद्बुधः
एक एव तु यैर्विप्रो वैष्णवो भुवि भोज्यते
सहस्रं भोजितं तेन द्विजानां नात्र संशयः ॥ २० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे वैष्णवमाहात्म्यन्नाम अष्टषष्टितमोऽध्यायः ६८