महेश्वर उवाच-
विश्वास-प्रस्तुतिः
इति श्रुतं धर्ममुखान्मुद्गलो द्विजसत्तमः
कथयित्वा ममाग्रे वै गतो यादृच्छिको मुने ॥ १ ॥
मूलम्

गोपिकाचन्दनं यत्र तिष्ठते वै द्विजोत्तम
तद्गृहं तीर्थरूपं च विष्णुना भाषितं किल ॥ २ ॥

शोकमोहौ न तत्रास्तां न भवत्यशुभं क्वचित्
गोपिकाचन्दनं यस्य तिष्ठति द्विजसद्मनि ॥ ३ ॥

सुखिनः पूर्वजास्तेषां सन्ततिर्वर्द्धते सदा
गोपिकाचन्दनं यस्य वर्त्ततेऽहर्निशं गृहे ॥ ४ ॥

गोपीपुष्करजा मृत्स्ना पवित्रा कायशोधिनी
उद्वर्त्तनाद्विनश्यन्ति व्याधयो ह्याधयश्च ये ॥ ५ ॥

अतो देहे धृतं पुम्भिर्मुक्तिदं सर्वकामिकम्
तावद्गर्जन्ति तीर्थानि तावत्क्षेत्राणि सर्वदा ॥ ६ ॥

गोपिकाचन्दनं यावन्न दृष्टं न श्रुतं द्विज
इदं ध्येयमिदं पूज्यं मलदोषविनाशनम् ॥ ७ ॥

यस्य संस्पर्शनादेव पूतो भवति मानवः
अन्तकाले तु मर्त्यानां मुक्तिदं पावनं परम् ॥ ८ ॥

किं वदामि द्विजश्रेष्ठ मुक्तिदं गोपिचन्दनम्
विष्णोस्तु तुलसीकाष्ठं तथा वै मूलमृत्तिका ॥ ९ ॥

गोपिकाचन्दनं चैव तथा वै हरिचन्दनम्
चत्वारि ह्येतानि सम्मील्य अङ्गमुद्वर्तयेत्सुधीः ॥ १० ॥

तेन तीर्थं कृतं सर्वं जम्बूद्वीपेषु सर्वदा
तिलकं कुरुते यस्तु गोपिकाचन्दनद्रवैः ॥ ११ ॥

सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
पितुः श्राद्धादिकं तेन गयां गत्वा तु वै कृतम् ॥ १२ ॥

येन वा पुरुषेणापि विधृतं गोपिचन्दनम्
मद्यपो ब्रह्महा चैव गोघ्नो वा बालहा तथा
मुच्यते तत्क्षणादेव गोपीचन्दनधारणात् ॥ १३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे गोपीचन्दनमाहात्म्ये सप्तषष्टितमोऽध्यायः ६७