०६६

नारदउवाच-

विश्वास-प्रस्तुतिः

यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम
कथं न गम्यते देव नरेण नरकान्तरे ॥ १ ॥

मूलम्

यमस्याराधनं ब्रूहि मद्धितार्थं सुरोत्तम
कथं न गम्यते देव नरेण नरकान्तरे ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रूयते यमलोके तु सदा वैतरणी नदी
अनाधृष्यात्वपारा च दुस्तरा बहुशोणिता ॥ २ ॥

दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत्
भयमेतन्महादेव यमलोकं प्रति प्रभो ॥ ३ ॥

मूलम्

दुस्तरा सर्वभूतानां सा कथं सुतरा भवेत्
भयमेतन्महादेव यमलोकं प्रति प्रभो ॥ ३ ॥

विश्वास-प्रस्तुतिः

तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः
भगवन्देवदेवेश कृपां कृत्वा ममोपरि ॥ ४ ॥

मूलम्

तस्य निर्मोचनार्थाय ब्रूहि कृत्यमशेषतः
भगवन्देवदेवेश कृपां कृत्वा ममोपरि ॥ ४ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
द्वारवत्यां पुरा विप्र स्नातोऽहं लवणाम्भसि
ददृशे मुनिमायान्तं मुद्गलं नाम वाडव ॥ ५ ॥

ज्वलन्तमिवचादित्यं तपसा द्योतताङ्गकम्
मां प्रणम्य मुनिः प्राह मुद्गलो विस्मयान्वितः ॥ ६ ॥

मुद्गल उवाच-
अकस्मान्मूर्च्छितो देव पतितोऽस्मि धरातले
प्रज्वलन्ति ममाङ्गानि गृहीतो यमकिङ्करैः ॥ ७ ॥

बलादाकृष्यमाणोऽहं पुरुषॐगुष्ठमात्रकः
बद्धो यमभटैर्गाढं नीतोऽस्मि शमनान्तिकम् ॥ ८ ॥

क्षणात्सभायां पश्यामि यमं पिङ्गललोचनम्
कृष्णमुखं महारौद्रं मृत्युव्याधिशतान्वितम् ॥ ९ ॥

वातपित्त श्लेष्मदोषैर्मूर्तिमद्भिस्तु सेवितम्
कायशोषज्वरातङ्क स्फोटिका लूतकादिभिः ॥ १० ॥

ज्वालाङ्गमर्दशीर्षार्ति भगन्दर बलक्षयैः
कण्ठमालाक्षिरोगैश्च मूत्रकृच्छ्रज्वरव्रणैः ॥ ११ ॥

विमूर्च्छिका गलग्राह हृद्रोगैर्भूततस्करैः
इत्थं बहुविधै रौद्रैर्नानारूपैर्भयङ्करैः ॥ १२ ॥

कपालशिरोहस्तैश्च सङ्ग्रामे नरके तथा
राक्षसैर्दानवैर्घोरैरुपविष्टैः पुरः स्थितैः ॥ १३ ॥

धर्माधिकारिभिश्चात्र चित्रगुप्तादि लेखकैः
व्याघ्र सिंह वराहैश्च शिखासर्पैः सुदुर्द्धरैः ॥ १४ ॥

वृश्चिकैर्दंष्ट्रिभिर्भूतैः कीटकैर्मत्कुणादिभिः
वृक चित्रादि शुनकैः कङ्कैर्गृध्रैश्च जम्बुकैः ॥ १५ ॥

तस्करैर्भूतदारिद्रैर्मारिभिर्डाकिनीग्रहैः
मुक्तकेशैः श्वासकासैर्भ्रुकुटी कुटिलाननैः ॥ १६ ॥

बृहत्प्रतापैर्नोभीतैः शासकैः पापकर्मणाम्
यमः सभायां शुशुभे सेव्यमानः परिग्रहैः ॥ १७ ॥

भीमाटविकजीवैश्च यथा व्यालाञ्जनो गिरिः
ततो विश्वेश्वरः प्राह समयः किङ्करान्प्रति ॥ १८ ॥

नामभ्रान्तैर्भवद्भिश्च समानीतः कथं मुनिः
भीमकस्यात्मजो ग्रामे कौण्डिन्ये मुद्गलाभिधः ॥ १९ ॥

क्षीणायुः क्षत्रियः सोऽस्ति आनेयो मुच्यतामसौ
श्रुत्वैतत्ते गतास्तस्मादायाताः पुनरेव ते ॥ २० ॥

धर्मराजं पुनः प्राहुः सर्वे ते यमकिङ्कराः
तत्रास्माभिर्गतैर्देही क्षीणायुर्नोपलक्षितः ॥ २१ ॥

यम उवाच-
किं कारणमदृश्यास्ते प्रायेण भवतां नराः
सुकृता द्वादशीयैस्तु ख्याता वैतरणी नदी ॥ २२ ॥

उज्जयिन्यां प्रयागे वा यमुनायां च ये मृताः
तिलहस्तिहिरण्यादि दत्तं यैस्तु गवाह्निकम् ॥ २३ ॥

दूता ऊचुः -
तद्व्रतं कीदृशं ब्रह्मन्ब्रूहि सर्वमशेषतः
किं तत्र देव कर्त्तव्यं पुरुषैस्तवतोषदम् ॥ २४ ॥

येन कृता नरश्रेष्ठ द्वादशी कृष्णपक्षजा
उपवासे च तेनैव कथं पापात्प्रमुच्यते ॥ २५ ॥

तद्व्रतं केन विधिना कर्त्तव्यं च यथा वद
सुप्रसन्नेन वक्तव्यं दयां कृत्वा दयानिधे ॥ २६ ॥

श्रीमुद्गल उवाच-
दूतानां वचनं श्रुत्वा उवाच मधुरं तदा
सर्वं वदामि भो दूता यथादृष्टं यथाश्रुतम् ॥ २७ ॥

मार्गशीर्षादि मासे तु या इमाः कृष्णपक्षजाः
तासु पूर्वासु विधिवद्दूता वैतरणीव्रतम् ॥ २८ ॥

प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम्
यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः ॥ २९ ॥

उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः
अद्य मे देवदेवेश उपवासो भविष्यति ॥ ३० ॥

द्वादश्यां पूज्य गोविन्दं भक्तिभावसमन्वितम्
स्वप्नेन्द्रियस्य वैकल्याद्भोजनं यच्च मैथुनम् ॥ ३१ ॥

तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि
एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत् ॥ ३२ ॥

मृद्गोमय तिलान्नीत्वा गन्तव्यं विधिपूर्वकम्
स्नानं तत्र प्रकर्तव्यं व्रतसम्पूर्णहेतवे ॥ ३३ ॥

अश्वक्रान्तेति मन्त्रेण स्नानं कुर्याद्विशेषतः
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥ ३४ ॥

मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम्
तया हतेन पापेन सर्वपापैः प्रमुच्यते ॥ ३५ ॥

काश्यां चैव तु सम्भूतास्तिला वै विष्णुरूपिणः
तिलस्नानेन गोविन्दः सर्वं पापं व्यपोहति ॥ ३६ ॥

विष्णुदेहोद्भवा देवि महापापापहारिणी
सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते ॥ ३७ ॥

तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम्
स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम् ॥ ३८ ॥

एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी
तर्पयित्वा पितॄन्देवांस्ततो विष्णोस्तु पूजनम् ॥ ३९ ॥

संस्थाप्य चाव्रणं कुम्भं पञ्चपल्लवसंयुतम्
पञ्चरत्नसमोपेतं दिव्यस्रग्गन्धवासितम् ॥ ४० ॥

जलपूर्णं सद्रव्यञ्च ताम्रपात्रसमन्वितम्
तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम् ॥ ४१ ॥

पूर्णेन विधिना राजन्कुर्यात्पूजां गरीयसीम्
मृद्गोमयादिरचितं मण्डलं कारयेच्छुभम् ॥ ४२ ॥

तण्डुलैः शुक्लधौतैश्च अश्मपिष्टैश्च कारयेत्
धर्मराजः प्रकर्त्तव्यो हस्ताद्यव यवान्वितः ॥ ४३ ॥

नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः
पूजयेच्च पृथक्सम्यक्समावाहनपूर्वकम् ॥ ४४ ॥

आवाहयामि देवेशं यमं वै विश्वरूपिणम्
इहाभ्येहि महाभाग सान्निध्यं कुरु केशव ॥ ४५ ॥

इदं पाद्यं श्रियः कान्त सोपविष्टं हरे प्रभो
विश्वोद्यानरतो नित्यं कृपां कुरु ममोपरि ॥ ४६ ॥

भूतिदाय नमः पादावशोकाय च जानुनी
उरू नमः शिवायेति विश्वमूर्ते नमः कटिम् ॥ ४७ ॥

कन्दर्पाय नमो मेढ्रमादित्याय फलं तथा
दामोदराय जठरं वासुदेवाय वै स्तनौ ॥ ४८ ॥

मूलम्

कन्दर्पाय नमो मेढ्रमादित्याय फलं तथा
दामोदराय जठरं वासुदेवाय वै स्तनौ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

श्रीधराय मुखं केशान्केशवायेति वै नमः
पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च ॥ ४९ ॥

स्वनाम्ना शङ्खचक्रासिगदापरशुपाणये
सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते 6.66.॥ ५० ॥

मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम्
रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते॥ ५१ ॥

सर्वपापौघनाशार्थं पूजयामि नमो नमः
एभिश्च सर्वशो मन्त्रैर्विष्णुं ध्यात्वा प्रपूजयेत् ॥ ५२ ॥

धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते
दक्षिणाशापते तुभ्यं नमो महिषवाहन ॥ ५३ ॥

मूलम्

धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते
दक्षिणाशापते तुभ्यं नमो महिषवाहन ॥ ५३ ॥

विश्वास-प्रस्तुतिः

चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः
नरकार्तिप्रशान्त्यर्थं कामान्यच्छ ममेप्सितान् ॥ ५४ ॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ ५५ ॥

मूलम्

यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ ५५ ॥

विश्वास-प्रस्तुतिः

वृकोदराय चित्राय चित्रगुप्ताय वै नमः
नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः ॥ ५६ ॥

एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः
वैतरणी सुदुःपारे पापघ्नि सर्वकामदे ॥ ५७ ॥

इहाभ्येहि महाभागे गृहाणार्घं मया कृतम्
यमद्वारपथे घोरे ख्याता वैतरणी नदी ॥ ५८ ॥

तस्यामुद्धरणार्थाय जन्ममृत्युजरातिगा
या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा ॥ ५९ ॥

यस्यां भयात्प्रमज्जन्ति प्राणिनो यातनापराः
तर्तुकामस्तु तां घोरं जया देवि नमोनमः ॥ ६० ॥

तस्यां देवाधितिष्ठन्ति या सा वैतरणी नदी
सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च ॥ ६१ ॥

यस्यास्तटे प्रविशन्ति ऋषयः पितरस्तथा
सा चापि सिन्धुरूपेण पूजिता पापहारिका ॥ ६२ ॥

तरीतुं तां प्रदास्यामि सर्वपापविमुक्तये
पुण्यार्थं सम्प्रवक्ष्यामि तुभ्यं वैतरणी नदीम् ॥ ६३ ॥

मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च
कृष्णकृष्णजगन्नाथ संसारादुद्धरस्व माम् ॥ ६४ ॥

नामग्रहणमात्रेण सर्वं पापं हरस्व मे
यज्ञोपवीतं परमं कारितं नवतन्तुभिः ॥ ६५ ॥

प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम्
इदं तव च ताम्बूलं यथाशक्त्या सुशोभनम् ॥ ६६ ॥

प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात्
पञ्चवर्ती प्रदीपोऽयं देवेशारार्तिकं तव ॥ ६७ ॥

मोहान्धकारद्युमणे भक्तियुक्तो भवार्तिहृत्
परमान्नं सुपक्वान्नं समस्तरससंयुतम् ॥ ६८ ॥

निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम्
द्वादशाक्षरमन्त्रेण यथासङ्ख्य जपेन च ॥ ६९ ॥

प्रीयतां मे श्रियःकान्तः प्रीतो यच्छतु वाञ्छितम्
पञ्च गावः समुत्पन्ना मथ्यमाने महोदधौ ॥ ७० ॥

तासां मध्ये तु या नन्दा तस्यै धेन्वै नमोनमः
गां सम्पूज्य विधानेन अर्घ्यं दद्यात्समाहितः ॥ ७१ ॥

सर्वकामदुघे देवि सर्वान्तकनिवारिणी
आरोग्यं सन्ततिं दीर्घां देहि नन्दिनि मे सदा ॥ ७२ ॥

पूजिता च वसिष्ठेन विश्वामित्रेण धीमता
कपिले हर मे पापं यन्मया पूर्वसञ्चितम् ॥ ७३ ॥

गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः
नाके मामुपतिष्ठन्तु हेमशृङ्गी पयोमुचः ॥ ७४ ॥

सुरभ्यः सौरभेयाश्च सरितः सागरा यथा
सर्वदेवमये देवि सुभद्रे भक्तवत्सले ॥ ७५ ॥

एवं सम्पूज्य विधिवद्दद्याद्गोषु गवाह्निकम्
सौरभेयः सर्वहिताः पवित्राः पापनाशनाः ॥ ७६ ॥

प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः
गङ्गदायै नमो भूत्यै सर्वपापप्रहाणये ॥ ७७ ॥

अनेनैव तु मन्त्रेण गदां वैधारयेद्बुधः
पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः ॥ ७८ ॥

चं चक्ररूपिणे विष्णो धारणं चक्रजं स्मृतम्
शं शङ्खरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे ॥ ७९ ॥

मन्त्रेणानेन वै दूता धारणं शङ्खजं स्मृतम्
चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम् ॥ ८० ॥

अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा
ब्राह्मणस्य तथैवेदं तप्तमुद्रादि धारणम् ॥ ८१ ॥

चन्दनेन सुगन्धेन गोपिकाचन्दनेन तु
धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः ॥ ८२ ॥

चाण्डालोऽपि भवेच्छुद्धो धारणाच्च न संशयः
ऊर्ध्वं पुण्ड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि ॥ ८३ ॥

स चाण्डालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः
चाण्डालानां गृहे दूतास्तुलसी यत्र दृश्यते ॥ ८४ ॥

तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा ॥ ८५ ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्साहस्र्यांसंहितायामुमापतिनारदसंवादे यमाराधनं नाम षट्षष्टितमोऽध्यायः ६६