नारद उवाच-
विश्वास-प्रस्तुतिः
चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो
उद्यापने कृते सर्वं सम्पूर्णं भवति ध्रुवम् ॥ १ ॥
मूलम्
चातुर्मास्यव्रतानां च प्रब्रूह्युद्यापनं विभो
उद्यापने कृते सर्वं सम्पूर्णं भवति ध्रुवम् ॥ १ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत्
यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत् ॥ २ ॥
मूलम्
महादेव उवाच-
व्रतं कृत्वा महाभाग यदि नोद्यापनं चरेत्
यस्तु कर्त्ता कर्मणां स न सम्यक्फलभाक्भवेत् ॥ २ ॥
विश्वास-प्रस्तुतिः
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते
एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ॥ ३ ॥
मूलम्
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते
एतस्मात्कारणाच्चैव कुर्यादुद्यापनं द्विज ॥ ३ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा नियमानेतान्पालयित्वा यथाविधि
सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसन्निधौ ॥ ४ ॥
मूलम्
गृहीत्वा नियमानेतान्पालयित्वा यथाविधि
सुप्तोत्थिते जगन्नाथे गत्वा ब्राह्मणसन्निधौ ॥ ४ ॥
विश्वास-प्रस्तुतिः
क्षमापयेद्देवदेवं यथाविधि च विस्तरात्
तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम् ॥ ५ ॥
मूलम्
क्षमापयेद्देवदेवं यथाविधि च विस्तरात्
तैलत्यागे घृतं दद्याद्घृतत्यागे पयः स्मृतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
मौने पिण्डास्तिला देयाः सहिरण्या द्विजातये
भोजने भोजनं दद्याद्दध्योदनसमन्वितम् ॥ ६ ॥
मूलम्
मौने पिण्डास्तिला देयाः सहिरण्या द्विजातये
भोजने भोजनं दद्याद्दध्योदनसमन्वितम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम्
अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ॥ ७ ॥
मूलम्
अन्नं दद्याद्विशेषेण हिरण्येन समन्वितम्
अन्नदानान्मुनिश्रेष्ठ विष्णुलोके महीयते ॥ ७ ॥
विश्वास-प्रस्तुतिः
पालाशपात्रे यो भुङ्क्ते नरो मासचतुष्टयम्
भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज ॥ ८ ॥
मूलम्
पालाशपात्रे यो भुङ्क्ते नरो मासचतुष्टयम्
भाजनं घृतपूर्णं तु दद्यादुद्यापने द्विज ॥ ८ ॥
विश्वास-प्रस्तुतिः
षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने
अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत् ॥ ९ ॥
मूलम्
षड्रसं भोजनं दद्याद्ब्राह्मणे नक्तभोजने
अयाचिते ह्यनड्वाहं सहिरण्यं प्रदापयेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम्
धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच ॥ १० ॥
मूलम्
माषं त्यजन्मुनिश्रेष्ठ गां च दद्यात्सवत्सकाम्
धात्रीस्नाने नरो दद्यात्स्वर्णं माषिकमेवच ॥ १० ॥
विश्वास-प्रस्तुतिः
फलानां नियमे चैव फलानि च प्रदापयेत्
धान्यानां नियमे धान्यमथवा शालयः स्मृताः ॥ ११ ॥
मूलम्
फलानां नियमे चैव फलानि च प्रदापयेत्
धान्यानां नियमे धान्यमथवा शालयः स्मृताः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तद्वद्भूशयने शय्यां सतूलां गेन्दुकान्विताम्
ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम ॥ १२ ॥
मूलम्
तद्वद्भूशयने शय्यां सतूलां गेन्दुकान्विताम्
ब्रह्मचर्यं कृतं येन चातुर्मास्ये द्विजोत्तम ॥ १२ ॥
विश्वास-प्रस्तुतिः
दम्पत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम्
सभोगं दक्षिणोपेतं सशाकं लवणं तथा ॥ १३ ॥
मूलम्
दम्पत्योर्भोजनं देयमुभयोर्भक्तिपूर्वकम्
सभोगं दक्षिणोपेतं सशाकं लवणं तथा ॥ १३ ॥
विश्वास-प्रस्तुतिः
नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः
नखकेशव्रते चैव प्रादेशं परिकल्पयेत् ॥ १४ ॥
मूलम्
नित्यस्नाने नरो दद्यान्निस्नेहे सर्पिः सक्तवः
नखकेशव्रते चैव प्रादेशं परिकल्पयेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
उपानहौ प्रदातव्यौ उपानहविवर्जनात्
आमिषस्य परित्यागात्सवत्सा कपिला स्मृता ॥ १५ ॥
मूलम्
उपानहौ प्रदातव्यौ उपानहविवर्जनात्
आमिषस्य परित्यागात्सवत्सा कपिला स्मृता ॥ १५ ॥
विश्वास-प्रस्तुतिः
नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत्
तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने ॥ १६ ॥
मूलम्
नित्यं दीपप्रदो यस्तु सौवर्णं दीपमावहेत्
तं दीपं घृतसंयुक्तं दद्याच्चैव द्विजन्मने ॥ १६ ॥
विश्वास-प्रस्तुतिः
विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया
शाकस्य नियमे शाकं माषे सौवर्णमाषकम् ॥ १७ ॥
मूलम्
विष्णुभक्ताय विप्राय परिपूर्णव्रतेप्सया
शाकस्य नियमे शाकं माषे सौवर्णमाषकम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये
नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम् ॥ १८ ॥
मूलम्
मैथुनानां तु नियमे रौप्यं दद्याद्दिवजातये
नागवल्ल्यास्तु नियमे कर्पूरं सहरिण्यकम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु
तत्तद्देयं विशेषेण परलोकगतीप्सया ॥ १९ ॥
मूलम्
कालेकाले द्विजश्रेष्ठ यत्कृतं नियमेन तु
तत्तद्देयं विशेषेण परलोकगतीप्सया ॥ १९ ॥
विश्वास-प्रस्तुतिः
आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत्
अनादिनिधनो देवः शङ्खचक्रगदाधरः
तस्याग्रे के न कुर्वन्ति यतो विष्णुस्तु पापहा ॥ २० ॥
मूलम्
आदौ स्नानादिकं कृत्वा विष्णोरग्रे प्रकाशयेत्
अनादिनिधनो देवः शङ्खचक्रगदाधरः
तस्याग्रे के न कुर्वन्ति यतो विष्णुस्तु पापहा ॥ २० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे चातुर्मास्योद्यापनन्नाम पञ्चषष्टितमोऽध्यायः ६५