०६४

नारद उवाच-

विश्वास-प्रस्तुतिः

चातुर्मास्यां तु नियमा ये केचिद्भुवि विश्रुताः
तानहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥ १ ॥

मूलम्

चातुर्मास्ये हरौ सुप्ते कर्त्तव्यं किं जनार्दने
षड्रसानां परित्यागे नखकेशविधारणे
अन्यैश्च नियमैः स्वामिन्यत्फलं तद् ब्रवीहि मे ॥ २ ॥

सूत उवाच-
एतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः
प्रोवाच तं द्विजवरं नारदं तपसान्निधिम् ॥ ३ ॥

महादेव उवाच-
शृणु त्वमिह देवर्षे कथयामि सविस्तरम्
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥ ४ ॥

चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम्
भूमिशय्यासमारूढो योगनिद्रां गते हरौ ॥ ५ ॥

नयेत चतुरो मासान्यावद्भवति कार्तिकी
प्रतिष्ठा न प्रवर्त्तन्ते तथा यज्ञादिकाः क्रियाः ॥ ६ ॥

विवाहव्रतसम्बन्ध अन्यन्माङ्गल्यकर्म च
भूपयानं तथा यात्रा अन्याश्च विविधाः क्रियाः ॥ ७ ॥

प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे
व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु ॥ ८ ॥

अश्वमेधसहस्रैस्तु यत्फलं प्राप्नुयान्नरः
चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् ॥ ९ ॥

मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम्
तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम् ॥ १० ॥

अधिमासे तु पतिते तदा चैष विधिक्रमः
स्थापयेत्प्रतिमां विष्णोः शङ्खचक्रगदाधरीम् ॥ ११ ॥

पीताम्बरधरां सौम्यां पर्यङ्के स्थापयेत्शुचौ
श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद ॥ १२ ॥

इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः
स्नापयित्वा दधिक्षीरमधुलाजघृतस्तथा ॥ १३ ॥

समालभ्य शुभैर्गन्धैर्धूपैः पुष्पैर्मनोरमैः
पूजितां कुसुमैः शुभ्रैर्मन्त्रेणानेन वाडव ॥ १४ ॥

सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम्
विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् ॥ १५ ॥

एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः ॥ १६ ॥

स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि ॥ १७ ॥

गृह्णीयान्नियमानेतान्दन्तधावनपूर्वकम्
उपवासं ततः कृत्वा प्रभाते विमले सति ॥ १८ ॥

नित्यं कर्म चरित्वा तु विष्णोरग्रे जितात्मवान्
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् ॥ १९ ॥

मधुरत्वं लभेद्विद्वान्पुरुषो गुडवर्जनात्
तथैव सन्ततिं दीर्घां तैलस्य वर्जनाद्यतः ॥ २० ॥

घृतस्य वर्जनाद्विप्र सुन्दराङ्गः प्रजायते
कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात् ॥ २१ ॥

सुगन्धतैलत्यागेन सौभाग्यमतुलं लभेत्
पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत् ॥ २२ ॥

योगाभ्यासी नरो यस्तु स ब्रह्मपदमाप्नुयात्
कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान् ॥ २३ ॥

वर्जयेद्यस्तु वैरूप्यं दौर्गन्ध्यं नाप्नुयान्नरः
ताम्बूलवर्जनाद्भोगी रक्तकण्ठस्तु जायते ॥ २४ ॥

घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत्
फलत्यागाच्च विपेन्द्र बहुपुत्रश्च जायते ॥ २५ ॥

पलाशपत्राशनकृद्रूपवान्भोगवान्भवेत्
दीप्तिमान्दीप्तिकरणः साक्षाद्द्रव्यपतिर्भवेत् ॥ २६ ॥

दधिदुग्धपरित्यागी गोलोकं लभते नरः
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् ॥ २७ ॥

इन्द्रासनमवाप्नोति स्थालीपाकस्य वर्जनात्
एवमादि परित्यागाद्धर्मस्थो धर्मनन्दनः ॥ २८ ॥

नमोनारायणायेति जप्त्वा शतगुणं फलम्
एक एव स वै स्वर्गे विद्याधरपतिर्भवेत् ॥ २९ ॥

पुष्करस्नानमात्रेण गङ्गायाः स्नानजं फलम् ॥ ३० ॥

भूमौ भुङ्क्ते सदा यस्तु स पृथिव्यधिपो भवेत्
विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम् ॥ ३१ ॥

कल्पस्थायी भवेद्विद्वन्वैकुण्ठे नात्र संशयः
प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः ॥ ३२ ॥

हंसयुक्तविमानेन दिव्येन सह गच्छति
गीतवाद्यकरो विष्णोर्गान्धर्वं लोकमाप्नुयात् ॥ ३३ ॥

पञ्चगव्याशनो विद्वन्चान्द्रायणफलं लभेत्
नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत् ॥ ३४ ॥

स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत्
तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत् ॥ ३५ ॥

कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत्
शीताम्बुना गृहे स्नानात्निर्मलं देहमाप्नुयात् ॥ ३६ ॥

उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत्
पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् ॥ ३७ ॥

भुङ्क्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम्
धर्मोदयजलत्यागी न रोगैः परिभूयते ॥ ३८ ॥

ताम्रपात्रेषु भुञ्जानो नैमिषं फलमाप्रुयात्
कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत् ॥ ३९ ॥

अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम्
स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसम्भवैः ॥ ४० ॥

यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते
पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम् ॥ ४१ ॥

चान्द्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने
एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुञ्जतः ॥ ४२ ॥

त्रिरात्रेण समं प्रोक्तं महापातकनाशनम्
एकादश्युपवासेन यत्पुण्यं परिकीर्तितम् ॥ ४३ ॥

सर्वदानफलं चैव सर्वतीर्थफलं लभेत्
न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात् ॥ ४४ ॥

ब्राह्मणो याति वैकुण्ठेऽन्यो जनः स्वर्गमाप्नुयात्
एष ब्रह्म महावृक्षः पापहा सर्वकामदः ॥ ४५ ॥

मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम
भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्दश ॥ ४६ ॥

वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम्
मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज ॥ ४७ ॥

कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा
कपिलां दोहयेद्यस्तु शूद्रो भुङ्क्ते निजे गृहे ॥ ४८ ॥

दशवर्षसहस्राणि विष्ठायां जायते कृमिः
कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात् ॥ ४९ ॥

कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत्
यावन्ति तस्य रोमाणि तावद्वर्षाणि नारद 6.64.॥ ५० ॥

कुम्भीपाकेषु पच्येत स नरो नात्र संशयः
अजा चैव गृहे तस्य शूद्रस्य च विशेषतः ॥ ५१ ॥

तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम्
ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते ॥ ५२ ॥

स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते
व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः ॥ ५३ ॥

यावत्पदानि चलते तावद्भवति नारकी
उदकार्थं तु यो विप्रः शूद्रेण प्रेषितो गृहे ॥ ५४ ॥

तदुदकं मद्यतुल्यं पीत्वा वै नरकं व्रजेत्
शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने ॥ ५५ ॥

तेषां चैव तु वै भक्तिः कर्त्तव्या च विशेषतः
इहलोके सुखं भुक्त्वा परलोकं च गच्छति ॥ ५६ ॥

पाञ्चभौतिकमेतद्धि अनर्थकमुदाहृतम्
अतो देयं हि गुरवे यतोऽनन्तफलं लभेत् ॥ ५७ ॥

अस्मिन्कलियुगे घोरे पापाचारे दुरात्मनः
निन्दां कुर्वन्ति विप्रेन्द्र जनानां पुण्यकर्मणाम् ॥ ५८ ॥

निन्दया लभते दुःखं यावदाभूतसम्प्लवम्
नानाधर्माः प्रवर्त्तन्ते कलौ चैव महामते ॥ ५९ ॥

धर्मोऽयं दुर्ल्लभो लोके धर्मकामार्थमोक्षदः
भूमिशायी भवेद्यस्तु नरः कोऽपि महीतले ॥ ६० ॥

दशवर्षसहस्राणि न रोगैः परिपीड्यते
बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः ॥ ६१ ॥

नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत्
अयाचितेन चाप्नोति वापीकूपक्रिंया फलम् ॥ ६२ ॥

वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः
अहिंसा परमो धर्म इति वेदेषु गीयते ॥ ६३ ॥

दानं दया दम इति सर्वत्र हि श्रुतं मया
तस्मात्सर्वप्रयत्नेन कार्यं वै महतामपि ॥ ६४ ॥

गुरवे ये प्रयच्छन्ति शरीरं पुत्रपौत्रकम्
तत्र दानप्रभावेन विष्णोर्वल्लभतामियात् ॥ ६५ ॥

शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः
उभौ तौ पापिनौ प्रोक्तौ यावदाभूतसम्प्लवम् ॥ ६६ ॥

हिंसामतिं यदादत्ते शूद्रो वै पापसत्तमः
एकविंशतिकुलं तेन नरकं प्रतिपात्यते ॥ ६७ ॥

कलौ पाखण्डिनः शूद्रा दृश्यन्ते बहवो भुवि
तेषां सम्भाषणादेव नरको भवति द्विज ॥ ६८ ॥

ब्रह्मज्ञानरता ये च गायत्रीजापिनो द्विज
तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने ॥ ६९ ॥

शङ्खचक्रधरा विप्रा विष्णुधर्मेषु सम्मताः
वेदधर्मरता नित्यं पङ्क्तिपावनपावनाः ॥ ७० ॥

चातुर्मास्यमिदं कर्म कर्त्तव्यं तैः सदा नरैः
किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव ॥ ७१ ॥

ते धन्याः पृथिवी मध्ये नरा ये वैष्णवा भुवि
तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता ॥ ७२ ॥

मधु भक्षयते यस्तु सुप्ते देवे जनार्दने
महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत् ॥ ७३ ॥

सर्वयज्ञैश्च विविधैर्यत्फलं तदवाप्नुयात्
दाडिमं मातुलिगं च नालिकेरं च वर्जयेत् ॥ ७४ ॥

देवो वैमानिको भूत्वा ह्यन्ते विष्णुपदं व्रजेत्
वित्तवान्सुभगश्चैव कुले श्रीमति जायते ॥ ७५ ॥

यः क्षिपेदेकभक्तेन नरो मासचतुष्टयम्
यावन्ति च मुहूर्तानि उदितोदितभास्करे ॥ ७६ ॥

ताद्वर्षसहस्राणि विष्णुलोके महीयते
व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः ॥ ७७ ॥

अश्वमेधादिके कृते विधिवद्वै सदक्षिणे
यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते नरः ॥ ७८ ॥

धनधान्यसमायुक्तो बहुपुत्रश्च जायते
तुलसीतिलदर्भैश्च ये कुर्वन्ति च तर्पणम् ॥ ७९ ॥

तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः
यदा सुप्ते हृषीकेशे कुर्याच्चैतत्त्रयान्वितम् ॥ ८० ॥

तेऽपि युगसहस्राणि मोदन्ते विष्णुसन्निधौ
पदं वा पदमर्द्धं वा ऋचां चार्द्धऋचां तथा ॥ ८१ ॥

विष्ण्वग्रे ये प्रगायन्ति मुक्तास्ते वै न संशयः
मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने ॥ ८२ ॥

एकमन्वन्तरं सोऽपि विष्णुलोके महीयते
दधिदुग्धं तथा तक्रं गुडं शाकं तथैव च ॥ ८३ ॥

वर्जनादेव भो विप्र मुक्तिभागी न संशयः
स्नानमामलकेनैव ये कुर्वन्ति च मानवाः ॥ ८४ ॥

दिनेदिने महत्पुण्यं प्राप्नुवन्ति च ते मुने
धात्रीफलं पापहरं प्रवदन्ति मनीषिणः ॥ ८५ ॥

त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा
सन्ध्यामौनं चरेद्यस्तु भुङ्क्ते मासचतुष्टयम् ॥ ८६ ॥

मन्वन्तराणि चत्वारि वैकुण्ठे मोदते पुनः
स्वयम्पाकी नरो यस्तु भुङ्क्ते मासचतुष्टयम् ॥ ८७ ॥

दशवर्षसहस्राणि इन्द्रलोके महीयते
चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत् ॥ ८८ ॥

स च विष्णुपुरं गच्छेद्ब्राह्मं च तदनन्तरम्
मौनभोजी नरो यस्तु कदाचिन्नावसीदति ॥ ८९ ॥

मौनेन भुञ्जमानास्तु राक्षसास्त्रिदिवं गताः
कृमिकीटसमायुक्तं पक्वान्नमशुची भवेत् ॥ ९० ॥

गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम
तदन्नमशुचि ज्ञेयं ग्रसते मानुषो यदि ॥ ९१ ॥

एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा
तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना ॥ ९२ ॥

मौनेन भोजयित्वा तु स्वर्गं प्राप्ता न संशयः
सञ्जल्पन्भुञ्जते यस्तु तेनान्नमशुची भवेत् ॥ ९३ ॥

पापं स केवलं भुङ्क्ते तस्मान्मौनं समाचरेत्
उपवाससमं भोज्यं ज्ञेयं मौनेन नारद ॥ ९४ ॥

पञ्चप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः
पञ्च वै पातकान्यस्य नश्यन्ति नात्र संशयः ॥ ९५ ॥

न कुर्यात्सन्धितं वस्त्रं पितृकर्मणि वाडव
अशुच्यङ्गे स्थितं चैव वस्त्रं तदशुची भवेत् ॥ ९६ ॥

कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः
मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ॥ ९७ ॥

पितृकर्मविशेषेण वर्जनीयं च वाडव
सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः ॥ ९८ ॥

कर्त्तव्या च विशेषेण शुचिभिर्विजितेन्द्रियैः
सम्प्रसुप्ते हृषीकेशे तृणशाककुसुम्भिकाः ॥ ९९ ॥

सन्धितानि च वस्त्राणि वर्जितानि प्रयत्नतः
चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् 6.64.१००
नरकं न तु सङ्गच्छेत्यावदाभूतसम्प्लवम्
मद्यं मांसं न भक्षेत शाशकं सौकरं तथा १०१
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने
सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः १०२
मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसु मैथुनम्
वर्जितं येन विप्रेन्द्र सोऽश्वमेधफलं लभेत् १०३
ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च
पुष्पं पत्रं फलं शय्या अभ्यङ्गं च विलेपनम् १०४
वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत्
चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम् १०५
प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः
तद्धनं चाक्षयं विद्वन्प्रदत्तं यद्दिवजातये १०६
कोटिकोटिगुणं विप्र लभते नात्र संशयः
येनकेनापि विप्रेन्द्र नियमेनार्चितो हरिः १०७
ददाति विष्णुभवनं नात्र कार्या विचारणा
चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत् १०८
सोऽपि नरकमाप्नोति तस्य जन्म वृथागतम्
यत्पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम् १०९
तथोक्तान्नियमांश्चैव स याति परमं पदम्
त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् ११०
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम्
तोषयेन्नियमैर्दानैर्यथाशक्त्या नरोत्तमः १११
अकृतस्नानदानं च ब्राह्मणानां च पूजनम्
वृथागतं तु तत्सर्वं यावदिन्द्राश्चतुर्दश ११२
नारद उवाच-
कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो
येन चीर्णेन गोविन्दः परितुष्टो भवेन्नृणाम् ११३
महादेव उवाच-
स्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः
चाण्डालादधिको विद्वन्यः स्वभार्यां परित्यजेत् ११४
ऋतावभिगमं कृत्वा ब्रह्मचर्यं विधीयते
परित्यजति यो भार्यां भक्तां दोषविवर्जिताम् ११५
पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात्
अश्वमेधसहस्राणि वाजपेयशतानि च ११६
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्
स्नानं दानं जपो होमः स्वाध्यायं देवतार्चनम् ११७
चातुर्मास्यकृतं यच्च सर्वं हि चाक्षयं भवेत्
एककालं द्विकालं वा पुराणं शृणुते तु यः ११८
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
हरौ सुप्ते विशेषेण हरेर्नामपठन्जपन् ११९
तत्फलं कोटिगुणितं लभते द्विजसत्तम
वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि १२०
स एव सर्वधर्मात्मा पूज्य एव न संशयः
चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम्
श्रुत्वा तु लभते पुण्यं गङ्गास्नानफलं लभेत् १२१
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुमापतिनारदसंवादे उत्तरखण्डे चातुर्मास्यमहिमानाम चतुःषष्टितमोऽध्यायः ६४