युधिष्ठिर उवाच -
विश्वास-प्रस्तुतिः
श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो
एकादशीसमं किञ्जिच्छ्रुतं नैव जनार्दन ॥ १ ॥
मूलम्

पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम्
यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम् ॥ २ ॥

श्रीकृष्ण उवाच-
शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत्
न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी ॥ ३ ॥

एकादशी कलौ राजन्भवबन्धविमोचनी
कामदा सर्वकामानां पापानां पापहा भुवि ॥ ४ ॥

रविवारेऽथ माङ्गल्ये सङ्क्रमे वा नृपोत्तम
एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी ॥ ५ ॥

एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः
आयुः कीर्तिप्रदं नित्यं सन्तानारोग्यवित्तदम् ॥ ६ ॥

मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम्
ये कुर्वन्ति महीपाल श्रद्धया परया युताः ॥ ७ ॥

यथोक्तविधिना लोके ते नरा विष्णुरूपिणः
जीवन्मुक्तास्तु भूपाल दृश्यन्ते नात्र संशयः ॥ ८ ॥

युधिष्ठिर उवाच-
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः
पापरूपाश्च दृश्यन्ते परं कौतूहलं हि मे ॥ ९ ॥
मूलम्
युधिष्ठिर उवाच-
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः
पापरूपाश्च दृश्यन्ते परं कौतूहलं हि मे ॥ ९ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम्
एकादश्याः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ १० ॥

न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि
सर्वपापहरं पुण्यं व्रतमेकादशीसमम् ॥ ११ ॥

न किञ्चिद्विद्यते राजन्सर्वकामप्रदं नृणाम्
एकाशनं दशम्यां च नन्दायां निर्जलं व्रतम् ॥ १२ ॥

पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः
श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम् ॥ १३ ॥

वाञ्छितं लभते सोऽपि इहलोके परत्र च
पवित्रा पावनी ह्येषा महापातकनाशिनी ॥ १४ ॥

भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम
कामदायां विधानेन पूजयेत्पुरुषोत्तमम् ॥ १५ ॥

पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा
कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा ॥ १६ ॥

शाकं मधु परान्नं च पुनर्भोजन मैथुनम्
वैष्णवो व्रतकर्त्ता च दशम्यां दश वर्जयेत् ॥ १७ ॥

द्यूतं क्रीडां तथा निद्रा ताम्बूलं दन्तधावनम्
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ १८ ॥

क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत्
कांस्यं मांसम्मसूरांश्च तैलं वितथभाषणम् ॥ १९ ॥

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्
वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने ॥ २० ॥

अनेन विधिना राजन्विहिता यैश्च कामदा
रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः ॥ २१ ॥

सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ २२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्ला कामदानामैकादशीनाम त्रिषष्टितमोऽध्यायः ६३