युधिष्ठिर उवाच -
विश्वास-प्रस्तुतिः
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् ॥ १ ॥
मूलम्

पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन
को विधिः किं फलं तस्य को देवस्तत्र पूज्यते ॥ २ ॥

अधिमासे च सम्प्राप्ते व्रतं ब्रूहि जनार्दन
कस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो ॥ ३ ॥

कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः
किं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे ॥ ४ ॥

श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र भवतः स्नेहकारणात्
पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ॥ ५ ॥

अधिमासे तु सम्प्राप्ते भवेदेकादशी तु या
कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः ॥ ६ ॥

तस्या व्रतप्रभावेन कमलाभिमुखी भवेत्
ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ॥ ७ ॥

स्नात्वा चैव विधानेन नियमं कारयेद्व्रती
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ॥ ८ ॥

गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम्
शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ॥ ९ ॥

लक्षं तुलस्याः सान्निध्ये ह्यनन्तं विष्णुसन्निधौ
अवन्त्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः ॥ १० ॥

तस्यात्मजास्तु पञ्चासन्कनिष्ठो दोषवानभूत्
तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबान्धवैः ॥ ११ ॥

कुकर्मणः प्रभावेन गतो दूरतरं वनम्
एकदा दैवयोगेन तीर्थराजं समागतः ॥ १२ ॥
मूलम्
कुकर्मणः प्रभावेन गतो दूरतरं वनम्
एकदा दैवयोगेन तीर्थराजं समागतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत्
मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः॥ १३ ॥

हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम्
पुरुषोत्तममासे वै जनानां च समागमे ॥ १४ ॥

तत्राश्रमे कथयतां कथां कल्मषनाशिनीम्
ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता ॥ १५ ॥

एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी
जयशर्मा विधानेन श्रुत्वेमां कमला तिथिम् ॥ १६ ॥

एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी
व्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा ॥ १७ ॥

निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता
वरं ददामि भो विप्र कमलायाः प्रभावतः ॥ १८ ॥

जयशर्मोवाच -
का त्वं कस्यासि रम्भोरु प्रसन्ना च कथं मम
इन्द्राणी सुरनाथस्य भवानी शङ्करस्य वा ॥ १९ ॥

गन्धर्वी किन्नरी वाथ वधूर्वा चन्द्रसूर्ययोः
त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने ॥ २० ॥

लक्ष्मीरुवाच-
प्रसन्ना साम्प्रतं जाता वैकुण्ठादहमागता
प्रेरिता देवदेवेन कमलायाः प्रभावतः ॥ २१ ॥

पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत्
तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसन्निधौ ॥ २२ ॥

व्रतस्यास्य प्रभावेन वशगाहं न संशयः
तववंशे भविष्यन्ति मानवा द्विजसत्तम ॥ २३ ॥

मत्प्रसादादवाप्स्यन्ति सत्यं ते व्याहृतं मया
ब्राह्मण उवाच-
प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद ॥ २४ ॥

यत्कथासु प्रवर्तन्ते साधवो ये जना द्विजाः
लक्ष्मीरुवाच-
श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ २५ ॥

दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः
उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा ॥ २६ ॥

पठित्वा मुच्यते सद्यो महापातककोटिभिः
मासानां परमो मासः पक्षिणां गरुडो यथा ॥ २७ ॥

नदीनां च यथा गङ्गा तिथीनां द्वादशी तिथिः
अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः ॥ २८ ॥

तमर्चयन्ति विविधा नारायणमनामयम्
ये यजन्ति सदा भक्त्या देवं नारायणं प्रभुम् ॥ २९ ॥

तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः
येऽपि नामपरा ये च हरिकीर्त्तनतत्पराः ॥ ३० ॥

हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः
शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् ॥ ३१ ॥

गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥ ३२ ॥

एकादश्यां निराहारः स्थित्वाहमपरेऽहन्नि
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ ३३ ॥

अमुं मन्त्रं समुच्चार्य देवदेवस्य चक्रिणः
भक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ॥ ३४ ॥

कुर्याद्देवस्य पुरतो जागरं नियतो व्रती
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ॥ ३५ ॥

ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती
स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेन्द्रियः ॥ ३६ ॥

पञ्चामृतेन संस्नाप्य एकादश्यां जनार्दनः
द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते ॥ ३७ ॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव
प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ ३८ ॥

एवं विज्ञाप्य देवेशं देवदेवं गदाधरम्
ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥ ३९ ॥

ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः
कृत्वा पञ्चमहायज्ञान्स्वयं भुञ्जीत वाग्यतः ॥ ४० ॥

एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम्
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ॥ ४१ ॥

इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे
सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ॥ ४२ ॥
मूलम्
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे
सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
एवं यः कुरुते राजन्कमलाव्रतमुत्तमम्
शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ॥ ४३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः ६२