०६१

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम्
कार्तिके शुक्लपक्षे या तां मे कथय मानद ॥ १ ॥

मूलम्

श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि शुक्ले चोर्जदले तु या
सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा ॥ २ ॥

नारद उवाच -
प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम
यस्यां जागर्ति गोविन्दो धर्मकर्मप्रवर्त्तकः ॥ ३ ॥

ब्रह्मोवाच-
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ॥ ४ ॥

तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ॥ ५ ॥

तावद्गर्जन्ति विप्रेन्द्र गङ्गाभागीरथी क्षितौ
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ॥ ६ ॥

अश्वमेधसहस्राणि राजसूयशतानि च
एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः ॥ ७ ॥

यद्दुर्ल्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम्
तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी ॥ ८ ॥

ऐश्वर्यं सम्पदं प्रज्ञां राज्यं च सुखसम्पदः
ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी ॥ ९ ॥

मेरुमन्दरमात्राणि पापान्युक्तानि यानि च
एकेनैवोपवासेन दहते पापनाशिनी ॥ १० ॥

मूलम्

मेरुमन्दरमात्राणि पापान्युक्तानि यानि च
एकेनैवोपवासेन दहते पापनाशिनी ॥ १० ॥

विश्वास-प्रस्तुतिः

पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम्
निशि जागरणं चास्या दहते तूलराशिवत् ॥ ११ ॥

उपवासं प्रबोधिन्यां यः करोति स्वभावतः
विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् ॥ १२ ॥

यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम् ॥ १३ ॥

विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम्
अणुमात्रं तदाप्नोति फलं धर्मस्य नारद ॥ १४ ॥

ये ध्यायन्ति मनोवृत्या ये करिष्यन्ति बोधिनीम्
वसन्ति पितरो हृष्टा विष्णुलोके च तस्य वै ॥ १५ ॥

विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम्
कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः ॥ १६ ॥

कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः
दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः ॥ १७ ॥

प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे
आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा काञ्चनं महीम् ॥ १८ ॥

तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः
जातः स एव सुकृती कुलं तेनैव पावितम् ॥ १९ ॥

कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी
यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाध्रुवम् ॥ २० ॥

इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम्
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च ॥ २१ ॥

तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम्
किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी ॥ २२ ॥

पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी
स ज्ञानी च स योगी च स तपस्वी जितेन्द्रियः ॥ २३ ॥

भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम्
विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी ॥ २४ ॥

यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः
प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः ॥ २५ ॥

सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद
कर्मणा मनसा वाचा पापं यत्समुपार्जितम् ॥ २६ ॥

तत्क्षालयति गोविन्दः प्रबोधिन्यां तु जागरे
स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम् ॥ २७ ॥

नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम्
येर्चयन्ति नरास्तस्यां भक्त्या देवं च माधवम् ॥ २८ ॥

समुपोष्य प्रमुच्यन्ते पापैस्तैः शतजन्मजैः
महाव्रतमिदं पुत्र महापापौघनाशनम् ॥ २९ ॥

प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत्
व्रतेनानेन देवेशं परितोष्य जनार्दनम् ॥ ३० ॥

विराजयन्दिशः सर्वाः प्रयाति हरिमन्दिरम्
कर्तव्यैषा प्रयत्नेन नरैः कान्तिधनार्थिभिः ॥ ३१ ॥

बाल्ये यत्सञ्चितं पापं यौवने वार्द्धके तथा
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ ३२ ॥

तत्क्षालयति गोविन्दश्चास्यामभ्यर्चितो नृणाम्
धनधान्यवहा पुण्या सर्वपापहरा परा ॥ ३३ ॥

तामुपोष्य हरेर्भक्त्या दुर्ल्लभं न भवेत्क्वचित्
चन्द्रसूर्योपरागे च यत्फलं परिकीर्तितम् ॥ ३४ ॥

तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे
स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः ॥ ३५ ॥

तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत्
जन्मप्रभृतियत्पुण्यं नरेणोपार्जितं भवेत् ॥ ३६ ॥

वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम्
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः ॥ ३७ ॥

न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ॥ ३८ ॥

उपसेवेत विप्रेन्द्र सर्वकामफलप्रदम्
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः ॥ ३९ ॥

परान्नवर्जनाद्वत्स चान्द्रायणफलं लभेत्
नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः ॥ ४० ॥

स दहेत्सर्वपापानि यज्ञायुतफलं लभेत्
न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः ॥ ४१ ॥

यथा शास्त्रकथालापैः कार्तिके मधुसूदनः
ये कुर्वन्ति कथां विष्णोर्ये शृण्वन्ति शुभान्विताः ॥ ४२ ॥

श्लोकार्द्धं श्लोकपादं वा कार्तिके गोशतं फलम्
सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः ॥ ४३ ॥

शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने
श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम् ॥ ४४ ॥

कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम्
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम् ॥ ४५ ॥

कार्तिके तु विशेषेण गोसहस्रफलं लभेत्
प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम् ॥ ४६ ॥

सप्तद्वीपवती दाने तत्फलं लभते मुने
श्रुत्वा विष्णुकथां दिव्यां येऽर्चयन्ति कथाविदम् ॥ ४७ ॥

स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः
गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः ॥ ४८ ॥

न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय
गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने ॥ ४९ ॥

यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः
बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः 6.61.॥ ५० ॥

हरेः पूजा विधातव्या कार्तिके बोधवासरे
यस्मात्पुण्यमसङ्ख्यातं प्राप्यते मुनिसत्तम ॥ ५१ ॥

फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे
शङ्खे तोयं समादाय अर्घो देयो जनार्दने ॥ ५२ ॥

यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम्
तत्फलं कोटिगुणितं दत्त्वार्घं बोधवासरे ॥ ५३ ॥

गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः
दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः ॥ ५४ ॥

भागवतं शृणुते यस्तु पुराणं च पठेन्नरः
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ॥ ५५ ॥

कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम्
यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला ॥ ५६ ॥

केतक्या एकपत्रेण पूजितो गरुडध्वजः
समाः सहस्रं सुप्रीतो भवति मधुसूदनः ॥ ५७ ॥

अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम्
दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति ॥ ५८ ॥

मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः
ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा ॥ ५९ ॥

विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥ ६० ॥

तुलसीदलानि पुष्पाणि ये यच्छन्ति जनार्दने
कार्तिके सकलं वत्स पापं जन्मायुतं दहेत् ॥ ६१ ॥

दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता
रोपिता सिञ्चिता नित्यं पूजिता तुलसी शुभा ॥ ६२ ॥

नवधा तुलसीभक्तिं ये कुर्वन्ति दिनेदिने
युगकोटिसहस्राणि तन्वन्ति सुकृतं मुने ॥ ६३ ॥

यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने
रोपिता तुलसी पुम्भिर्वर्द्धते वसुधातले ॥ ६४ ॥

तेषां वंशे तु ये जाता ये भविष्यन्ति ये गताः
आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे ॥ ६५ ॥

यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद
तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत् ॥ ६६ ॥

सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः
पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः ॥ ६७ ॥

इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः
तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने ॥ ६८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे कार्त्तिके शुक्लैकादशीमाहात्म्यन्नामैकषष्टितमोऽध्यायः ६१