०६०

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन
कार्त्तिकस्यासिते पक्षे किन्नामैकादशी भवेत् ॥ १ ॥

मूलम्

कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन
कार्त्तिकस्यासिते पक्षे किन्नामैकादशी भवेत् ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
श्रूयतां राजशार्दूल कथयामि तवाग्रतः
कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
श्रूयतां राजशार्दूल कथयामि तवाग्रतः
कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना ॥ २ ॥

विश्वास-प्रस्तुतिः

एकादशी समाख्याता महापापहरा परा
अस्याः प्रसङ्गतो राजन्माहात्म्यं प्रवदामि ते ॥ ३ ॥

मूलम्

एकादशी समाख्याता महापापहरा परा
अस्याः प्रसङ्गतो राजन्माहात्म्यं प्रवदामि ते ॥ ३ ॥

विश्वास-प्रस्तुतिः

मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा
देवेन्द्रेण समं तस्य मित्रत्वमभवन्नृप ॥ ४ ॥

मूलम्

मुचुकुन्द इति ख्यातो बभूव नृपतिः पुरा
देवेन्द्रेण समं तस्य मित्रत्वमभवन्नृप ॥ ४ ॥

विश्वास-प्रस्तुतिः

यमेन वरुणेनैव कुबेरेणापि सर्वथा
विभीषणेन यस्यैव सखित्वमभवन्नृप ॥ ५ ॥

मूलम्

यमेन वरुणेनैव कुबेरेणापि सर्वथा
विभीषणेन यस्यैव सखित्वमभवन्नृप ॥ ५ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तः सत्यसन्धो बभूव नृपतिः परः
तस्यैवं शासतो राजन्राज्यं निहतकण्टकम् ॥ ६ ॥

मूलम्

विष्णुभक्तः सत्यसन्धो बभूव नृपतिः परः
तस्यैवं शासतो राजन्राज्यं निहतकण्टकम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

बभूव दुहिता गेहे चन्द्रभागा सरिद्वरा
शोभनाय च सा दत्ता चन्द्रसेनसुताय वै ॥ ७ ॥

मूलम्

बभूव दुहिता गेहे चन्द्रभागा सरिद्वरा
शोभनाय च सा दत्ता चन्द्रसेनसुताय वै ॥ ७ ॥

विश्वास-प्रस्तुतिः

स कदाचित्समायातः श्वशुरस्य गृहे नृप
एकादशीव्रतदिनं समायातं सुपुण्यदम् ॥ ८ ॥

मूलम्

स कदाचित्समायातः श्वशुरस्य गृहे नृप
एकादशीव्रतदिनं समायातं सुपुण्यदम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

समागते व्रतदिने चन्द्रभागा त्वचिन्तयत्
किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ॥ ९ ॥

मूलम्

समागते व्रतदिने चन्द्रभागा त्वचिन्तयत्
किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ॥ ९ ॥

विश्वास-प्रस्तुतिः

क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः
पटहस्ताड्यते यस्य सम्प्राप्ते दशमीदिने ॥ १० ॥

मूलम्

क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः
पटहस्ताड्यते यस्य सम्प्राप्ते दशमीदिने ॥ १० ॥

विश्वास-प्रस्तुतिः

न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने
श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ॥ ११ ॥

मूलम्

न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने
श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

किं कर्त्तव्यं मया कान्ते देहि शिक्षां वरानने
चन्द्रभागोवाच -
मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् ॥ १२ ॥

मूलम्

किं कर्त्तव्यं मया कान्ते देहि शिक्षां वरानने
चन्द्रभागोवाच -
मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् ॥ १२ ॥

विश्वास-प्रस्तुतिः

गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने ॥ १३ ॥

मूलम्

गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च
तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने ॥ १३ ॥

विश्वास-प्रस्तुतिः

मानवैश्च कुतः कान्त भुज्यते हरिवासरे
यदि त्वं भोक्ष्यसे कान्त ततो गर्हां प्रयास्यसि ॥ १४ ॥

मूलम्

मानवैश्च कुतः कान्त भुज्यते हरिवासरे
यदि त्वं भोक्ष्यसे कान्त ततो गर्हां प्रयास्यसि ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवं विचार्य मनसा सुदृढं मानसं कुरु
शोभन उवाच-
सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् ॥ १५ ॥

मूलम्

एवं विचार्य मनसा सुदृढं मानसं कुरु
शोभन उवाच-
सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

दैवेन विहितं यद्धि तत्तथैव भविष्यति
इति दृढां मतिं कृत्वा चकार नियमं व्रते ॥ १६ ॥

मूलम्

दैवेन विहितं यद्धि तत्तथैव भविष्यति
इति दृढां मतिं कृत्वा चकार नियमं व्रते ॥ १६ ॥

विश्वास-प्रस्तुतिः

क्षुधया पीडिततनुः स बभूवातिदुःखितः
इति चिन्तयतस्तस्य आदित्योऽस्तमगाद्गिरिम् ॥ १७ ॥

मूलम्

क्षुधया पीडिततनुः स बभूवातिदुःखितः
इति चिन्तयतस्तस्य आदित्योऽस्तमगाद्गिरिम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी
हरिपूजारतानां च जागरासक्तचेतसाम् ॥ १८ ॥

मूलम्

वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी
हरिपूजारतानां च जागरासक्तचेतसाम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

बभूव नृपशार्दूल शोभनस्यातिदुःखदा
रवेरुदयवेलायां शोभनः पञ्चतां गतः ॥ १९ ॥

मूलम्

बभूव नृपशार्दूल शोभनस्यातिदुःखदा
रवेरुदयवेलायां शोभनः पञ्चतां गतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

दाहयामास राजा तं राजयोग्यैश्च दारुभिः
चन्द्रभागा नात्मदेहं ददाह पतिना सह ॥ २० ॥

मूलम्

दाहयामास राजा तं राजयोग्यैश्च दारुभिः
चन्द्रभागा नात्मदेहं ददाह पतिना सह ॥ २० ॥

विश्वास-प्रस्तुतिः

कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि
शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः ॥ २१ ॥

मूलम्

कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि
शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

प्राप्तो देवपुरं रम्यं मन्दराचलसानुनि
अनुत्तममनाधृष्यमसङ्ख्येयगुणान्वितम् ॥ २२ ॥

मूलम्

प्राप्तो देवपुरं रम्यं मन्दराचलसानुनि
अनुत्तममनाधृष्यमसङ्ख्येयगुणान्वितम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

हेमस्तम्भमयैसौधै रत्नवैडूर्यमण्डितैः
स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः ॥ २३ ॥

मूलम्

हेमस्तम्भमयैसौधै रत्नवैडूर्यमण्डितैः
स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः ॥ २३ ॥

विश्वास-प्रस्तुतिः

सिंहासनसमारूढः सुश्वेतच्छत्रचामरः
किरीटकुण्डलयुतो हारकेयूरभूषितः
स्तूयमानश्च गन्धर्वैरप्सरोगणसेवितः ॥ २४ ॥

मूलम्

सिंहासनसमारूढः सुश्वेतच्छत्रचामरः
किरीटकुण्डलयुतो हारकेयूरभूषितः
स्तूयमानश्च गन्धर्वैरप्सरोगणसेवितः ॥ २४ ॥

विश्वास-प्रस्तुतिः

शोभनः शोभते यत्र राजराजोपरो यथा
सोमशर्मेति विख्यातो मुचुकुन्दपुरेऽभवत् ॥ २५ ॥

मूलम्

शोभनः शोभते यत्र राजराजोपरो यथा
सोमशर्मेति विख्यातो मुचुकुन्दपुरेऽभवत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

तीर्थयात्राप्रसङ्गेन भ्रमन्विप्रो ददर्श तम्
नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥ २६ ॥

मूलम्

तीर्थयात्राप्रसङ्गेन भ्रमन्विप्रो ददर्श तम्
नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥ २६ ॥

विश्वास-प्रस्तुतिः

शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम्
आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् ॥ २७ ॥

मूलम्

शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम्
आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ॥ २८ ॥

मूलम्

चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च
कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ॥ २८ ॥

विश्वास-प्रस्तुतिः

सोमशर्मोवाच-
कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव
चन्द्रभागा कुशलिनी सर्वतः कुशलं पुरे ॥ २९ ॥

मूलम्

सोमशर्मोवाच-
कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव
चन्द्रभागा कुशलिनी सर्वतः कुशलं पुरे ॥ २९ ॥

विश्वास-प्रस्तुतिः

स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम्
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ॥ ३० ॥

मूलम्

स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम्
पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ॥ ३० ॥

विश्वास-प्रस्तुतिः

एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया
शोभन उवाच-
कार्तिकस्यासिते पक्षे या नामैकादशी रमा ॥ ३१ ॥

मूलम्

एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया
शोभन उवाच-
कार्तिकस्यासिते पक्षे या नामैकादशी रमा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तामुपोष्य मया प्राप्तं द्विजेन्द्र पुरमध्रुवम्
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ॥ ३२ ॥

मूलम्

तामुपोष्य मया प्राप्तं द्विजेन्द्र पुरमध्रुवम्
ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

द्विज उवाच-
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्
तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा ॥ ३३ ॥

मूलम्

द्विज उवाच-
कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्
तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शोभन उवाच-
मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्
तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥ ३४ ॥

मूलम्

शोभन उवाच-
मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्
तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना
तस्यै कथय वृत्तान्तं ध्रुवमेतद्भविष्यति ॥ ३५ ॥

मूलम्

मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना
तस्यै कथय वृत्तान्तं ध्रुवमेतद्भविष्यति ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कृष्ण उवाच-
स श्रुत्वा वचनं तस्य मुचुकुन्दपुरं गतः
उवाच सर्वं वृत्तान्त्तं चन्द्रभागाग्रतो द्विजः ॥ ३६ ॥

मूलम्

कृष्ण उवाच-
स श्रुत्वा वचनं तस्य मुचुकुन्दपुरं गतः
उवाच सर्वं वृत्तान्त्तं चन्द्रभागाग्रतो द्विजः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सोमशर्मोवाच -
प्रत्यक्षं दयितः कान्तस्तव दृष्टो मया शुभे
इन्द्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया
अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ॥ ३७ ॥

मूलम्

सोमशर्मोवाच -
प्रत्यक्षं दयितः कान्तस्तव दृष्टो मया शुभे
इन्द्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया
अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ॥ ३७ ॥

विश्वास-प्रस्तुतिः

चन्द्रभागोवाच-
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्
आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥ ३८ ॥

मूलम्

चन्द्रभागोवाच-
तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्
आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

आवयोर्द्विजसंयोगो यथा भवति तत्कुरु
प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥ ३९ ॥

मूलम्

आवयोर्द्विजसंयोगो यथा भवति तत्कुरु
प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा सह तया सोमशर्मा जगाम ह
आश्रमं वामदेवस्य मन्दराचलसन्निधौ ॥ ४० ॥

मूलम्

इति श्रुत्वा सह तया सोमशर्मा जगाम ह
आश्रमं वामदेवस्य मन्दराचलसन्निधौ ॥ ४० ॥

विश्वास-प्रस्तुतिः

वामदेवोऽशृणोत्सर्वं वृत्तान्तं कथितं तयोः
अभ्यषिञ्चच्चन्द्रभागां वेदमन्त्रैरथोज्ज्वलाम् ॥ ४१ ॥

मूलम्

वामदेवोऽशृणोत्सर्वं वृत्तान्तं कथितं तयोः
अभ्यषिञ्चच्चन्द्रभागां वेदमन्त्रैरथोज्ज्वलाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ऋषिमन्त्रप्रभावेन विष्णुवासरसेवनात्
दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ॥ ४२ ॥

मूलम्

ऋषिमन्त्रप्रभावेन विष्णुवासरसेवनात्
दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ॥ ४२ ॥

विश्वास-प्रस्तुतिः

पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना
जहर्ष शोभनोऽतीव दृष्ट्वा कान्तां समागताम् ॥ ४३ ॥

मूलम्

पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना
जहर्ष शोभनोऽतीव दृष्ट्वा कान्तां समागताम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

समाहूय स्वके वामे पार्श्वेतां सन्न्यवेशयत्
अथोवाच प्रियं हर्षाच्चन्द्रभागा प्रियं वचः ॥ ४४ ॥

मूलम्

समाहूय स्वके वामे पार्श्वेतां सन्न्यवेशयत्
अथोवाच प्रियं हर्षाच्चन्द्रभागा प्रियं वचः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

शृणु कान्त हितं वाक्यं यत्पुण्यं विद्यते मयि
अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ॥ ४५ ॥

मूलम्

शृणु कान्त हितं वाक्यं यत्पुण्यं विद्यते मयि
अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ॥ ४५ ॥

विश्वास-प्रस्तुतिः

ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम्
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा
तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ॥ ४६ ॥

मूलम्

ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम्
यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा
तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सर्वकामसमृद्धं च यावदाभूतसम्प्लवम्
एवं सा नृपशार्दूल रमते पतिना सह ॥ ४७ ॥

मूलम्

सर्वकामसमृद्धं च यावदाभूतसम्प्लवम्
एवं सा नृपशार्दूल रमते पतिना सह ॥ ४७ ॥

विश्वास-प्रस्तुतिः

दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता
शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ॥ ४८ ॥

मूलम्

दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता
शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

रमाव्रतप्रभावेन मन्दराचलसानुनि
चिन्तामणिसमा ह्येषा कामधेनुसमाथ वा ॥ ४९ ॥

मूलम्

रमाव्रतप्रभावेन मन्दराचलसानुनि
चिन्तामणिसमा ह्येषा कामधेनुसमाथ वा ॥ ४९ ॥

विश्वास-प्रस्तुतिः

रमाभिधाना नृपते तवाग्रे कथिता मया
तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप 6.60.॥ ५० ॥

मूलम्

रमाभिधाना नृपते तवाग्रे कथिता मया
तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप 6.60.॥ ५० ॥

विश्वास-प्रस्तुतिः

मया तवाग्रे कथितं माहात्म्यं पापनाशनम्
एकादशीव्रतानां च पक्षयोरुभयोरपि ॥ ५१ ॥

मूलम्

मया तवाग्रे कथितं माहात्म्यं पापनाशनम्
एकादशीव्रतानां च पक्षयोरुभयोरपि ॥ ५१ ॥

विश्वास-प्रस्तुतिः

यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत्
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ॥ ५२ ॥

मूलम्

यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत्
सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ॥ ५२ ॥

विश्वास-प्रस्तुतिः

धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ॥ ५३ ॥

मूलम्

धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः
तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

एकादशीव्रतानां यो माहात्म्यं शृणुते नरः
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५४ ॥

मूलम्

एकादशीव्रतानां यो माहात्म्यं शृणुते नरः
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः ६०