०५९

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

कथयस्व प्रसादेन ममाग्रे मधुसूदन
इषस्य शुक्लपक्षे तु किं नामैकादशीभवेत् ॥ १ ॥

मूलम्

श्रीकृष्णउवाच-
शृणुराजेन्द्र वक्ष्यामि माहात्म्यं पाप नाशनम्
शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या ॥ २ ॥

पापाङ्कुशेति विख्याता सर्वपापहरा परा
पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः ॥ ३ ॥

सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम्
तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः ॥ ४ ॥

यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम्
कृत्वापि बहुशःपापं नरो मोह समन्वितः ॥ ५ ॥

न याति नरकं नत्वा सर्वपापहरं हरिम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥ ६ ॥

तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्त्तनात्
देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम् ॥ ७ ॥

न तेषां यमलोकस्य यातना जायते क्वचित्
उपोष्यैकादशीमेकां प्रसङ्गेनापि मानवः
न याति यातनां यामीं पापं कृत्वापि दारुणम् ॥ ८ ॥

वैष्णवः पुरुषो भूत्वा शिवनिन्दां करोति यः
न विन्देद्वैष्णवं लोकं स याति नरकं ध्रुवम् ॥ ९ ॥

शैवः पाशुपतो भूत्वा विष्णुनिन्दां करोति चेत्
रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश ॥ १० ॥

नेदृशं पावनं किञ्चित्त्रिषु लोकेषु विद्यते
यादृशं पद्मनाभस्य व्रतं पातकनाशनम् ॥ ११ ॥

तावत्पापानि देहेऽस्मिन्तिष्ठन्ति मनुजाधिपम्
यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् ॥ १२ ॥

अश्वमेधसहस्राणि राजसूयशतानि च
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ १३ ॥

एकादशीसमं किञ्चिद्व्रतं लोके न विद्यते
व्याजेनापि कृता यैश्च न ते यान्ति हि भास्करिम् ॥ १४ ॥

स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी
कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी ॥ १५ ॥

न गङ्गा न गया राजन्न च काशी च पुष्करम्
न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात् ॥ १६ ॥

रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम्
अनायासेन भूपाल प्राप्यते वैष्णवं पदम् ॥ १७ ॥

दशैव मातृके पक्षे राजेन्द्र दश पैतृके
प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः ॥ १८ ॥

चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम् ॥ १९ ॥

बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम
उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् ॥ २० ॥

पापाङ्कुशामुपोष्यैव आश्विनस्य सिते नरः
सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति ॥ २१ ॥

दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा
उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः ॥ २२ ॥

यस्य पुण्यविहीनानि दिनान्यायान्ति यान्ति च
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ २३ ॥

अवन्ध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम
सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः ॥ २४ ॥

होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम्
कर्त्तारो नैव पश्यन्ति घोरां तां यमयातनाम् ॥ २५ ॥

दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः
दृश्यन्ते मानवा लोके पुण्यकर्त्तार ईदृशाः ॥ २६ ॥

किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम्
आरोहन्ति दिवं धर्मैर्नात्रकार्या विचारणा ॥ २७ ॥

इति ते कथितं राजन्यत्पृष्टोऽहं त्वयानघ
पापाङ्कुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ २८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे आश्विनशुक्लपापाङ्कुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः५९