युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
कथयस्व प्रसादेन ममाग्रे मधुसूदन
इषस्य कृष्णपक्षे तु किन्नामैकादशीभवेत् ॥ १ ॥
मूलम्

श्रीकृष्ण उवाच-
आश्विने कृष्णपक्षे तु इन्दिरा नाम नामतः
तस्या व्रतप्रभावेन महापापं प्रणश्यति ॥ २ ॥

अधोयोनि गतानां च पितॄणां गतिदायिनी
शृणुष्वावहितो राजन्कथां पापहरां पराम् ॥ ३ ॥

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
पुरा कृतयुगे राजन्बभूव नृपनन्दनः ॥ ४ ॥
मूलम्
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
पुरा कृतयुगे राजन्बभूव नृपनन्दनः ॥ ४ ॥
विश्वास-प्रस्तुतिः
इन्द्रसेन इति ख्यातः पुरा माहिष्मतीपतिः
स राजा पालयामास धर्मेण यशसान्वितः ॥ ५ ॥
मूलम्
इन्द्रसेन इति ख्यातः पुरा माहिष्मतीपतिः
स राजा पालयामास धर्मेण यशसान्वितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः
माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ॥ ६ ॥

जपन्गोविन्दनामानि मुक्तिदानि नराधिपः
कालं नयति विधिवदध्यात्मध्यानचिन्तकः ॥ ७ ॥

एकस्मिन्दिवसे राज्ञि सुखासीने सदो गते
अवतीर्यागमत्तत्र ह्यम्बरान्नारदो मुनिः ॥ ८ ॥

तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृताञ्जलि
पूजयित्वाथ विधिना चासने सन्न्यवेशयत् ॥ ९ ॥

सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः
राजोवाच-
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम ॥ १० ॥

अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्
प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् ॥ ११ ॥

नारद उवाच-
श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम्
ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम ॥ १२ ॥

शमनेनार्चितो भक्त्या उपविष्टो वरासने
धर्मशीलः सत्यवांस्तु भास्करिं समुपासते ॥ १३ ॥

बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतः
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव ॥ १४ ॥

कथितस्तेन सन्देशस्तं निबोध जनेश्वर
इन्द्रसेन इति ख्यातो राजा माहिष्मतीपतिः ॥ १५ ॥

तस्याग्रे कथयब्रह्मन्स्थितं मां यमसन्निधौ
केनापि चान्तरायेण पूर्वजन्मोद्भवेन च ॥ १६ ॥

स्वर्गं प्रेषय मां पुत्र इन्दिरा पुण्य दानतः
इत्युक्तोऽहं समायातः समीपं तव पार्थिव ॥ १७ ॥

पितुः स्वर्गकृते राजन्निन्दिरा व्रतमाचर
तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता ॥ १८ ॥

कथयस्व प्रसादेन भगवन्निन्दिरा व्रतम्
विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा ॥ १९ ॥

नारदउवाच-
शृणु राजेन्द्र ते वच्मि व्रतस्यास्य विधिं शुभम्
आश्विनस्यासिते पक्षे दशमी दिवसे शुभे ॥ २० ॥

प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा
ततो मध्याह्नसमये स्नानं कृत्वा समाहितः ॥ २१ ॥

पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः
एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च
प्रभाते विमले जाते प्राप्ते चैकादशी दिने ॥ २२ ॥

मुख प्रक्षालनं कुर्याद्दन्तधावन वर्जितम्
उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ॥ २३ ॥

अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः
श्वो भोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ २४ ॥

इत्येवं नियमं कृत्वा मध्याह्न समये तथा
शालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि ॥ २५ ॥

पूजयित्वा हृषीकेशं धूप गन्धादिभिस्तथा
रात्रौ जागरणं कुर्यात्केशवस्य समीपतः ॥ २६ ॥

ततः प्रभातसमये प्राप्ते वै द्वादशी दिने
अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि ॥ २७ ॥
मूलम्
ततः प्रभातसमये प्राप्ते वै द्वादशी दिने
अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि ॥ २७ ॥
विश्वास-प्रस्तुतिः
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः
गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत् ॥ २८ ॥

यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा
ब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान् ॥ २९ ॥

बन्धु दौहित्र पुत्राद्यैः स्वयं भुञ्जीत वाग्यतः
अनेन विधिना राजन्कुरुव्रतमतन्द्रितः ॥ ३० ॥

विष्णुलोकं प्रयास्यन्ति पितरस्तव भूपते
इत्युक्त्वा नृपतिं राजन्मुनिरन्तरधीयत ॥ ३१ ॥

यथोक्त विधिना राजा चकार व्रतमुत्तमम्
अन्तःपुरेण सहितः पुत्रभृत्य समन्वितः ॥ ३२ ॥

कृते व्रते तु कौन्तेय पुष्पवृष्टिरभूद्दिवः
तत्पिता गरुडारूढो जगाम हरिमन्दिरम् ॥ ३३ ॥

इन्द्रसेनोऽपिराजर्षिः कृत्वा राज्यमकण्टकम्
राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् ॥ ३४ ॥

इन्दिरा व्रत माहात्म्यं तवाग्रे कथितं मया
पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते ॥ ३५ ॥

भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम् ॥ ३६ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यांसंहितायाम् उत्तरखण्डे
उमापतिनारदसंवादे आश्विनकृष्णेन्दिरैकादशीनामाष्टपञ्चाशत्तमोऽध्यायः ५८