०५७

युधिष्ठिर उवाच -

विश्वास-प्रस्तुतिः

नभस्यस्य सिते पक्षे किन्नामैकादशी भवेत्
को देवः को विधिस्तस्य एतदाख्याहि केशव ॥ १ ॥

मूलम्

नभस्यस्य सिते पक्षे किन्नामैकादशी भवेत्
को देवः को विधिस्तस्य एतदाख्याहि केशव ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम्
कथयामास यां ब्रह्मा नारदाय महात्मने ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम्
कथयामास यां ब्रह्मा नारदाय महात्मने ॥ २ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥ ३ ॥

मूलम्

नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥ ३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया
नातः परतरा लोके पवित्रा हरिवासरात् ॥ ४ ॥

मूलम्

ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया
नातः परतरा लोके पवित्रा हरिवासरात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

पद्मा नामेति विख्याता नभस्यैकादशी सिता
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥ ५ ॥

मूलम्

पद्मा नामेति विख्याता नभस्यैकादशी सिता
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ ६ ॥

मूलम्

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ ६ ॥

विश्वास-प्रस्तुतिः

मान्धाता नाम राजर्षिर्विवस्वद्वंशसम्भवः
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान् ॥ ७ ॥

मूलम्

मान्धाता नाम राजर्षिर्विवस्वद्वंशसम्भवः
बभूव चक्रवर्ती स सत्यसन्धः प्रतापवान् ॥ ७ ॥

विश्वास-प्रस्तुतिः

धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥ ८ ॥

मूलम्

धर्मतः पालयामास प्रजाः पुत्रानिवौरसान्
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ॥ ८ ॥

विश्वास-प्रस्तुतिः

निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥ ९ ॥

मूलम्

निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ॥ ९ ॥

विश्वास-प्रस्तुतिः

स्वस्वधर्मे प्रवर्त्तन्ते सर्वे वर्णाश्रमास्तथा
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥ १० ॥

मूलम्

स्वस्वधर्मे प्रवर्त्तन्ते सर्वे वर्णाश्रमास्तथा
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः
अथैकस्मिंश्च सम्प्राप्ते विपाकः कर्मणः खलु ॥ ११ ॥

मूलम्

तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः
अथैकस्मिंश्च सम्प्राप्ते विपाकः कर्मणः खलु ॥ ११ ॥

विश्वास-प्रस्तुतिः

वर्षत्रयं तद्विषये न ववर्ष बलाहकः
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥ १२ ॥

मूलम्

वर्षत्रयं तद्विषये न ववर्ष बलाहकः
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः ॥ १२ ॥

विश्वास-प्रस्तुतिः

स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः
बभूव विषयस्तस्या भाग्येन दैवपीडितः
अथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥ १३ ॥

मूलम्

स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः
बभूव विषयस्तस्या भाग्येन दैवपीडितः
अथ प्रजाः समागम्य राजानमिदमब्रुवन् ॥ १३ ॥

विश्वास-प्रस्तुतिः

प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥ १४ ॥

मूलम्

प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः ॥ १४ ॥

विश्वास-प्रस्तुतिः

अयनं भगवतस्तस्मान्नारायण इति स्मृतः
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥ १५ ॥

मूलम्

अयनं भगवतस्तस्मान्नारायण इति स्मृतः
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः
तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥ १६ ॥

मूलम्

स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः
तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥ १७ ॥

मूलम्

राजोवाच-
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित्
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥ १८ ॥

मूलम्

अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे ॥ १८ ॥

विश्वास-प्रस्तुतिः

नृपाणामपचारेण प्रजानां पीडनं भवेत्
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥ १९ ॥

मूलम्

नृपाणामपचारेण प्रजानां पीडनं भवेत्
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तथापि प्रयतिष्यामि प्रजानां हितकाम्यया
इति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥ २० ॥

मूलम्

तथापि प्रयतिष्यामि प्रजानां हितकाम्यया
इति कृत्वा मतिं राजा परिमेयपरिच्छदः ॥ २० ॥

विश्वास-प्रस्तुतिः

नमस्कृत्य विधातारं जगाम गहनं वनम्
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥ २१ ॥

मूलम्

नमस्कृत्य विधातारं जगाम गहनं वनम्
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ददर्शाथ ब्रह्मसुतमृषिमाङ्गिरसं नृपः
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥ २२ ॥

मूलम्

ददर्शाथ ब्रह्मसुतमृषिमाङ्गिरसं नृपः
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्
नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी ॥ २३ ॥

मूलम्

तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात्
नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी ॥ २३ ॥

विश्वास-प्रस्तुतिः

मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः ॥ २४ ॥

मूलम्

मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम्
पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः ॥ २४ ॥

विश्वास-प्रस्तुतिः

निवेदयित्वा कुशलं पप्रच्छानामयं नृपः
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ ॥ २५ ॥

मूलम्

निवेदयित्वा कुशलं पप्रच्छानामयं नृपः
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य सन्निधौ ॥ २५ ॥

विश्वास-प्रस्तुतिः

प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥ २६ ॥

मूलम्

प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम्
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥ २७ ॥

मूलम्

राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम्
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

संशयच्छेदनायात्र आगतोऽहं तवान्तिके
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥ २८ ॥

मूलम्

संशयच्छेदनायात्र आगतोऽहं तवान्तिके
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम्
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥ २९ ॥

मूलम्

ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम्
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः ॥ २९ ॥

विश्वास-प्रस्तुतिः

अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः
विषये तव राजेन्द्र वृषलोऽयं तपस्यति ॥ ३० ॥

मूलम्

अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः
विषये तव राजेन्द्र वृषलोऽयं तपस्यति ॥ ३० ॥

विश्वास-प्रस्तुतिः

एतस्मात्कारणाच्चैव न वर्षति बलाहकः
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥ ३१ ॥

मूलम्

एतस्मात्कारणाच्चैव न वर्षति बलाहकः
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥ ३१ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्
धर्मोपदेशं कथय उपसर्गविनाशनम् ॥ ३२ ॥

मूलम्

राजोवाच-
नाहमेनं वधिष्यामि तपस्यन्तमनागसम्
धर्मोपदेशं कथय उपसर्गविनाशनम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥ ३३ ॥

मूलम्

ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम्
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥ ३४ ॥

मूलम्

तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम्
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥ ३५ ॥

मूलम्

अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥ ३६ ॥

मूलम्

भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत्
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

एवं व्रते कृते राजन्प्रववर्ष बलाहकः
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥ ३७ ॥

मूलम्

एवं व्रते कृते राजन्प्रववर्ष बलाहकः
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥ ३८ ॥

मूलम्

ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ ३९ ॥

मूलम्

दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ ३९ ॥

विश्वास-प्रस्तुतिः

नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञक
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ ४० ॥

मूलम्

नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञक
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ ४० ॥

विश्वास-प्रस्तुतिः

भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥ ४१ ॥

मूलम्

भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥ ४१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपञ्चाशत्तमोऽध्यायः५७