युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
भाद्रस्य कृष्णपक्षे तु किन्नामैकादशीभवेत्
एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन ॥ १ ॥
मूलम्

श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथयिष्यामि विस्तरात्
अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी ॥ २ ॥

पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः
पापानि तस्य नश्यन्ति व्रतस्य श्रवणादपि ॥ ३ ॥

नातः परतरा राजन्लोकद्वयहिताय वै
सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम् ॥ ४ ॥

हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा
चक्रवर्ती सत्यसन्धः समस्ताया भुवः पतिः ॥ ५ ॥

कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः
विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम् ॥ ६ ॥

पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत्
सत्यमालम्ब्य राजेन्द्र मृतचैलापहारकः ॥ ७ ॥

सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा
एवं च तस्य नृपतेर्बहवो वत्सरा गताः ॥ ८ ॥

ततश्चिन्तापरो राजा स बभूवातिदुःखितः
किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत् ॥ ९ ॥

इति चिन्तयतस्तस्य मग्नस्य वृजिनार्णवे
आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम् ॥ १० ॥

परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः
स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः ॥ ११ ॥

कृताञ्जलिपुटो भूत्वा गौतमस्याग्रतः स्थितः
कथयामास वृत्तान्तमात्मनो दुःखसंयुतम् ॥ १२ ॥

श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः
उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः ॥ १३ ॥

मासि भाद्रपदे राजन्कृष्णपक्षेति शोभना
एकादशी समायाता अजा नामेति पुण्यदा ॥ १४ ॥

अस्याः कुरु व्रतं राजन्पापस्यान्तो भविष्यति
तव भाग्यवशादेषा सप्तमेऽह्नि समागता ॥ १५ ॥

उपवासपरो भूत्वा रात्रौ जागरणं कुरु
एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम् ॥ १६ ॥

तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम
इत्येवं कथयित्वा च मुनिरन्तरधीयत ॥ १७ ॥
मूलम्
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम
इत्येवं कथयित्वा च मुनिरन्तरधीयत ॥ १७ ॥
विश्वास-प्रस्तुतिः
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम्
कृते तस्मिन्व्रते राज्ञः पापस्यान्तोऽभवत्क्षणात् ॥ १८ ॥

श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च
यद्दुःखम्बहुभिर्वर्षैर्भोक्तव्यन्तत्क्षयोभवेत् ॥ १९ ॥

निस्तीर्णदुःखो राजासीद्व्रतस्यास्य प्रभावतः
पत्न्या सह समायोगं पुत्रजीवनमाप सः ॥ २० ॥

दिवि दुन्दुभयो नेदुः पुष्पवर्षमभूद्दिवः
एकादश्याः प्रभावेन प्राप्यराज्यमकण्टकम् ॥ २१ ॥

स्वर्गं लेभे हरिश्चन्द्रः सपुरः सपरिच्छदः
ईदृग्विधं व्रतंराजन्ये कुर्वन्ति च मानवाः ॥ २२ ॥

सर्वपापविनिर्मुक्तास्त्रिदिवं यान्ति ते नृप
पठनाच्छ्रवणाद्वापि अश्वमेधफलं लभेत् ॥ २३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे भाद्रपदकृष्णाजैकादशीनाम षट्पञ्चाशत्तमोऽध्यायः५६