०५५

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

श्रावणस्य सिते पक्षे किं नामैकादशीभवेत्
कथयस्व प्रसादेन ममाग्रे मधुसूदन ॥ १ ॥

मूलम्

श्रावणस्य सिते पक्षे किं नामैकादशीभवेत्
कथयस्व प्रसादेन ममाग्रे मधुसूदन ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
शृणुष्वावहितो राजन्कथां पापहरां पराम्
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् ॥ २ ॥

द्वापरस्य युगस्यादौ पुरा माहिष्मती पुरे
राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ॥ ३ ॥

पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम्
अपुत्रस्य सुखं नास्ति इहलोके परत्र च ॥ ४ ॥

चिन्तयास्य सुतस्यैवं कालो बहुतरो गतः
न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ॥ ५ ॥

दृष्ट्वात्मानं प्रवयसं राजा चिन्तापरोऽभवत्
तदागतः प्रजामध्ये इदं वचनमब्रवीत् ॥ ६ ॥

इहजन्मनि भो लोका न मया पातकं कृतम्
अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ॥ ७ ॥

ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित्
न्यासापहारो न कृतः परस्य बहुपापदः
पुत्रवत्पालितो लोको धर्मेण विजिता मही ॥ ८ ॥

दुष्टेषु पातितो दण्डो बन्धुपुत्रोपमेष्वपि
शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ॥ ९ ॥

इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः
कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् ॥ १० ॥

इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः
मन्त्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ॥ ११ ॥

इतस्ततश्च पश्यन्त आश्रमानृषिसेवितान्
नृपतेर्हितमिच्छन्तो ददृशुर्मुनिसत्तमम् ॥ १२ ॥

तप्यमानं तपो घोरं निरालम्बं निरामयम्
निराहारं जितात्मानं जितक्रोधं सनातनम् ॥ १३ ॥

लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम्
दीर्घायुषं महात्मानं सकेशं ब्रह्मसम्मितम् ॥ १४ ॥

कल्पेकल्पे गते तस्य एकं लोम विशीर्यते
अतो लोमशनामायं त्रिकालज्ञो महामुनिः ॥ १५ ॥

तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम्
यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम् ॥ १६ ॥

विनयावनताः सर्वे ऊचुस्ते च परस्परम्
अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः
तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः ॥ १७ ॥

लोमश उवाच-
किमर्थमिह सम्प्राप्तः कथयध्वं सकारणम्
दर्शनाद्धृष्टमनसः स्तुवन्तश्चैव मां किमु ॥ १८ ॥

असंशयं करिष्यामि भवतां यद्धितं भवेत्
परोपकृतये जन्म मादृशानां न संशयः ॥ १९ ॥

मूलम्

असंशयं करिष्यामि भवतां यद्धितं भवेत्
परोपकृतये जन्म मादृशानां न संशयः ॥ १९ ॥

विश्वास-प्रस्तुतिः

जना ऊचुः -
श्रूयतामभिधास्यामो वयं स्वागमकारणम्
संशयच्छेदनार्थाय तव सान्निध्यमागताः ॥ २० ॥

पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते
अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम् ॥ २१ ॥

महीजिन्नाम राजासौ पुत्रहीनोऽस्ति साम्प्रतम्
वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः ॥ २२ ॥

तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः
तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम् ॥ २३ ॥

तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् ॥ २४ ॥

उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत्
इति तेषां वचः श्रुत्वा मुहूर्त्तं ध्यानमास्थितः
प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम् ॥ २५ ॥

पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत्
वाणिज्यकर्मनिरतो ग्रामाद्ग्रामान्तरं भ्रमन् ॥ २६ ॥

ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा
मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम् ॥ २७ ॥

कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे
सद्यस्ततः सवत्सा च धेनुस्तत्र समागता ॥ २८ ॥

तृष्णातुरा निदाघार्ता तस्यामम्बुपपौ तु सा
पिबन्तीं वारयित्वा तामसौ तोयं पपौ स्वयम् ॥ २९ ॥

कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत्
कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकण्टकम् ॥ ३० ॥

लोका ऊचुः -
पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने
पुण्योपदेशं कथय येन पापक्षयो भवेत्
यथा भवत्प्रसादेन पुत्रो भवति भूपतेः ॥ ३१ ॥

श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता
एकादशी वाञ्च्छितदा कुरुध्वं तद्व्रतं जनाः ॥ ३२ ॥

इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम्
यथाविधियथान्यायं कृतं तैर्जागरान्वितम् ॥ ३३ ॥

तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः
दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम् ॥ ३४ ॥

प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम्
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ॥ ३५ ॥

द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम्
हेम रौप्य ताम्र क्षौमैः सूत्रैः कौशेयपद्मजैः ॥ ३६ ॥

कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः
स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् ॥ ३७ ॥

गोदोहान्तरिते काले पूर्वेद्युरधिवासनम्
ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च ॥ ३८ ॥

गीतमङ्गलनिर्घोषः कुर्याज्जागरणं ततः
ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च ॥ ३९ ॥

स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम्
ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम् ॥ ४० ॥

ब्राह्मणान्वैष्णवांश्चैव गन्धपुष्पादिनार्चयेत्
अतो देवेति मन्त्रेण द्विजो विष्णौ निवेदयेत् ॥ ४१ ॥

शूद्रस्तु मूलमन्त्रेण यथा विष्णौ तथा शिवे
वर्षेवर्षे प्रकर्त्तव्यं पवित्रारोपणं नरैः ॥ ४२ ॥

भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे
न करोति विधानेन पवित्रारोपणं तु यः ॥ ४३ ॥

तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु
श्रुत्वा माहात्म्यमेतस्या नरः पापात्प्रमुच्यते
इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत् ॥ ४४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहिता
यामुत्तरखण्डे उमापतिनारदसंवादे श्रावणशुक्लापवित्रारोपणी पुत्रदैकादशीनाम पञ्चपञ्चाशत्तमोऽध्यायः ५५